गरुडपुराणम्/आचारकाण्डः/अध्यायः १७३

← आचारकाण्डः, अध्यायः १७२ गरुडपुराणम्
अध्यायः १७३
वेदव्यासः
आचारकाण्डः, अध्यायः १७४ →

श्रीगरुडमहापुराणम् १७३
धन्वन्तरिरुवाच ।
द्रव्याणि मधुरादीनि वक्ष्ये रागहराण्यहम् ।
शालिषष्टिकगोधृमक्षीरं घृतं रसा मध ॥ १,१७३.१ ॥

मज्जाशृङ्गाटकयवकशेर्विवारुगीक्षुरम् ।
गम्भगी पौष्करं बीजं द्राक्षा खर्जूरकं बला ॥ १,१७३.२ ॥

नारिकलेक्ष्वात्मणुप्ता विदारी च प्रियालकम् ।
मधुकं तालकष्माण्डं मुख्योऽयं मधुरो गणः ॥ १,१७३.३ ॥

मूर्छादाहप्रशमनः पडिन्द्रियप्रसादनः ।
कृमिकृत्कफकृच्चैव एकोऽत्यर्थ निपेवितः ॥ १,१७३.४ ॥

श्वासकासाम्यमाधुर्यस्वरघातार्वुदानि च ।
गलगण्डश्लीपदानि गुडलेपादि कारयेत् ॥ १,१७३.५ ॥

दाडिमामलकाम्रं च कपित्थकरमर्दकौ ।
मातुलुङ्गाम्रातकं च बदरं तिन्तडीफलम् ॥ १,१७३.६ ॥

दधि तक्रं काञ्जिकं च लकुचं चाम्लवे तसम् ।
अम्लो लोणः शुण्ठीयुक्तो जारणः पाचनो रसः ॥ १,१७३.७ ॥

क्लेदनो वातकृद्धृप्यो विदाही चानुलोमनः ।
अम्लोऽत्यर्थं सेव्यमानः कुर्याद्धै दन्तहर्षकम् ॥ १,१७३.८ ॥

शरीरस्य च शैतिल्यं स्वरकण्ठास्यहृद्दहेत् ।
छिन्नभिन्नव्रणादीनि पाचयित्वाग्निभावितः ॥ १,१७३.९ ॥

लवणानि यवक्षारसर्जिकादिश्च लावणः ।
शोधनः पाचनः क्लेदी विश्लेषसर्पणादिकृत् ॥ १,१७३.१० ॥

मार्गरोधी मार्दवकृत्स एकः परिषेवितः ।
गात्रकण्डूकोष्ठशोथवैवर्ण्यं जनयेद्रसः ।
रक्तवातं पित्तरक्तं पुंस्त्वेन्द्रियरुजादिकम् ॥ १,१७३.११ ॥

व्योषशिग्रूमूलकं देवदारु च कुष्ठकम् ।
लशुनं वल्गुजी फलं मुस्तागुग्गुलुलाङ्गली ॥ १,१७३.१२ ॥

कटुको दीपनः शोधी कुष्ठकण्डूकफान्तकृत् ।
स्थौल्यालस्यक्रिमिहरः शुक्रमेदोविरोधनः ।
एकोऽत्यर्थं सेव्यमानः भ्रमदाहादिकृद्भवेत् ॥ १,१७३.१३ ॥

कृतमालः कीराणि हरिद्रेन्द्रयवास्तथा ।
स्वादुकण्टकवेत्राणि बृहतीद्वयशङ्खिनी ॥ १,१७३.१४ ॥

गुडूची चद्रवन्ती च त्रिवृन्मण्डूकपर्ण्यपि ।
कारवेल्लकवार्ताकुकरवीरकवासकाः ॥ १,१७३.१५ ॥

रोहिणी शङ्खचूर्णं च कर्कोटो वै जयन्तिका ।
जातीवारुणकं निम्बो ज्योतिष्मती पुनर्नवा ॥ १,१७३.१६ ॥

तिक्तो रसश्छेदनः स्याद्रोचनी दीपनस्तथा ।
शोधनो ज्वरतृष्णाघ्नो मूर्छाकण्ठार्तिकादिजित् ॥ १,१७३.१७ ॥

विण्मूत्रक्लेदसंशोषो ह्यत्यर्थं स च सेवितः ।
हनुस्तम्भाक्षेपकार्तिशिरः शूलब्रणादिकृत् ॥ १,१७३.१८ ॥

त्रिफलासल्लकीजम्बु आम्रातकवचादिकम् ।
तिन्दुकं वकुलं शालं पालङ्कीमुद्गचिल्लकम् ॥ १,१७३.१९ ॥

कषायो ग्राहको रोपी स्तम्भनक्लेदशोषणः ।
एकोऽत्यर्थं सेव्यमानो हृदये चाथ पीडकः ।
मुखशोषज्वराध्मानमन्यास्तम्भादिकारकः ॥ १,१७३.२० ॥

हरिद्राकुष्ठलवणं मेषशृङ्गिबलाद्वयम् ।
कच्छुरा सल्लकी पाठा पुनर्नवा शतावरी ॥ १,१७३.२१ ॥

अग्नि मन्थो ब्रह्मदण्डी श्वदंष्ट्रैरण्डके तथा ।
यवकोलकुलत्थादिकर्षाशी दशमूलकम् ।
पृथक्समस्तो वातातोर्बहुपित्तहरस्तथा ॥ १,१७३.२२ ॥

शतावरी विदारी च बालकोशीरचन्दनम् ।
दूर्वा वटः पिप्पली च बदरी सल्लकी तथा ॥ १,१७३.२३ ॥

कदली चोत्पलं पद्ममुदुम्बरपटोलकन् ।
अथ श्लेष्महरो वर्गो हरिद्रागुडकुष्ठकम् ॥ १,१७३.२४ ॥

शतपुष्पी च जाती च व्योषारग्वधलाङ्गली ।
सर्पिस्तैलवसामज्जाः स्नेहेषु प्रवरं स्मृतम् ॥ १,१७३.२५ ॥

तथा धीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम् ।
केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम् ॥ १,१७३.२६ ॥

देयं बहुकफे वापि व्योषक्षारसमायुतम् ।
ग्रन्थिनाडीकृमिस्लेष्ममेदोमारुतरोगिषु ॥ १,१७३.२७ ॥

तैलं लाघवदार्ढ्याय क्रूरकोष्ठेषु देहिषु ।
वातातपाम्बुभारस्त्रीव्यायामक्षीणधातुषु ॥ १,१७३.२८ ॥

रूक्षक्लेशक्षयात्याग्निवाता वृतपथेषु ।
अथ दग्ध्वा शिराजालं योनिकर्म शिरोरुजि (जम् ) ॥ १,१७३.२९ ॥

उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे ।
जघन्यस्य पलार्धेन स्नेहक्वाथौषधेषु च ॥ १,१७३.३० ॥

जलमुष्णं घृते देयं पृथक्तैले तु शस्यते ।
सेनेहे पित्ते तु तृष्णायां पिबेदुष्णोदकं नरः ॥ १,१७३.३१ ॥

वातानुलोमं दीप्ताग्रर्वर्चः स्निग्धस्य तन्मतम् ।
रूक्षम्य स्नेदृनं कार्यमभिस्निग्धस्य रूक्षणम् ॥ १,१७३.३२ ॥

श्यामाककोरदोषान्नतक्रपिण्याकसकुभिः ।
वातश्लेष्माणि वाते वा कफे वा स्वेद इष्यते ।
न स्वेदयेदतिम्थूलरूक्षदुर्वलमूर्छितान् ॥ १,१७३.३३ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे योगसमदिवर्णनं नाम त्रिसप्तन्युत्तरशततमोऽध्यायः