गरुडपुराणम्/आचारकाण्डः/अध्यायः १९५

← आचारकाण्डः, अध्यायः १९४ गरुडपुराणम्
अध्यायः १९५
वेदव्यासः
आचारकाण्डः, अध्यायः १९६ →

श्रीगरुडमहापुराणम् १९५
हरिरुवाच ।
सल्वकामप्रदां विद्यां सप्तरात्रेण तां शृणु ।
नमस्तुभ्यं भगवते वासुदेवाय धीमहि ॥ १,१९५.१ ॥

प्रद्युम्नायानिरुद्धाय नमः सङ्गर्षणाय च ।
नमो विज्ञानमात्राय परमानन्दमूर्तये ॥ १,१९५.२ ॥

आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ।
त्वद्रूपाणि च सर्वाणि तस्मात्तुभ्यं नमो नमः ॥ १,१९५.३ ॥

हृषीकेशाय महते नमस्तेऽनन्तमूर्तये ।
यस्मिन्निदं यतश्चैतत्तिष्ठत्यग्रेऽपि जायते ॥ १,१९५.४ ॥

मृन्मयीं वहसि क्षोणीं तस्मै ते ब्रह्मणे नमः ।
यन्न स्पृशन्ति न विदुः मनोबुद्धीन्द्रियासवः ।
अन्तर्बहिस्त्वं चरसि व्योमतुल्यं नमाम्यहम् ॥ १,१९५.५ ॥

ओं नमो भगवते महापुराषाय महाभूतपतये सकलसत्त्वभाविव्रीडनिकरकमलरेणूत्पलनिभधर्माख्यविद्यया? चरणारविन्दयुगल परमेष्ठिन्नमस्ते ।
अवाप विद्याधरतां चित्रकेतोश्च विद्यया ॥ १,१९५.६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे पञ्चनवत्यधिकशततमोऽध्यायः