प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः १८१ गरुडपुराणम्
अध्यायः १८२
वेदव्यासः
आचारकाण्डः, अध्यायः १८३ →

श्रीगरुडमहापुराणम् १८२
हरिरुवाच ।
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ।
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥ १,१८२.१ ॥

भुक्ते तु शर्करा पीता नवनीतेन बुद्धिकृत् ।
गुडस्य तु पुराणस्य पलमेकन्तु भक्षयेत् ।
स्त्रीसहस्रञ्च संगच्छेत्पुमान्बलयुतो हर ! ॥ १,१८२.२ ॥

कुष्ठं संचूर्णितं कृत्वा घृतमाक्षिकसंयुतम् ।
भक्षयेत्स्वप्नवेलायां बलीपलितनाशनम् ॥ १,१८२.३ ॥

अतसीमाषगोधूमचूर्णं कृत्वा तु पिप्पली ।
घृतेन लेपयेद्गत्रमोभिः सार्धं विचक्षणः ।
कन्दर्पसदृशो मर्त्यो नित्यं भवति शङ्कर ! ॥ १,१८२.४ ॥

यवास्तिलाश्वगन्धा च मुशली सरला गुडम् ।
एभिश्च रचितां जग्ध्वा तरुणो बलवान्भवेत् ॥ १,१८२.५ ॥

हिङ्गु सौवर्चलं शुण्ठीं पीत्वा तु क्वथितोदकैः ।
परिणामाख्यशूलञ्च अजीर्णञ्चैव नश्यति ॥ १,१८२.६ ॥

धातकीं सोमराजीञ्च क्षीरेण सह पेषयेत् ।
दुर्बलश्च भवेत्स्थूलो नात्र कार्या विचारणा ॥ १,१८२.७ ॥

शर्करामधुसंयुक्तं नवनीतं बली लिहेत् ।
क्षीराशी च क्षयी पुष्टिं मेधाञ्चैवातुलां व्रजेत् ॥ १,१८२.८ ॥

कुलीरचूर्णं सक्षीरं पीतञ्च क्षयरेगनुत् ।
भल्लातकं विडङ्गञ्च यवक्षारञ्च सैन्धवम् ॥ १,१८२.९ ॥

मनः शिला शङ्खचूर्णं तैलपक्वं तथैव च ।
लोमानि शातयत्येव नात्र कार्या विचारणा ॥ १,१८२.१० ॥

मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत् ।
हस्तौ संलेपयेत्तेन त्वग्निस्तम्भनमुत्तमम् ॥ १,१८२.११ ॥

शाल्मलीरसमादाय खरमूत्रे निधाय तम् ।
अग्नयादौ विक्षिपेत्तेन ह्यग्निस्तम्भनमुत्तमम् ॥ १,१८२.१२ ॥

वायस्या उदरं गृह्य मण्डूकवसया सह ।
गुटिकां कारयेत्तेन ततोऽग्नौ संक्षैपेत्सुधीः ।
एवमेतत्प्रयोगेण ह्यग्निस्तम्भनमुत्तमम् ॥ १,१८२.१३ ॥

मुण्डीत्वक्च वचा मुस्तं मरिचं तगरं तथा ।
चर्वित्वा च त्विमं सद्यो जिह्वया ज्वलनं लिहेत् ॥ १,१८२.१४ ॥

गोरोचनां भृङ्गराजं चूर्णोकृत्यघृतं समम् ।
दिव्याम्भसः स्तम्भनं स्यान्मन्त्रेणानेन वै तथा ।
ओं अग्निस्तम्भनं कुरु कुरु ॥ १,१८२.१५ ॥

ओं नमो भगवते जलं स्तम्भय सं सं सं केक केकः चरचर ।
जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव ! ॥ १,१८२.१६ ॥

गृध्रास्थिञ्च गवास्थिञ्च तथा निर्माल्यमेव च ।
अरेर्यो निखनेद्द्वारे पञ्चत्वमु पयाति सः ॥ १,१८२.१७ ॥

पञ्चरक्तानि पुष्पाणि पृथग्जात्या समालभेत् ।
कुङ्कुमेन समायुक्तमात्मरक्तसमन्वितम् ॥ १,१८२.१८ ॥

पुष्पेण तु समं पिष्ट्वा रोचनायाः पलैकतः ।
स्त्रिया पुंसा कृतो रुद्र ! तिलकोऽयं वशीकरः ॥ १,१८२.१९ ॥

ब्रह्मदण्डी तु पुष्येण भक्ष्ये पाने वशीकरः ।
यष्टि मधु पलैकेन पक्वमुष्णोदकं पिबेत् ॥ १,१८२.२० ॥

विष्टम्भिकाञ्च हृच्छूलं हरत्येव महेश्वर ! ।
ओं ह्रूं जः ।
मन्त्रोऽयं हरते रुद्र ! सर्ववृश्चिकजं विषम् ॥ १,१८२.२१ ॥

पिप्पली नवनीतञ्च शृङ्गवेरं च सैन्धवम् ।
मरिचं दधि कुष्ठञ्च नस्ये पाने विषं हरेत् ॥ १,१८२.२२ ॥

त्रिफलार्द्रककुष्ठं च चन्दनं घृतसंयुतम् ।
एतत्पानाच्च लेपाच्च विषनाशो भवेच्छिव ! ॥ १,१८२.२३ ॥

पारावतस्य चाक्षीणि हरितालं मनः शिला ।
एतद्योगाद्विषं हन्ति वैनतेय इवोरगान् ॥ १,१८२.२४ ॥

सैन्धवं त्र्यूषणं चैव दधिमध्वाज्यसंयुतम् ।
वृश्चिकस्य विषं हन्ति लेपोऽयं वृषभध्वज ! ॥ १,१८२.२५ ॥

ब्रह्मदण्डीतिलान्क्वाथ्य चूर्णं त्रिकटुकं पिबेत् ।
नाशयेद्रुद्र ! गुल्मानि निरुद्धं रक्तमेव च ॥ १,१८२.२६ ॥

पीत्वा क्षीरं क्षौद्रयुतं नाशयेदसृजः स्त्रुतिम् ।
आटरूपकमूलेन भगं नाभिं च लेपयेत् ।
सुखं प्रसूयते नारी नात्र कार्या विचारणा ॥ १,१८२.२७ ॥

शर्करां मधुसंयुक्तां पीत्वा तण्डुलवारिणा ।
रक्तातिसारशमनं भवतीति वृषध्वज ! ॥ १,१८२.२८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे द्व्याशीत्यधिकशततमोऽध्यायः