गरुडपुराणम्/आचारकाण्डः/अध्यायः १९९

← आचारकाण्डः, अध्यायः १९८ गरुडपुराणम्
अध्यायः १९९
वेदव्यासः
आचारकाण्डः, अध्यायः २०० →

श्रीगरुडमहापुराणम् १९९
भैरव उवाच ।
अथ चूडामणिं वक्ष्ये शुभाशुभविशुद्धये ।
सूर्यं देवीं गणं सोम स्मृत्वा तु विलिखेन्नरः ॥ १,१९९.१ ॥

त्रिरेखा गोमूर्त्रिकाभा अथवा प्रश्रवाक्यतः ।
दिशस्थानप्रसूतो वा ध्वजादीन्गणयेत्क्रमात् ॥ १,१९९.२ ॥

ध्वजो धूमोऽथ सिंहश्च श्वा वृषः खरदन्तिनौ ।
ध्वाङ्क्षश्च अष्टमो ज्ञेयो नाम मन्त्रैश्च तान्न्यसेत् ॥ १,१९९.३ ॥

ध्वजस्थाने ध्वजं दृष्ट्वा राज्यचिन्ताधनादिकम् ।
ध्वजस्थाने स्थितो धूम्रो धातुचिन्ता च लाभकृत् ॥ १,१९९.४ ॥

ध्वजस्थाने स्थिते सिंहे धनलाभादिकं भवेत् ।
स्थिते शुनिध्वजस्थाने दासीचिन्तासुखादिकम् ॥ १,१९९.५ ॥

ध्वजस्थाने वृषं दृष्ट्वा स्थानचिन्ता च लाभकम् ।
ध्वजस्थाने खरं दृष्ट्वा दुः खक्लेशादिकं भवेत् ॥ १,१९९.६ ॥

ध्वजस्थाने गजं दृष्ट्वा स्थानचिन्ताजयादिकम् ।
ध्वजस्थाने तथा ध्वाङ्क्षे क्लेशचिन्ता धनक्षयः ॥ १,१९९.७ ॥

धूम्रस्थाने ध्वजं दृष्ट्वा पूर्वं दुः खं ततो धनम् ।
धूम्रे धूम्रं तथा दृष्ट्वा कलिदुः खादिकं भवेत् ॥ १,१९९.८ ॥

धूम्रस्थाने स्थिते सिंहे मनश्चिन्ताधनादिकम् ।
धूम्रस्थाने शुनि स्थिते जयलाभादिकं भवेत् ॥ १,१९९.९ ॥

धूम्रस्थाने वृषं दृष्ट्वा नारीगोऽश्वधनादिकम् ।
धूम्रस्थाने खरं दृष्ट्वा व्याधिश्चापि धनक्षयः ॥ १,१९९.१० ॥

धूम्रस्थाने गजे दृष्टे राज्यलाभजयादिकम् ।
धूम्रस्थाने स्थिते ध्वाङ्क्षे धनराज्यविनाशनम् ॥ १,१९९.११ ॥

सिंहस्थाने ध्वजं दृष्ट्वा राज्यलाभादि निर्दिशेत् ।
सिंहस्थाने स्थिते धूम्रे कन्याप्राप्तिर्धनादिकम् ॥ १,१९९.१२ ॥

सिंहस्थाने स्थिते सिंहे जयो मित्रसमागमः ।
कौलेयके सिंहगते स्त्रीचिन्ता ग्रामलाभकम् ॥ १,१९९.१३ ॥

सिंह स्थाने वृषं दृष्ट्वा गृहक्षेत्रार्थलाभकम् ।
सिंहस्थाने गजं दृष्ट्वा ग्रामस्वामित्वमेव च ॥ १,१९९.१४ ॥

सिंहस्थाने गजं दृष्ट्वा आरोग्यायुः सुखादिकम् ।
सिंहस्थानेस्थिते ध्वाङ्क्षे कन्याधान्यगुणादिकम् ॥ १,१९९.१५ ॥

शुनः स्थाने ध्वजं दृष्ट्वा स्थानचिन्तासुखादिकम् ।
शुनः स्थाने स्थिते धूम्रे कलहं कार्यनाशनम् ॥ १,१९९.१६ ॥

शुनः स्थान स्थिते सिंहे कार्यासिद्धिर्भविष्यति ।
स्थिते शुनि शुनः स्थाने धननाशो भविष्यति ॥ १,१९९.१७ ॥

शुनः स्थाने वृषं दृष्ट्वा रोगी रोगाद्वि मुच्यते ।
शुनः स्थाने खरं दृष्ट्वा कलहस्य भयं भवेत् ॥ १,१९९.१८ ॥

शुनः स्थाने गजं दृष्ट्वा पुत्रभार्यासमागमः ।
श्वस्थाने च स्थिते ध्वाङ्क्षे पीडास्यात्कुलनाशनम् ॥ १,१९९.१९ ॥

वृषस्थाने ध्वजं दृष्ट्वा राजपूजासुखादिकम् ।
वृषस्थाने स्थिते धूम्रे राजपूजासुखादिकम् ॥ १,१९९.२० ॥

वृषस्थाने स्थिते सिंहे सौभाग्यञ्च धनादिकम् ।
स्थिते शुनि वृषस्थाने बलश्रीकाम ईरितः ॥ १,१९९.२१ ॥

वृषस्थाने वृषं दृष्ट्वा कीर्तितुष्टिसुखादिकम् ।
वृषस्थाने खरं दृष्ट्वा महालाभादिकं भवेत् ॥ १,१९९.२२ ॥

वृषस्थाने गजं दृष्ट्वा स्त्रीगजादिसमागमः ।
वृषस्थाने स्थिते ध्वाङ्क्षे स्थानमानसमागमः ॥ १,१९९.२३ ॥

खरस्थाने ध्वजं दृष्ट्वा रोगशोकादिकं भवेत् ।
खरस्थाने स्थिते धूम्रे तस्करादिभयं भवेत् ॥ १,१९९.२४ ॥

खरस्थाने स्थिते सिंहे पूजाश्रीविजयादिकम् ।
स्थिते शुनिखरस्थाने सन्तापधननाशनम् ॥ १,१९९.२५ ॥

खरस्थाने वृषं दृष्ट्वा सुखं प्रियसमागमः ।
खरस्थाने खरं दृष्ट्वा दुः खीपीडादि निर्दिशेत् ॥ १,१९९.२६ ॥

खरस्थाने गजं दृष्ट्वा सुखपुत्त्रादिकं भवेत् ।
खरस्थाने स्थिते ध्वाङ्क्षे कलहो व्याधिरेव च ॥ १,१९९.२७ ॥

गजस्थाने ध्वजं दृष्ट्वा स्त्रीजयश्रीसुखादिकम् ।
गजस्थानेस्थिते धूम्रे धनधान्यसमागमः ॥ १,१९९.२८ ॥

गजस्थाने स्थिते सिंहे जयसिद्धिसमागमः ।
स्थिते शुनि गजस्थाने आरोग्यं सुखसम्पदः ॥ १,१९९.२९ ॥

गजस्थाने वृषं दृष्ट्वा राजमानधनादिकम् ।
गजस्थाने खरं दृष्ट्वा पूर्वं दुः खं ततः सुखम् ॥ १,१९९.३० ॥

गजस्थाने गजं दृष्ट्वा क्षेत्रधान्यसुखादिकम् ।
गजस्थानेस्थिते ध्वाङ्क्षे धनधान्यसमागमः ॥ १,१९९.३१ ॥

ध्वाङ्क्षस्थाने ध्वजं दृष्ट्वा कार्यनाशो भविष्यति ।
ध्वाङ्क्षस्थाने स्थिते धूम्रे कलिदुः खं गमिष्यति ॥ १,१९९.३२ ॥

ध्वाङ्क्षस्थाने स्थिते सिंहे विग्रहो दुः खमेव च ।
ध्वाङ्क्षस्थाने स्थिते श्वाने गृहभङ्गभयादिकम् ॥ १,१९९.३३ ॥

ध्वाङ्क्षस्थाने वृषं दृष्ट्वा स्थानभ्रंशभयादिकम् ।
ध्वाङ्क्षस्थाने खरं दृष्ट्वा धननाशपराजयौ ॥ १,१९९.३४ ॥

ध्वाङ्क्षस्थाने गजं दृष्ट्वा धनकीर्त्यादिकं भवेत् ।
ध्वाङ्क्षस्थाने स्थिते ध्वाङ्क्षे विदेशगमनादिकम् ॥ १,१९९.३५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवनवत्यधिकशततमोऽध्यायः