गरुडपुराणम्/आचारकाण्डः/अध्यायः २०८

← आचारकाण्डः, अध्यायः २०७ गरुडपुराणम्
अध्यायः २०८
वेदव्यासः
आचारकाण्डः, अध्यायः २०९ →

श्रीगरुडमहापुराणम् २०८
सूत उवाच ।
आर्यालक्ष्म त्वष्ट गणाः सदा जो विषमे न हि ।
षष्ठे जो न्लौ वापि भवेत्पदं षष्ठे द्वितीयलात् ॥ १,२०८.१ ॥

आदितः सप्तमे ह्रस्वा द्वितीयार्धे शरे ततः ।
त्रिगणाङ्घ्रिश्च पथ्या स्याद्विपुला वह्निलङ्घनात् ॥ १,२०८.२ ॥

ग्मध्ये द्वितुर्यौ जौ चपला मुखपूर्वादिचापला ।
द्वितीयार्धे सजघना आर्याजातेश्च लक्षणम् ॥ १,२०८.३ ॥

आर्या प्रथमार्धलक्ष्म गीतिः स्याच्चेद्दलद्वये ।
उपगीतिर्द्वितीयार्धादुद्गीतिर्व्यत्ययाद्भवेत् ॥ १,२०८.४ ॥

आर्यागीतिश्चान्तगुरुर्गोतिजातेश्च लक्षणम् ।
षट्कला विषमे चेत्स्युः समेऽष्टौ न निरन्तराः ।
समा पराश्रिता न स्याद्वैतालीये रलौ गुरुः ॥ १,२०८.५ ॥

अन्तेर्यौ पूर्ववदिदमौपच्छन्दसिकं मतम् ॥ १,२०८.६ ॥

भाद्गौ स्यादापातलिका ज्ञेयाथो दक्षिणान्तिका ।
पराश्रितो द्वितीयो लः पादेषु निखिलेष्वपि ॥ १,२०८.७ ॥

उदीच्यवृत्तिरसमे प्राच्यवृत्तिस्तु युग्मके ।
सपञ्चमश्चतुर्थांशे युगपत्तौ प्रवृत्तकम् ॥ १,२०८.८ ॥

उदीच्याद्यङ्घ्रिसंयोगाद्युग्मपादैकपादिका ।
चारुहासिन्ययुग्माङ्घ्रौ वैतालीयस्य संग्रहः ॥ १,२०८.९ ॥

वक्त्रं नाद्यान्नसौ स्यातां चतुर्थाद्यगणो भवेत् ।
पथ्यावक्त्रं जेन समे विपरीतादिरन्यथा ॥ १,२०८.१० ॥

उसमे नश्च चपला विपुला लघुसप्तमा ।
निखिले वा सैतवस्य म्रौ न्तौ चाब्धेस्तत्पूर्वकौ ॥ १,२०८.११ ॥

षोडशलोऽचलधृतिर्मात्रासमकमुच्यते ॥ १,२०८.१२ ॥

नवमलस्तथा गोऽन्त्यः जो न्लौवाथाम्बुधेर्यथा ।
विश्लोकः स्यात्तच्चतुष्कद्विगुणाद्वानवासिका ॥ १,२०८.१३ ॥

बाणाष्टनवकेषु स्याल्लश्चित्रा षोडशात्मिका ।
सममात्रासमादिष्टं पदाकुलकमीरितम् ॥ १,२०८.१४ ॥

वृत्तमात्रा विना वर्णैर्ला वर्णा गुरुभिर्विना ।
गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ १,२०८.१५ ॥

अष्टाविंशातिला गन्ता प्रथमार्धे द्वितीयके ।
त्रिंशदस्यां शिखा गन्ता खञ्जातद्व्यत्ययाद्भवेत् ॥ १,२०८.१६ ॥

षोडशानङ्गक्रीडा गा द्वात्रिंशच्चरमे च लाः ।
सप्तविंशातिला गन्ता दलयो रुचिरा द्वयोः ॥ १,२०८.१७ ॥

मात्रावृत्तानि चोक्तानि वर्णवृत्तानि वच्मि वै ॥ १,२०८.१८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे छन्दः शास्त्रे आर्यावृत्तादिछन्दोलक्षणनिरूपणं नामाष्टोत्तरद्विशततमोऽध्यायः