गरुडपुराणम्/आचारकाण्डः/अध्यायः १७९

← आचारकाण्डः, अध्यायः १७८ गरुडपुराणम्
अध्यायः १७९
वेदव्यासः
आचारकाण्डः, अध्यायः १८० →

श्रीगरुडमहापुराणम् १७९
हरिरुवाच ।
हरितालं यवक्षांरं पत्राङ्गं रक्तचन्दनम् ।
जातिहिङ्गुलकं लाक्षां पक्त्वा दन्तान्प्रलेपयेत् ॥ १,१७९.१ ॥

हरीतकीकषायेण मृष्ट्वा दन्तान्प्रलेपयेत् ।
दन्ताः स्युर्लोहिताः पुंसः श्वेता रुद्र न संशयः ॥ १,१७९.२ ॥

मूलकं स्विद्य मन्दाग्नौ रसं तस्य प्रपूरयेत् ।
कर्णयोः पूरणात्तेन कर्णस्त्रावो विनश्यति ॥ १,१७९.३ ॥

अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः ।
निष्पीड्य पूरयेत्कर्णौ कर्णशूलं विनश्यति ॥ १,१७९.४ ॥

प्रियङ्गुमधुका चैव धातक्युत्पलपाङ्क्तिभिः ।
मञ्जिष्ठा लोध्रलाक्षाभिः कपित्थस्वरसेन च ।
पचेत्तैलं तथा स्त्रीणां नश्येत्क्लेदः प्रपूरणात् ॥ १,१७९.५ ॥

शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुमहौषधम् ।
सतपुष्पावचा कुष्ठं दारु शिग्र रसाञ्जनम् ॥ १,१७९.६ ॥

सौवर्चलं यवक्षारं तथा सर्जकसैन्धवम् ।
तथा ग्रन्थिर्विडं मुस्तं मधुयुक्तं चतुर्गुणम् ॥ १,१७९.७ ॥

मातुलुं गरसस्तद्वत्कदल्याश्च रसो हि तैः ।
पक्वतैलं हरेदाशु स्त्रावादींश्च न संशयः ॥ १,१७९.८ ॥

कर्णयोः कृमिनाशः स्यात्कटुतैलस्य पूरणात् ।
हरिद्रा निम्बपत्राणि पिप्पल्यो मरिचानि च ॥ १,१७९.९ ॥

विडङ्गभद्रं मुस्तञ्च सप्तमं विश्वभेषजम् ।
गोमूत्रेण च पिष्ट्वैव कृत्वा च वटिकां हर ! ।
अजीर्णहृद्भवेच्चैकं द्वयं विषूचिकापहम् ॥ १,१७९.१० ॥

पटोलं मधुना हन्ति गोमूत्रेण तथाबुदम् ।
एषा च शङ्करी वर्तिः सर्वनेत्रामया पहा ॥ १,१७९.११ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकोनाशीत्यधिकशततमोऽध्यायः