प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः १ गरुडपुराणम्
अध्यायः २
वेदव्यासः
आचारकाण्डः, अध्यायः ३ →

।। ऋषय ऊचुः ।।
कथं व्यासेन कथितं पुराणं गारुडं तव ।।
एतत्सर्वं समाख्याहि परं विष्णुकथाश्रयम् ।। 2.1 ।।

सूत उवाच ।।
अहं हि मुनिभिः सार्द्धं गतो बदरिकाश्रमम् ।।
तत्र दृष्टो मया व्यासो ध्यायमानः परेश्वरम् ।। 2.2 ।।

तं प्रणम्योपविष्टोऽहं पृष्टवान्हि मुनीश्वरम् ।।

।।सूत उवाच ।।
व्यास ब्रूहि हरे रूपं जगत्सर्गादिकं ततः ।। 2.3 ।।

मन्ये ध्यायसि तं यस्मात्तस्माज्जानासि तं विभुम् ।।
एवं पृष्टो यथा प्राह तथा विप्रा ? निबोधत ।। 2.4 ।।

।।व्यास उवाच ।।
श्रृणु सूत ! प्रवक्ष्यामि पुराणं गारुडं तव ।।
सह नारददक्षाद्यैर्ब्रह्मा मामुक्तवान्यथा ।। 2.5 ।।

।।सूत उवाच ।।
दक्षनारदमुख्यैस्तु युक्तं त्वां कथमुक्तवान् ।।
ब्रह्मा श्रीगारुडं पुण्यं पुराणं सारवाचकम् ।। 2.6 ।।

।।व्यास उवाच ।।
अहं हि नारदो दक्षो भृग्वाद्याः प्रणिपत्य तम् ।।
सारं ब्रूहीति पप्रच्छुर्ब्रह्माणं ब्रह्मलोकगम् ।। 2.7 ।।

।।ब्रह्मोवाच ।।
पुराणं गारुडं सारं रुद्रं च मां यथा ।।
सुरैः सहाब्रवीद्विष्णुस्तथाहं व्यास वच्मिते ।। 2.8 ।।

।।व्यास उवाच ।।
कथं रुद्रं सुरैः सार्द्धमब्रवीद्वै हरिः पुरा ।।
पुराणं गारुडं सारं ब्रूहि ब्रह्मन्महार्थकम् ।। 2.9 ।।

।।ब्रह्मोवाच ।।
अहं गतोऽद्रिं कैलासमिन्द्राद्यैर्दैवतैः सह ।।
तत्र दृष्टो मया रुद्रो ध्यायमानः परं पदम् ।। 2.10 ।।

पृष्टो नमस्कृतः किं त्वं देवं ध्यायसि शङ्कर ? ।।
त्वत्तो नान्यं परं देवं जानामि ब्रूहि मां ततः ।। 2.11 ।।

सारात्सारतरं तत्त्वं श्रोतुकामः सुरैः सह ।।

।।रुद्र उवाच ।।
अहं ध्यायामि तं विष्णुं परमात्मानमीश्वरम् ।। 2.12

सर्वदं सर्वगं सर्वं सर्वप्राणिहृदिस्थितम् ।।
भस्मोद्धूलितदेहस्तु जटामण्डलमण्डितः ।। 2.13 ।।

विष्णोराराधनार्थं मे व्रतचर्य्या पितामह ।।
तमेव गत्वा पृच्छामः सारं यं चिन्तयाम्यहम् ।। 2.14 ।।

विष्णुं जिष्णुं पद्मनाभं हरिं देहविवर्जितम् ।।
शुचिं शुचिपदं हँसं तत्पदं परमेश्वरम् ।। 2.15 ।।

युक्ता सर्वात्मनात्मानं तं देवं चिन्तयाम्यहम् ।।
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ।। 2.16 ।।

गुणभूतानि भूतेशे सूत्रे मणिगणा इव ।।
सहस्त्राक्षं सहस्त्राङ्‌घ्रिं सहस्त्रोरुं वराननम् ।। 2.17

अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ।। 2.18 ।।

यं वाक्येष्वनुवाक्येषु निषत्सूपनिषत्सु च ।।
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ।। 2.19 ।।

पुराणपुरुषः प्रोक्तो ब्रह्मा प्रोक्तो द्विजातिषु ।।
क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे ।। 2.20 ।।

यस्मिंल्लोकाः स्फुरन्तीमे जलेषु शकुन्यो यथा ।।
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ।। 2.21 ।।

अर्चयन्ति च यं देवा यक्षराक्षसपन्नगाः ।।
यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः ।। 2.22 ।।

चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् ।।
यस्य त्रिलोकी जठरे मस्य काष्ठाश्च बाहवः ।। 2.23 ।।

यस्योच्छ्वासश्च पवनः तं देवं चिन्तयाम्यहम् ।।
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु ।। 2.24 ।।

कुक्षौ समुद्राश्चत्वारस्तं देवं चिन्तयाम्यहम् ।।
परः कालात्परो यज्ञात्परः सदसतश्च यः ।। 2.25 ।।

अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् ।।
मनसश्चन्द्रमा यस्य चक्षुषोश्च दिवाकरः ।। 2.26 ।।

मुखादग्निश्च संजज्ञे तं देवं चिन्तयाम्यहम् ।।
पद्भ्यां यस्य क्षितिर्जाता श्रोत्राभ्यां च तथा दिशः ।। 2.27 ।।

मूर्द्धभागाद्दिवं यस्य तं देवं चिन्तयाम्यहम् ।।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।। 2.28 ।।

वंशानुचरितं यस्मात्तं देवं चिन्तयाम्यहम् ।।
यं ध्यायाम्यहमेतस्माद्व्रजामः सारमीक्षितुम् ।। 2.29 ।।

।।ब्रह्मोवाच ।।
इत्युक्तोऽहं पुरा रुद्रः श्वेतद्वीपनिवासिनम् ।।
स्तुत्वा प्रणम्य तं विष्णुं श्रोतुकाम स्थितः सुरैः ।। 2.30 ।।

अस्माकं मध्यतो रुद्र उवाच परमेश्वरम् ।।
सारात्सारतरं विष्णुं पृष्टवांस्तं प्रणम्य वै ।। 2.31 ।।

।।ब्रह्मोवाच ।।
यथा पप्रच्छ मां व्यास स्तथासौ भगवान् भवः ।।
पप्रच्छ विष्णुं देवाद्यैः श्रृण्वताममरैः सह ।। 2.32 ।।

।।रुद्र उवाच ।।
हरे कथय देवेश ! देवदेवः क ईश्वरः ।।
को ध्येयः कश्च वै पूज्यः कैर्व्रतैस्तुष्यते परः ।। 2.33 ।।

कैर्धर्मैः कैश्च नियमैः कया वा धर्मपूजया ।।
केनाचारेण तुष्टः स्यात्किं तद्रूपं च तस्य वै ।। 2.34 ।।

कस्माद्देवाज्जगज्जातं जगत्पालयते च कः ।।
कीदृशैरवतारैश्च कस्मिन्याति लयं जगत् ।। 2.35 ।।

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।।
कस्माद्देवात्प्रवर्त्तन्ते कस्मिमन्नेतत्प्रतिष्ठितम् ।। 2.36 ।।

एतत्सर्वं हरे ! ब्रूहि यच्चान्यदपि किञ्चन ।।
परमेश्वरमाहात्म्यं युक्तयोगादिकं तथा ।। 2.37 ।।

तथाष्टादश विद्याश्च हरी रुद्रं ततोऽब्रवीत् ।।

।।हरिरुवाच ।।
श्रृणु रुद्र ! प्रवक्ष्यामि ब्रह्मणा च सुरैः सह ।। 2.38 ।।

अहं हि देवो देवानां सर्वलोकेश्वरेश्वरः ।।
अहं ध्येयश्च पूज्यश्च स्तुत्योहं स्ततिभिः सुरैः ।। 2.39 ।।

अहं हि पूजितो रुद्र ! ददामि परमां गतिम् ।।
नियमैश्च व्रतैस्तुष्ट आचारेण च मानवैः ।। 2.40 ।।

जगत्स्थितेरहं बीजं जगत्कर्त्ता त्वहं शिव ! ।।
दुष्टनिग्रहकर्त्ता हि धर्मगोप्ता त्वहं हर ! ।। 2.41 ।।

अवतारैश्च मत्स्याद्यैः पालयाम्यखिलं जगत् ।।
अहं मंत्राश्च मन्त्रार्थः पूजाध्यानपरो ह्यहम् ।। 2.42 ।।

स्वर्गादीनां च कर्त्ताहं स्वर्गादीन्यहमेव च ।।
योगी योगोहमेवाद्यः पुराणान्यहमेवच ।। 2.43 ।।

ज्ञाता श्रोता तथा मन्ता वक्ता वक्तव्यमेव च ।।
सर्वः सर्वात्मको देवो भुक्तिमुक्तिकरः परः ।। 2.44 ।।

ध्यानं पूजोपहारोऽहं मण्डलान्यहमेव च ।।
इतिहासान्यहं रुद्र ! सर्ववेदा ह्यहं शिव ! ।। 2.45 ।।

सर्वज्ञानान्यहं शम्भो ! ब्रह्मात्माहमहं शिव ! ।।
अहं ब्रह्मा सर्वलोकः सर्वदेवात्मको ह्यहम् ।। 2.46 ।।

अहं साक्षात्सदाचारो धर्मोऽहं वैष्णवो ह्यहम् ।।
वर्णाश्रमास्तथा चाहं तद्धर्मोऽहं पुरातनः ।। 2.47 ।।

यमोऽहं नियमो रुद्र ! व्रतानि विविधानि च ।।
अहं सूर्य्यस्तथा चन्द्रो मङ्गलादीन्यहं तथा ।। 2.48 ।।

पुरा मां गरुडः पक्षी तपसाराधयद्भुवि ।।
तुष्ट ऊचे वरं ब्रूहि मत्तो वव्रे वरं स तु ।। 2.49 ।।

।।गरुड उवाच ।।
मम माता च विनता नागैर्दासीकृता हरे ।।
यथाहं देवताञ्जित्वा चामृतं ह्यानयामि तत् ।। 2.50 ।।

दास्याद्विमोक्षयिष्यामि यथाहं वाहनस्तव ।।
महाबलो महावीर्य्यः सर्वज्ञो नागदारणः ।। 2.51 ।।

पुराणसंहिताकर्त्ता यथाऽहं स्यां तथा कुरुं ।।

।।विष्णुरुवाच ।।
यथा त्वयोक्तं गरुड तथा सर्वं भविष्यति ।। 2.52 ।।

नागदास्यान्मातरं त्वं विनतां मोक्षयिष्यसि ।।
देवादीन्सकलाञ्जित्वा चामृतं ह्यानयिष्यसि ।। 2.53 ।।

महाबलो वाहनस्त्वं भविष्यसि विषार्दनः ।।
पुराणं मत्प्रसादाच्च मम माहात्म्यवाचकम् ।। 2.54 ।।

यदुक्तं मत्स्वरूपं च तव चाविर्भविष्यति ।।
गारुडं तव नाम्ना तल्लोके ख्यातिं गमिष्यति ।। 2.55 ।।

यथाहं देवदेवानां श्रीः ख्यातो विनतासुत ।।
तथा ख्यातिं पुराणेषु गारुडं गारुडैष्यति ।। 2.56 ।।

यथाहं कीर्त्तनीयोऽथ तथा त्वं गरुडात्मना ।।
मां ध्यात्वा पक्षिमुख्येदं पुराणं गद गारुडम् ।। 2.57 ।।

इत्युक्तो गरुडो रुद्र ! कश्यपायाह पृच्छते ।।
कश्यपो गारुडं श्रुत्वा वृक्षं दग्धमजीवयत् ।। 2.58 ।।

स्वयं चान्यमना भूत्वा विद्ययान्यान्य जीवयत् ।।

यक्षि ॐउंस्वाहाजापी विद्ययं गारुडी परा ।।
गरुडोक्तं गारुडं हि श्रृणु रुद्र ! मदात्मकम् ।। 2.59 ।।

।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगरुडमहापुराणोत्पत्तिनिरूपणं नाम द्वितीयोऽध्यायः ।। 2 ।।