गरुडपुराणम्/आचारकाण्डः/अध्यायः १६२

← आचारकाण्डः, अध्यायः १६१ गरुडपुराणम्
अध्यायः १६२
वेदव्यासः
आचारकाण्डः, अध्यायः १६३ →

श्रीगरुडमहापुराणम् १६२
धन्वन्तरिरुवाच ।
पाण्डुशोथनिदानञ्च शृणु सुश्रत वच्मि ते ।
पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः ॥ १,१६२.१ ॥

नत्रानिलेन बलिना क्षिप्ताक्षिप्तं यदि स्थितम् ।
धमनीर्दशमीः प्राप्य व्याप्नुवन्सकलां तनुम् ॥ १,१६२.२ ॥

त्वगसृक्छ्लेष्ममांसानि प्रदूष्यन्रसमाश्रितम् ।
त्वङ्मांसयोस्तु कुरुते त्वचि वर्णान् पृथग्विधान् ॥ १,१६२.३ ॥

स्वयं हरिद्रा हारिद्रं पाण्डुत्वं तेषु चाधिकम् ।
यातोऽयं प्रहतेदुग्रः स रोगस्तेन गौरवम् ॥ १,१६२.४ ॥

धातूनां स्पर्शशैथिल्यमामजश्च गुणक्षयः ।
ततोऽल्परक्तमेदोऽस्थिनिः सारः स्याच्छ्लथेन्द्रियः ॥ १,१६२.५ ॥

शीर्यमाणैरिवाङ्गैस्तु द्रवता हृदयेन च ।
शूलोक्षिकूटवदने स्तैमित्यं तत्र लालया ॥ १,१६२.६ ॥

हीनतृट्शिशिरद्वेषी शीर्णलोभो हतानलः ।
मन्दशक्तिर्ज्वरी श्वासी कर्णशूली तथा भ्रमी ॥ १,१६२.७ ॥

स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात् ।
प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि ॥ १,१६२.८ ॥

अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पमृत्रता ।
मेदः समानिलात्तत्र गाढरुक्क्लेदगात्रता ॥ १,१६२.९ ॥

कृष्णेक्षणं कृष्णशिरानखविण्मूत्रनेत्रता ।
शोथो नासास्यवैरस्यं विट्शोषः पार्श्वमूर्छना ॥ १,१६२.१० ॥

पित्ते हरितपित्ताभः शिरादिषु ज्वरस्तमः ।
तृट्शोषमूर्छादौर्गन्ध्यं शीतेच्छा कटुवक्रता ॥ १,१६२.११ ॥

विड्भेदश्चाम्लको दाहः कफाच्च हृदयार्द्रता ।
तन्द्रा लवणवक्रत्वं रोमहर्षः स्वरक्षयः ॥ १,१६२.१२ ॥

काशश्छर्दिश्च निचयान्नष्टलिङ्गोऽतिदुः सहः ।
उत्कृष्टेनिलपित्ताभ्या कटुर्वा मधुरः कफः ॥ १,१६२.१३ ॥

दूषयित्वा वसादींश्च रौक्ष्याद्रक्तविमोक्षणम् ।
स्रोतसां संक्षयं कुर्यादनुरुध्य च पूर्ववत् ॥ १,१६२.१४ ॥

पाण्डुरोगेक्षयेजाते नाभिपादास्यमेहनम् ।
पुरीषं कृमिवन्मुञ्चेद्भिन्नं सास्त्रं कफान्वितम् ॥ १,१६२.१५ ॥

यः पित्तरोगी सेवेत पित्तलं तस्य कामलम् ।
कोष्ठशा खोद्गतं पित्तं दग्ध्वासृङ्मांसमाहरेत् ॥ १,१६२.१६ ॥

हारिद्रमूत्रनेत्रत्वं मुखं रक्तं शकृत्तथा ।
दाही विपाकतृष्णावान् भेकाभो दुर्बलेन्द्रियः ॥ १,१६२.१७ ॥

भवेत्पित्तानुगः शोथः पाण्डुरोगावृतस्य च ।
उपेक्षया च शोथाद्याः सकृच्छ्राः कुम्भकामलाः ॥ १,१६२.१८ ॥

हरितश्यामपित्तत्वे पाण्डुरोगो यदा भवेत् ।
वातपित्ते भ्रमस्तृष्णा स्त्रीषु हर्षो मृदुज्वरः ॥ १,१६२.१९ ॥

तन्द्रा वा चानलभ्रंशस्तं वदन्ति हलीमकम् ।
आलस्यञ्चातिभवति तेषां पूर्वमुपद्रवः ॥ १,१६२.२० ॥

शोथः प्रधानः कथितः स एवातो निगद्यते ।
पित्तरक्तकफान्वायुर्दुष्टो दुष्टान्बहिः शिराः ॥ १,१६२.२१ ॥

नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम् ।
उत्सेधं संहतं शोथं तमाहुर्निचयादतः ॥ १,१६२.२२ ॥

सर्वहेतुविशषैस्तु रूपभेदान्नवात्मकम् ।
दोषैः पृथग्विधैः सर्वैरभिघाताद्विषादपि ॥ १,१६२.२३ ॥

तदेव नीयमानन्तु सर्वाङ्गे कामजम्भवेत् ।
पृथून्नताग्रग्रथितैर्विशेषैश्च त्रिधा विदुः ॥ १,१६२.२४ ॥

सामान्यहेतुः शोथानां दोषजातो विशेषतः ।
व्याधिः कर्मोपवासादिक्षीणस्य भवति द्रुतम् ॥ १,१६२.२५ ॥

अतिमात्रं यदासेवेद्गुरुमत्यन्तशीतलम् ।
लवणक्षारतीक्ष्णाम्लशाकाम्बुस्वप्नजागरम् ॥ १,१६२.२६ ॥

रोधो वेगस्य वल्लूरमजीर्णश्रममैथुनम् ।
पच्यते मार्गगमनं यानेन क्षोभिणापि वा ॥ १,१६२.२७ ॥

श्वासकासातिसारार्शोजठरप्रदरज्वराः ।
विष्टम्भालस्यकच्छर्दिहिक्कापाण्डुविसर्पकम् ॥ १,१६२.२८ ॥

ऊर्ध्वशोथमधो बस्तौ मध्ये कुर्वन्ति मध्यगाः ।
सर्वाङ्गगः सर्वगतः प्रत्यप्रत्यगेति तदाश्रयः ॥ १,१६२.२९ ॥

तत्पूर्वरूपं क्षवथुः शिरायामङ्गगौरवम् ।
वाताच्छोथश्चलो रूक्षः खररोमारुणोऽसितः ॥ १,१६२.३० ॥

शङ्खबस्त्यन्त्रशोफर्तिमेदोभेदाः प्रसुप्तिता ।
वातोत्तानः क्लमः शीघ्रमुन्नमेत्पीडितां तनुम् ॥ १,१६२.३१ ॥

सिग्धस्तु मर्दनैः शाम्येद्रात्रावल्पो दिवा महान् ।
त्वक्सर्षपविलिप्ते च तस्मिंश्चिमिचिमायते ॥ १,१६२.३२ ॥

पीतरक्तासिंताभासः पित्तजातश्च शोषकृत् ।
शीघ्रं नासौ वा प्रशमेन्मध्ये प्राग्दहते तनुम् ॥ १,१६२.३३ ॥

सतृट्दाहज्वरस्वेदो भ्रमक्लोदमदभ्रमाः ।
साभिलाषी शकृद्भेदो गन्धः स्पर्शसहो मृदुः ॥ १,१६२.३४ ॥

कण्डूमान्पाण्डुरोमा त्वक्कठिनः शीतलो गुरुः ।
स्निग्धःश्लक्ष्णः स्थिरः शूलो निद्राच्छर्द्यग्निमान्द्यकृत् ॥ १,१६२.३५ ॥

आघातेन च शस्त्रादिच्छेदभेदक्षतादिभिः ।
हिमानिलैर्दध्यनिलैर्भल्लातकपिकच्छजैः ॥ १,१६२.३६ ॥

रसैः शुष्कैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान् ।
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ॥ १,१६२.३७ ॥

विषजः सविषप्राणिपरिसर्पणमूत्रणात् ।
दंष्ट्रादन्तनखाघातादविषप्राणिनामपि ॥ १,१६२.३८ ॥

विण्मूत्रशुक्रोपहतमलवद्वस्तुसंङ्करात् ।
विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात् ॥ १,१६२.३९ ॥

मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः ।
नवोऽनुपद्रवः शोथः साध्योऽसाध्यः पुरेरितः ॥ १,१६२.४० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पाण्डुसोथनिदानं नाम द्विषष्ट्यधिकशततमोऽध्यायः