प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः १९२ गरुडपुराणम्
अध्यायः १९३
वेदव्यासः
आचारकाण्डः, अध्यायः १९४ →

श्रीगरुडमहापुराणम् १९३
हरिरुवाच ।
पलाण्डुजीरके कुष्ठमश्वगन्धाजमोदकम् ।
वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥ १,१९३.१ ॥

ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितम् ।
सप्ताहं भक्षितं कुर्यान्निर्मलाञ्च मतिं पराम् ॥ १,१९३.२ ॥

सिद्धार्थकं वचा हिङ्गु करञ्जं देवदारु च ।
मञ्जिष्ठा त्रिफला विश्वं शिरीषो रजनीद्वयम् ॥ १,१९३.३ ॥

प्रियङ्गुनिम्बत्रिक्रटु गोमूत्रेणैव घर्षितम् ।
नसयमालेपनञ्चैव तथा चोद्वर्तनं हितम् ॥ १,१९३.४ ॥

अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।
भूतेभ्यश्चभयं हन्ति राजद्वारेषु योजनात् ॥ १,१९३.५ ॥

निम्बं कुष्ठं हरिद्रे द्वे शिग्रु सर्षपजं तथा ।
देवदारु पटोलञ्च धान्यं तक्रेण घर्षितम् ॥ १,१९३.६ ॥

देहं तैलाक्त गात्रं वै नयेदुद्वर्तनेन च ।
पामाः कुष्ठानि नश्येयुः कण्डूं हन्ति च निश्चितम् ॥ १,१९३.७ ॥

सामुद्रं सैन्धवं क्षारो राजिका लवणं विडम् ।
कटुलोहरजश्चैवं त्रिवृत्सूरणकं समम् ।
दधिगोमूत्रपयसा मन्दपावकपाचितम् ॥ १,१९३.८ ॥

बलाग्निवर्धकं चूर्णं पिबेदुष्णेन वारिणा ।
जीर्णेऽजीर्णे तु भुञ्जति मांस्यादिघृतमुत्तमम् ॥ १,१९३.९ ॥

नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत् ।
सर्वशूलहरं चूर्णं जठरानलदीपनम् ।
परिणामसमुत्थस्य शूलस्य च हितं परम् ॥ १,१९३.१० ॥

अभयामलकं द्राक्षा पिप्पली कण्टकारिका ।
शृङ्गी पुनर्नवा शुण्ठी जग्धा कासं निहन्ति वै ॥ १,१९३.११ ॥

अभयामलकं द्राक्षा पाठा चैव विभीतकम् ।
शर्कराया समं चैव जग्धं ज्वरहरं भवेत् ॥ १,१९३.१२ ॥

त्रिफला बदरं द्राक्षा पिप्पली च विरेककृत् ।
हरीतकी सोष्णानीरलवणञ्च विरेककृत् ॥ १,१९३.१३ ॥

कूर्ममत्स्याश्वमहिषगोशृगालाश्च वानराः ।
विडालबर्हिकाकाश्च वराहोलूककुक्कुटाः ॥ १,१९३.१४ ॥

हंस एषाञ्च विण्मूत्रं मांसं वा रोम शोणितम् ।
धूपं दद्याज्ज्वरार्तेभ्य उन्मत्तेभ्यश्च शान्तये ॥ १,१९३.१५ ॥

एतान्यौषधजातानि कथितानि उमापते ।
निघ्नन्ति ताश्च रोगांश्च वृक्षमिन्द्राशनिर्यथा ॥ १,१९३.१६ ॥

औषधंभगवान्विष्णुः संस्मृतो रोगनुद्भवेत् ।
ध्यातोऽर्चितः स्तुतो वापि नात्र कार्या विचारणा ॥ १,१९३.१७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्रिनवत्यधिकशततमोऽध्यायः