प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः १८३ गरुडपुराणम्
अध्यायः १८४
वेदव्यासः
आचारकाण्डः, अध्यायः १८५ →

श्रीगरुडमहापुराणम् १८४
हरिरुवाच ।
रजनीकदलीक्षारलेपः सिध्मविनाशनः ।
कुष्ठस्य भागमेकन्तु पथ्याभागद्वयं तथा ।
उष्णोदकेन संपीय कटिशूलविनाशनम् ॥ १,१८४.१ ॥

अभया नवनीतञ्च शर्करापिप्पलीयुतम् ।
पानादर्शोहरं स्याच्च नात्र कार्या विचारणा ॥ १,१८४.२ ॥

आटरूषकपत्रेण घृतं मृद्वग्निना पचेत् ।
चूर्णं कृत्वा तु लेपोऽयं अर्शरोगहरः परः ॥ १,१८४.३ ॥

गुग्गुलुत्रिफलायुक्तं पीत्वा नश्येद्भगन्दरम् ।
अजाजीशृङ्गवेरञ्च दथा मण्डं विपाचयेत् ॥ १,१८४.४ ॥

लवणेन तु संयुक्तं मूत्रकृच्छ्रविनाशनम् ।
यवक्षारं शर्करा च मूत्रकृच्छ्रविनाशकृत् ॥ १,१८४.५ ॥

चिताग्निः खञ्जरीटस्य विष्ठा फेनो हयस्य च ।
सौभाञ्जनं वासनेत्रं नर एतैस्तु धूपितः ।
अदृश्यस्त्रिदशैः सर्वैः किं पुनर्मानवैः शिव ॥ १,१८४.६ ॥

तिलतैलं यवान्दग्ध्वा मषीं कृत्वा तु लेपयेत् ।
तेनैव सह तैलेन अग्निदग्धः सुखी भवेत् ॥ १,१८४.७ ॥

लज्जालोः शरपुङ्खाया लेपः साज्योऽग्निनाशनः ।
ओं नमो भगवते ठ ठ छिन्धि छिन्धि ज्वलनं प्रज्वलितं नाशय नाशय हुं फट् ॥ १,१८४.८ ॥

करे बद्धं तु निर्गुण्ड्या मूलं ज्वरहरं द्रुतम् ।
मूलञ्च श्वेतगुञ्जायाः कृत्वा तत्सप्तखण्डकम् ॥ १,१८४.९ ॥

हस्ते बध्वा नाशयेच्च अर्शांस्येव न संशयः ।
विष्णुक्रान्ताजमूत्रेण चौरव्याघ्नादिरक्षणम् ॥ १,१८४.१० ॥

ब्रह्मदण्ड्यास्तु मूलानि सर्वकर्माणि कारयेत् ।
त्रिफलायास्तु चूर्णं हि साज्यं कुष्ठविनाशनम् ॥ १,१८४.११ ॥

आज्यं पुनर्नवाबिल्वैः पिप्पलीभि साधितम् ।
हरेद्धक्कां श्वासकासौ पीतं स्त्रीणाञ्च गर्भकृत् ॥ १,१८४.१२ ॥

भक्षयेद्वा नरीबीजं पयसाज्येन पाचितम् ।
घृतशर्करया युक्तं शुक्रः स्यादक्षयस्ततः ॥ १,१८४.१३ ॥

विडङ्गं मधुकं पाठां मांसीं सर्जरसं तथा ।
रहिद्रां त्रिफलाञ्चैव मपामार्गं मनः शिलाम् ॥ १,१८४.१४ ॥

उदुम्बरं धातकीञ्च तिलतैलेन पषेयेत् ।
योनिं लिङ्गं च म्रक्षेत स्त्रीपुसोः स्यात्प्रियं मिथः ॥ १,१८४.१५ ॥

नमस्ते ईशवरदाय आकर्षिणि विकर्षिणि मुग्धे स्वाहा इति ।
योनिलङ्गस्य तैलेन शङ्कर म्लक्षणात्ततः ॥ १,१८४.१६ ॥

पुनर्नवामृता दूर्वा कनकञ्चैन्द्रवारुणी ।
बीजे नैषां जातिकाया रसेन रसमर्दनम् ॥ १,१८४.१७ ॥

मूषाय मध्यगं कृत्वा रसं मारणमीरितम् ।
मध्वाज्यसहितं दुग्धं वलीपलितनाशनम् ॥ १,१८४.१८ ॥

मध्वाज्यं गुडताम्रञ्च कारवेल्लरसस्तथा ।
दहनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥ १,१८४.१९ ॥

पीतं धरत्तूपुष्पञ्च सीसकञ्च पलं मतम् ।
लाङ्गलिकायाः शाखा च स्वर्णञ्च दहनाद्भवेत् ॥ १,१८४.२० ॥

धत्तूरबीजतैलेन दीपप्रज्वलनाद्धर ।
समाधावुपविष्टन्तु गगनस्थो न पश्यति ॥ १,१८४.२१ ॥

वृषस्य मृन्मयस्यैव युक्तो भेको निगृह्यते ।
शङ्करावयवैर्युक्तो धूपं घ्रात्वा च गर्जति ।
विस्मयं कुरुते चैव वृषवन्नात्र संशयः ॥ १,१८४.२२ ॥

रात्रौ च सार्षपं तैलं कीटं खद्यो तनामकम् ।
ताभ्यां दीपः प्रज्वलितो वाग्मिज्वालकलापवत् ॥ १,१८४.२३ ॥

चूर्णं छुच्छुन्दरीधं दग्ध्वा रुद्र प्रलेपयेत् ।
तप्यते तक्षणाद्दग्धो यदि सम्यक्प्रलेपयेत् ।
चन्दनेन भवेन्मोक्षः पानाल्लेपात्सुखी भवेत् ॥ १,१८४.२४ ॥

कुञ्जरस्य मदाक्तस्य स्वयं नेत्रे शिववाञ्जयेत् ।
युद्धे विजयते सोऽपि महाशूरश्च जायते ॥ १,१८४.२५ ॥

दन्तं डुण्डुभसर्पस्य मुखे संगृह्य वै क्षिपेत् ।
तिष्ठते च जलान्तस्तु निर्विकल्पं स्थले यथा ॥ १,१८४.२६ ॥

कुम्भीरनेत्रदंष्ट्राश्च अस्थीनि रुधिरं तथा ।
वसातैलसमायुक्तमेकत्र तन्नियोजयेत् ।
आत्मानं म्लक्षयेत्तेन जले तिष्ठेद्दिनत्रयम् ॥ १,१८४.२७ ॥

कुम्भीरकस्य नेत्राणि हृदयं कच्छपस्य च ।
मूषिकस्य वसास्थीनि शिशुमारवसा तथा ।
एतान्येकत्र संलेपाज्जले तिष्ठेद्यथा गृहे ॥ १,१८४.२८ ॥

लोहचूर्णं तक्रपीतं पाण्डुरोगहरं भवेत् ।
तण्डुलीय कगोक्षूरमूलं पीतं पयोन्वितम् ॥ १,१८४.२९ ॥

कमलादिहरंपितं मुखरोगहरं तथा ।
जातीमूलं तक्रपीतं कोलमूलं त्वजीर्णनुत् ॥ १,१८४.३० ॥

सतक्रं कुशमलं वा मर्कटी मूलमेव वा ।
काञ्जिकेन च वाकुच्या मूलं वै दन्तरोगनुत् ॥ १,१८४.३१ ॥

तथेन्द्रवारुणीमूलं वारिपीतं विषादिहृत् ।
सुरभिकामूलपा नाद्वा तन्नाशो भवेच्छिव ॥ १,१८४.३२ ॥

शिरोरोगहरं लेपाद्गुञ्जाचूर्णं सकाञ्जिकम् ।
बला चातिबला यष्टी शर्करा मधुसंयुता ॥ १,१८४.३३ ॥

वन्ध्यागर्भकरी पीता नात्र कार्या विचारणा ।
श्वेतापराजितामूलं पिप्पलीशुण्ठिकायुतम् ॥ १,१८४.३४ ॥

परिपिष्टं शिरोलेपाच्छिरः शूलविनाशनम् ।
निर्गुण्डिकाशिखां पीत्वा गण्डमालां विनाशयेत् ॥ १,१८४.३५ ॥

केतकीपत्रजं क्षारं गुडेन सह भक्षयेत् ।
तक्रेण शरपुङ्खां वा पीत्वा प्लीहां विनाशयेत् ॥ १,१८४.३६ ॥

मातुलङ्गस्य निर्यासं गुडाज्येन समन्वितम् ।
वातपित्तजशूलानि हन्ति वै पानयोगतः ।
शुण्ठी सौवर्चलं हिङ्गु पीतं हृदयरोगनुत् ॥ १,१८४.३७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैद्यशास्त्रे चतुरशीत्यधिकशततमोऽध्यायः