गरुडपुराणम्/आचारकाण्डः/अध्यायः १४७

← आचारकाण्डः, अध्यायः १४६ गरुडपुराणम्
अध्यायः १४७
वेदव्यासः
आचारकाण्डः, अध्यायः १४८ →

श्रीगरुडमहापुराणम् १४७
धन्वन्तरिरुवाच ।
वक्ष्ये ज्वरनिदानं हि सर्वज्वरविबुद्धये ।
ज्वरो रोगपतिः पाप्मा मृत्युराजोऽशनोऽन्तकः ।
क्रुद्धदक्षाध्वरध्वंसिरुद्रोर्ध्वनयनोद्भवः ॥ १,१४७.१ ॥

तत्सन्तापो मोहमयः सन्तापात्मापचारजः ।
विविधैर्नामभिः क्रूरो नानायोनिषु वर्तते ॥ १,१४७.२ ॥

पाकलो गजेष्वभितापो वाजिष्वलर्कः कुक्रुरेषु ।
इन्द्रमदो जलदेष्वप्सु नीलिका ज्योतिरोषधीषु भूम्यामूषरो नाम ॥ १,१४७.३ ॥

हृल्लासश्छर्दनं कासः स्तंभः शैत्य त्वगादिषु ।
अङ्गेषु च समुद्भूताः पिडकाश्च कफोद्भवे ॥ १,१४७.४ ॥

काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा ।
निदानोक्तोनुपशयो विपरीतोपशायिता ॥ १,१४७.५ ॥

अरुचिश्चाविपाकश्च स्तंभमालस्यमेव च ।
हृद्दाहश्च विपाकश्च तन्द्रा चालस्यमेव च ।
वस्तिर्विमर्दावनया दोषाणामप्रवर्तनम् ॥ १,१४७.६ ॥

लालाप्रसेको हृल्लासः क्षुन्नाशो रसदं मुखम् ।
स्वच्छमुष्णगुरुत्वञ्च गात्राणां बहुमूत्रता ।
न विजीर्णं न च म्लानिर्ज्वरस्यामस्य लक्षणम् ॥ १,१४७.७ ॥

क्षुत्क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम् ।
दोषप्रवृत्तिरष्टाहान्निरामज्वरलक्षणम् ॥ १,१४७.८ ॥

यथा स्वलिङ्गं संसर्गे ज्वरसंसर्गजोऽपि वा ।
शिरोर्तिमूर्छावमिदेहदाहकण्ठास्यशोषारुचिपर्वभेदाः ।
उन्निद्रता संभ्रमरोमहर्षा जृंभातिवाक्त्वं पवनात्सपित्तात् ॥ १,१४७.९ ॥

तापहान्यरुचिपर्वशिरोरुक्ष्ठीवनश्वसनकासविवर्णाः ।
शीतजाड्यतिमिरभ्रमितन्द्राश्लेष्मवातजनितज्वरलिङ्गम् ॥ १,१४७.१० ॥

शीतस्तम्भस्वेददाहाव्यवस्थास्तृष्णा कासः श्लेष्मपित्तप्रवृत्तिः ।
मोहस्तन्द्रालिप्ततिक्तास्यता च ज्ञेयं रूपं श्लेष्मपित्तज्वरस्य ॥ १,१४७.११ ॥

सर्वजो लक्षणैः सर्वैर्दाहोऽत्र च मुहुर्मुहुः ।
तदुच्छीतं महा निद्रा दिवा जागरणं निशि ॥ १,१४७.१२ ॥

सदा वा नैव वा निद्रा महास्वेदो हि नैव वा ।
गीतनर्तनहास्यादिः प्रकृतेहाप्रवर्तनम् ॥ १,१४७.१३ ॥

साश्रुणी कलुषे रक्ते भुग्ने लुलितपक्ष्मणी ।
अक्षिणी पिण्डिकापार्श्वशिरः पर्वास्थिरुग्भ्रमः ॥ १,१४७.१४ ॥

सस्वनौ सरुजौ कर्णौ महाशीतौ हि नैव वा ।
परिदग्धा खरा जिह्वा गुरुस्त्रस्ताङ्गसन्धिता ॥ १,१४७.१५ ॥

ष्ठीवनं रक्तपित्तस्य लोठनं शिरसोऽतितृट् ।
कोष्ठानां श्यावरक्तानां मण्डलानां च दर्शनम् ॥ १,१४७.१६ ॥

हृद्व्यथा मलंससर्गः प्रवृत्तिर्वाल्पशोऽति वा ।
स्निग्धास्यता बलभ्रंशः स्वरसादः प्रलापितः ॥ १,१४७.१७ ॥

दोषपाकश्चिरं तन्द्रा प्रततं कण्ठकूजनम् ।
सन्निपातमभिन्यासं तं ब्रूयाच्च हतौजसम् ॥ १,१४७.१८ ॥

वायुना कण्ठरुद्धेन पित्तमन्तः सुपीडितम् ।
व्यवायित्वाच्च सौख्याच्च बहिर्मर्गं प्रपद्यते ।
तेन हारिद्रनेत्रत्वं सन्निपातोद्भवेज्वरे ॥ १,१४७.१९ ॥

दोषे विवृद्धे नष्टेऽग्नौ सर्वसंपूर्णलक्षणः ।
सान्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्ततोऽन्यथा ॥ १,१४७.२० ॥

अन्यत्र सन्निपातोत्थं यत्र पित्तं पृथक्स्थितम् ।
त्वचि कोष्ठे च वा दाहं विदधाति पुरोऽनु वा ॥ १,१४७.२१ ॥

तद्वद्वातकफे शीतं दाहादिर्दुस्तरस्तयोः ।
शीतादौ तत्र पित्तेन कफे स्यान्दितशोषिते ॥ १,१४७.२२ ॥

पित्ते शान्तेऽथ वै मूर्छा मदस्तृष्णा च जायते ।
दाहादौ पुनरन्तेषु तन्द्रालस्ये वमिः क्रमात् ॥ १,१४७.२३ ॥

आगन्तुरभिगाताभिषङ्गशापाभिचारतः ।
चतुर्धा तु कृतः स्वेदो दाहाद्यैरभिघातजः ॥ १,१४७.२४ ॥

श्रमाच्च तस्मिन्पवनः प्रायो रक्तं प्रदूषयन् ।
सव्यथाशोकवैवर्ण्यं सरुजं कुरुते ज्वरम् ॥ १,१४७.२५ ॥

ग्रहावेशौषधिविषक्रोधभीशोककामजः ॥ १,१४७.२६ ॥

अभिषङ्गग्रहोऽप्यस्मिन्नकस्माद्वासरोदने ।
ओषधीगन्धजे मूर्छा शिरोरुग्वमथुः क्षयः ॥ १,१४७.२७ ॥

विषान्मूर्छातिसारश्च श्यावता दाहकृद्भ्रमः ।
क्रोधात्कम्पः शिरोरुक्च प्रलापो भयशोकजे ॥ १,१४७.२८ ॥

कामाद्भ्रमोऽरुचिर्दाहो ह्रीनिद्राधीधृतिक्षयाः ।
ग्रहादौ सन्निपातस्य रूपादौ मरुतस्तयोः ॥ १,१४७.२९ ॥

कोपात्कोपेऽपि पित्तस्य यौ तु शापाभिचारजौ ।
सन्निपातज्वरौ घोरौ तावसह्यतमौ मतौ ॥ १,१४७.३० ॥

तन्त्रा भिचारिकैर्मन्त्रैर्दूयमानञ्च तप्यते ।
पूर्वञ्चैतस्ततो देहस्ततो विस्फोटदिग्भ्रमैः ॥ १,१४७.३१ ॥

सदाहमूर्छाग्रस्तस्य प्रत्यहं वर्धते ज्वरः ।
इति ज्वरोऽष्टधा दृष्टः समासाद्द्विबिधस्तु सः ॥ १,१४७.३२ ॥

शारीरो मानसः सौम्यस्तीक्ष्णोंन्तर्बहिराश्रयः ।
प्राकृतो वैकृतः साध्योऽसाध्यः सामो निरामकः ॥ १,१४७.३३ ॥

पूर्वं शरिरे शरीरे तापो मनसि मानसे ।
पवनैर्योगवाहित्वाच्छीतं श्लेष्मयुते भवेत् ॥ १,१४७.३४ ॥

दाहः पित्तयुते मिश्रं मिश्रेऽन्तः संश्रये पुनः ।
ज्वरेऽधिकं विकाराः स्युरन्तः क्षोभो मलग्रहः ॥ १,१४७.३५ ॥

बहिरेव बहिर्वेगे तापोऽपि च स साधितः ।
वर्षाशरद्वसन्तेषु वाताद्यैः प्रकृतः क्रमात् ॥ १,१४७.३६ ॥

वैकृतोऽन्यः स दुः साध्यः प्रायश्च प्राकृतोऽनिलात् ।
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितं ज्वरम् ॥ १,१४७.३७ ॥

कुर्याच्च पित्तं शरदि तस्य चानुचरः कफः ।
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् ॥ १,१४७.३८ ॥

कफो वसन्ते तमपि वातपित्तं भवेदनु ।
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः ॥ १,१४७.३९ ॥

सर्वथा विकृतिज्ञाने प्रागसाध्य उदाहृतः ।
ज्वरोपद्रवतीक्ष्णत्वं मन्दाग्निर्बहुमूत्रता ॥ १,१४७.४० ॥

न प्रवृत्तिर्न विजीर्णा न क्षुत्सामज्वराकृतिः ।
ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः ॥ १,१४७.४१ ॥

मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ।
जीर्णतामविपर्यासात्सप्तरात्रं च लङ्घनम् ॥ १,१४७.४२ ॥

ज्वरः पञ्चविधः प्रोक्तो मलकालबलाबलात् ।
प्रायशः सन्निपातेन भूयसामुपदिश्यते ॥ १,१४७.४३ ॥

सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ।
धातुमूत्रशकृद्वाहिस्नोत सां व्यापिनो मलाः ॥ १,१४७.४४ ॥

तापयन्तस्तनुं सर्वां तुल्यदृष्ट्यादिवर्धिताः ।
बलिनो गुरवस्तस्याविशेषेण रसाश्रिताः ॥ १,१४७.४५ ॥

सततं निष्प्रतिद्वन्द्वाज्वरं कुर्युः सुदुः सहम् ।
मलं ज्वरोष्णधातून्वा स शीघ्रं क्षपयेत्ततः ॥ १,१४७.४६ ॥

सर्वाकारं रसादीनां शुद्ध्यासुद्ध्यापि वा क्रमात् ।
वातपित्तकफैः सप्तद शद्वादशवासरात् ॥ १,१४७.४७ ॥

प्रायोऽनुयाति मर्यादां मोक्षाय च वधाय च ।
इत्यग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः ॥ १,१४७.४८ ॥

द्विगुणा सप्तमी या च नवम्येकादशी तथा ।
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ॥ १,१४७.४९ ॥

शुद्ध्याशुद्ध्या ज्वरः कालं दीर्घमप्यत्र वर्तते ।
कृशानां व्याधियुक्तानां मिथ्याहारादिसेविनाम् ॥ १,१४७.५० ॥

अल्पोऽपि दोषो दुष्ट्यादेर्लब्ध्वान्यतमतो बलम् ।
स प्रत्यनीको विषमं यस्माद्वृद्धिक्षयान्वितः ॥ १,१४७.५१ ॥

सविक्षेपो ज्वरं कुर्याद्विषमक्षयवृद्धिभाक् ।
दोषः प्रवर्तते तेषां स्वे काले ज्वरयन्बली ॥ १,१४७.५२ ॥

निवर्तते पुनश्चैव प्रत्यनीकबलाबलः ।
क्षीणदोषो ज्वरः सूक्ष्मो रसादिष्वेव लीयते ॥ १,१४७.५३ ॥

लीनत्वात्कार्श्यवैवर्ण्यजाड्यादीनां दधाति सः ।
आसन्नविकृतास्यत्वात्स्रोतसां रसवाहिनाम् ॥ १,१४७.५४ ॥

आशु सर्वस्य वपुषो व्याप्तिदोषो न जायते ।
सन्तः सततस्तेन विपरीतो विपर्ययात् ॥ १,१४७.५५ ॥

विषमो विषमारम्भः क्षपाकालेन सङ्गवान् ।
दोषो रक्ताश्रयः प्रायः करोति सन्ततं ज्वरम् ॥ १,१४७.५६ ॥

अहोरात्रस्य सन्धौ स्यात्सकृदन्येद्युराश्रितः ।
तस्मिन्मांसवहा नाडी मेदोनाडी तृतीयके ॥ १,१४७.५७ ॥

ग्राही पित्तानिलान्मूर्ध्नस्त्रिकस्य कफपित्ततः ।
सपृष्ठस्यानिलकफात्स चैकाहान्तरः स्मृतः ॥ १,१४७.५८ ॥

चतुर्थको मलैर्मेदोमज्जास्थ्यन्यतरे स्थितः ।
मज्जास्थ एव ह्यपरः प्रभावमनुदर्शयेत् ॥ १,१४७.५९ ॥

द्विधा कफोणिजङ्घाभ्यां स पूर्वं शिरसानिलात् ।
अस्थिमज्जोरुपगतश्चतुर्थकविपर्ययः ॥ १,१४७.६० ॥

त्रिधा त्र्यहं ज्वरयति दिनमेकन्तु मुञ्चति ।
बला बलेन दोषणामन्यचेष्टादिजन्मनाम् ॥ १,१४७.६१ ॥

पक्रानामविपर्यासात्सप्तरात्रञ्च लङ्घयेत् ।
ज्वरः स्यान्मनसस्तद्वत्कर्मणश्च तदातदा ॥ १,१४७.६२ ॥

गम्भीरधातुचारित्वात्सन्निपातेन सम्भवात् ।
तुल्योच्छ्रयाच्च दोषाणां दुश्चिकित्स्यश्चतुर्थकः ॥ १,१४७.६३ ॥

सूक्षामात्सूक्ष्मज्वरेष्वेषु दूरद्दूरतरेषु च ।
दोषो रक्तादिमार्गेषु शनैरल्पश्चिरेण यत् ॥ १,१४७.६४ ॥

याति देहञ्च नाशेषं सन्तापादीन्करोत्यतः ।
क्रमो यत्नेन विच्छिन्नः सतापो लक्ष्यते ज्वरः ॥ १,१४७.६५ ॥

विषमो विषमारम्भः क्षपाकालानुसारवान् ।
यथोत्तरं मन्दगतिर्मन्दशक्तिर्यथायथम् ॥ १,१४७.६६ ॥

कालेनाप्नोति सदृशान्स रसादींस्तथातथा ।
दोषो ज्वरयति क्रुद्धश्चिराच्चिरतरेण च ॥ १,१४७.६७ ॥

भूमौ स्थितं जलैः सिक्तं कालं नैव प्रतीक्षते ।
अङ्कुराय यथा बीजं दोषबीजं भवेत्तथा ॥ १,१४७.६८ ॥

वेगं कृत्वाविषं यद्वदाशये नयते बलम् ।
कुप्यत्याप्तबलं भूयः कालदोषविषन्तथा ॥ १,१४७.६९ ॥

एवं ज्वराः प्रवर्तन्ते विषमाः सततादयः ।
उत्क्लेशो गौरवं दैन्यं भङ्गोऽङ्गानां विजृम्भणम् ॥ १,१४७.७० ॥

अरोचको वमिः श्वासः सर्वस्मिन्रसगे ज्वरे ।
रक्तनिष्ठीवनं तृष्णा रूक्षोष्णं पीडकोद्यमः ॥ १,१४७.७१ ॥

दाहरागभ्रममदप्रलापो रक्तसंश्रिते ।
तृड्ग्लानिः स्पृष्टवर्चस्कमन्तर्दाहो भ्रमस्तमः ॥ १,१४७.७२ ॥

दौर्गन्ध्यं गात्रविक्षेपो मांसस्थे मेदसि स्थिते ।
स्वेदोऽतितृष्णा वमनं दौर्गन्ध्यं वा सहिष्णुता ॥ १,१४७.७३ ॥

प्रलापो ग्लानिररुचिरस्थिगे त्वस्थिभेदनम् ।
दोषप्रवृत्तिरुद्बोधः श्वासांगक्षेपकूजनम् ॥ १,१४७.७४ ॥

अन्तर्दाहो बहिः शैत्यं श्वासो हिक्का हि मज्जमे ।
तमसो दर्शनं मर्मच्छेदनं स्तब्धमेढ्रता ॥ १,१४७.७५ ॥

शुक्रप्रवृत्तौ मृत्युस्तु जायते शुक्रसंश्रये ।
उत्तरोत्तरदुः साध्याः पञ्चान्ये तु विपर्यये ॥ १,१४७.७६ ॥

प्रलिम्पन्निव गात्राणि श्लेष्मणा गौरवेण च ।
मन्दज्वरप्रलापस्तु सशीतः स्यात्प्रलेपकः ॥ १,१४७.७७ ॥

नित्यं मन्दज्वरो रूक्षः शीतकृच्छ्रेण गच्छति ।
स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेदङ्गबलाशकः ॥ १,१४७.७८ ॥

हरिद्राभेदवर्णाभस्तद्वल्लेपं प्रमेहति ।
स वै हारिद्रको नाम ज्वरभेदोऽन्तकः स्मृतः ॥ १,१४७.७९ ॥

कफवातौ समौ यत्र हीनपित्तस्य देहिनः ।
तीक्ष्णोऽथ वा दिवा मन्दो जायते रात्रिजो ज्वरः ॥ १,१४७.८० ॥

दिवाकरार्पितबले व्यायामाच्च विशोषिते ।
शरीरे नियतं वाताज्ज्वरः स्यात्पौर्वरात्रिकः ॥ १,१४७.८१ ॥

आमाशये यदात्मस्थे श्लेष्मपित्ते ह्यधः स्थिते ।
तदर्धं शीतलं देहे ह्यर्धं चोष्णं प्रजायते ॥ १,१४७.८२ ॥

काये पित्तं यदा न्यस्तं श्लेष्मा चान्ते व्यवस्थितः ।
उष्णत्वं तेन देहस्य शीतत्वं करपादयोः ॥ १,१४७.८३ ॥

रसरक्ताश्रयः साध्यो मांस मेदोगतश्च यः ।
अस्थिमज्जागतः कृच्छ्रस्तैस्तैः स्वाङ्गैर्हतप्रभः ॥ १,१४७.८४ ॥

विसंज्ञो ज्रवेगार्तः सक्रोध इव वीक्षते ।
सदोषमुष्णञ्च सदा शकृन्मुञ्चति वेगवत् ॥ १,१४७.८५ ॥

देहो लघुर्व्यपगतक्लममोहतापः पाको मुखे करणसौष्ठवमव्यथत्वम् ।
स्वेदः क्षुवः प्रकृतियोगिमनोऽन्नलिप्सा कण्डूश्च मूर्ध्नि विगत्ज्वरलक्षणानि ॥ १,१४७.८६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्वरनिदानादिकं नाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः