गरुडपुराणम्/आचारकाण्डः/अध्यायः १७

← आचारकाण्डः, अध्यायः १६ गरुडपुराणम्
अध्यायः १७
वेदव्यासः
आचारकाण्डः, अध्यायः १८ →

।।हरिरुवाच ।।
पुनः सूर्य्यार्चनं वक्ष्ये यदुक्तं धनदाय हि ।।
अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम् ।। 17.1 ।।

आवाहनीं ततो बद्धा मुद्रामावाहयेद्धरिम् ।।
खखोल्कं स्थाप्य मुद्रां तु स्थापयेन्मन्त्ररूपिणीम् ।। 17.2 ।।

आग्नेय्यां दिशि देवस्य हृदयं स्थापयेच्छिव ! ।।
ऐशान्यां तु शिरः स्थाप्यं नैर्ऋत्यां विन्यसेच्छिखाम् ।। 17.3 ।।

पौरन्दर्य्यां न्यसेद्धर्म्ममेकाग्रस्थितमानसः ।।
वायव्यां चैव नेत्रं तु वारुण्यामस्त्रमेव च ।। 17.4 ।।

ऐशान्यां स्थापयेत्सोमं पौरन्दर्य्यां तु लोहितम् ।।
आग्नेय्यां सोमतनयं याम्यां चैव बृहस्पतिम् ।। 17.5 ।।

नैर्ऋत्यां दानवगुरुं वारुण्यां तु शनैश्चरम् ।।
वायव्यां च तथा केतुं कौबेर्य्यां राहुमेव च ।। 17.6 ।।

द्वितीयायां तु कक्षायां सूर्य्यान्द्वादश पूजयेत् ।।
भगः सूर्य्योऽर्य्यमा चैव मित्रो वै वरुणस्तथा ।। 17.7 ।।

सविता चैव धाता च विवस्वांश्च महाबलः ।।
त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुरुच्यते ।। 17.8 ।।

पूर्वादावर्चयेद्देवानिन्द्रादीञ्छ्रद्धया नरः ।
जया च विजया चैव जयन्ति चापराजिता ।।
शेषश्च वासुकिश्चैव नागानित्यादि पूजयेत् ।। 17.9 ।।

।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चन विधिर्नाम सप्तदशोऽध्यायः ।। 17 ।।