गरुडपुराणम्/आचारकाण्डः/अध्यायः १५७

← आचारकाण्डः, अध्यायः १५६ गरुडपुराणम्
अध्यायः १५७
वेदव्यासः
आचारकाण्डः, अध्यायः १५८ →

श्रीगरुडमहापुराणम् १५७
धन्वन्तरिरुवाच ।
अतीसारग्रहण्योश्च निदानं वच्मि सुश्रुत ।
दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षड्विधः ॥ १,१५७.१ ॥

अतीसारः स सुतरां जायतेऽत्यम्बुपानतः ।
विशुष्कान्नवसास्नेहतिलपिष्टविरूढकैः ॥ १,१५७.२ ॥

मद्यरूक्षातिमात्रादिरसातिस्नेहविभ्रमात् ।
कृमिघोषविरोधाच्च तद्विधेः कुपितानिलः ॥ १,१५७.३ ॥

विस्त्रंसयत्यधोवातं हत्वा तेनैव चानलम् ।
व्यापार्यान्नशकृत्कोष्ठपुरीषद्रवतादयः ॥ १,१५७.४ ॥

प्रकल्पतेऽतीसारस्य लक्षणं तस्य भाविनः ।
भेदो हृद्गुदकोष्ठेषु गात्रस्वेदो मलग्रहः ॥ १,१५७.५ ॥

आध्मानमविपाकश्च तत्र वातेन विज्वरम् ।
अल्पाल्पं शब्दशून्याढ्यं विरु (ब)द्धमुपवेश्यते ॥ १,१५७.६ ॥

रूक्षं सफेनमच्छं च गृहीतं व मुहुर्मुहुः ।
तथादग्धगदाभासं पिच्छिलं परिकर्तयन् ॥ १,१५७.७ ॥

सशुष्कभ्रष्टपायुश्च हृष्टरोमा विनिश्वसन् ।
पित्तेन पीतमशितं हारिद्रं शाद्वलप्रभम् ॥ १,१५७.८ ॥

सरक्तमतिदुर्गन्धं तृण्मूर्छास्वेददाहवान् ।
सशूलपायुसन्तापपाकवाञ्छ्लेष्मणा घनम् ॥ १,१५७.९ ॥

पिच्छिलं तत्रानुसारमल्पाल्पं सप्रवाहिकम् ।
सरोमहर्पः सेक्लेशो गुरुबस्तिगुदोदरः ॥ १,१५७.१० ॥

कृतेऽप्यकृतसङ्गश्च सर्वात्मा सर्वलक्षणः ।
भयेन क्षुभिते चित्ते शायिते द्रावयेत्स (च्छ) कृत् ॥ १,१५७.११ ॥

वायुस्ततो निवार्येत क्षिप्रमुष्णं द्रवं प्लवम् ।
वातपित्ते समं लिङ्गमाहुस्तद्वच्च शोकतः ॥ १,१५७.१२ ॥

अतीसारः समासेन द्वेधा सामो निरामकः ।
सासृग्जातं रसद्रोगो गौरवादप्सु मुञ्चति? ।
शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः ॥ १,१५७.१३ ॥

विपरीतो निरामस्तु कफात्कोऽपि न मज्जति ।
अतीसारेषु यो नाति यत्नवान् ग्रहणीगदः ॥ १,१५७.१४ ॥

तस्य स्यादग्निनिर्वाणकार्यैरत्यर्थसञ्चितैः ।
सामं शकृन्निरामं वा जीर्णं येनातिसार्यते ॥ १,१५७.१५ ॥

सोऽतिसारोऽतिसरणा दाशुकारीः स्वभावतः ।
सामंशीर्णमजीर्णेन जीर्णे पक्वं तु नैव च ॥ १,१५७.१६ ॥

चिरकृद्ग्रहणीदोषः सञ्चयांश्चोपवेशयेत् ।
अकस्माद्वारसुर्वेधमकस्मात्सन्धिनीमुहुः? ।
स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते ॥ १,१५७.१७ ॥

प्राग्रूपाङ्गस्य सदनं चिरात्पवन अल्पकः ।
प्रसेको वक्त्रवैरस्यमरुचिस्तृट्श्रमोभ्रमः ॥ १,१५७.१८ ॥

आब (न) द्धोदरता छर्दिः कर्णकेऽप्यनुकूजकम् ।
सामान्यलक्षणं कार्श्यं वमक स्तमको ज्वरः ॥ १,१५७.१९ ॥

मूर्छा शिरोरुविष्टम्भः श्वयथुः करपादयोः ।
तन्द्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः ॥ १,१५७.२० ॥

पार्श्वोरुवङ्क्षणग्रीवारुजा तीक्ष्णविषूचिका ।
रुग्णेषु वृद्धिः सर्वषु क्षुत्तृष्णापरिहर्त्रिका ॥ १,१५७.२१ ॥

जीर्णेजीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते ।
वाताद्धृद्रोगगुल्मार्शःप्लीहपाण्डुरशङ्किताः ॥ १,१५७.२२ ॥

चिराद्दुः खं द्रवं शुष्कं तुन्दारं शब्दफेनवत् ।
पुनः पुनः सृजेद्वर्चं पायुरुच्छ्वासकासवान् ॥ १,१५७.२३ ॥

पीतेन पीतनीलाभं पीताभं सृजति द्रवम् ।
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः ॥ १,१५७.२४ ॥

श्लेष्मणा पच्यते दुःखे मनश्छर्दिररोचकः ।
आस्योपदाहनिष्ठीवकासहृल्लासपीनसाः ॥ १,१५७.२५ ॥

हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु ।
उद्गारो दुष्टमधुरः सदनं सप्रहर्षणम् ॥ १,१५७.२६ ॥

सम्भिन्नश्लेष्मसंश्लिष्टगुरुचाम्लैः (वर्चः) प्रवर्तचम् ।
अकृशस्यापि दौर्बल्यं सर्वजे सर्वदर्शनम् ॥ १,१५७.२७ ॥

विभागेऽङ्गस्य ये प्रोक्ता पिपासाद्यास्त्रयो मलाः ।
तेऽप्यस्य ग्रहणीदोषाः समन्तेष्वस्ति कारणम् ॥ १,१५७.२८ ॥

वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दरम् ।
अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः ॥ १,१५७.२९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेतिसारनिदान नाम सप्तञ्चाशदुत्तरशतमोऽध्यायः