गरुडपुराणम्/आचारकाण्डः/अध्यायः २१०

← आचारकाण्डः, अध्यायः २०९ गरुडपुराणम्
अध्यायः २१०
वेदव्यासः
आचारकाण्डः, अध्यायः २११ →

श्रीगरुडमहापुराणम् २१०
सूत उवाच ।
सससलगाश्च विषमे पादे यद्युपचित्रकम् ।
समे भौ भगगाः स्युश्च द्रुतमध्या भभौ भगौ ॥ १,२१०.१ ॥

गः पादे विषमेऽन्यत्र नजौ ज्यौ च गणौ स्मृतौ ॥ १,२१०.२ ॥

विषमे वेगवती सा गः समे भौ भो गगौ गणाः ।
पादेऽसमे तजौ रो गः समे मसौ जगौ गरुः ।
भवेद्भद्रविराट्केतुमती तु विषमे सजौ ॥ १,२१०.३ ॥

सगौ समे भ्रौ नगगा आख्यानकी त्वथासमे ।
तौ जो गगौ समे पादे जतजा गुरुकद्वयम् ॥ १,२१०.४ ॥

विपरीताख्यानकं स्याद्विषमे जस्तजौ गगौ ।
ततौ जगौ समे गः स्यात्पिङ्गलेन ह्युदाहृतम् ॥ १,२१०.५ ॥

पादेऽथ विषमे चैव पुष्पिताग्रा ननौ रयौ ।
समे नजौ जरौ गश्च वैतालीयं वदन्ति हि ।
वृत्तञ्चापरवक्त्राख्यमौपच्छन्दसिकं परम् ॥ १,२१०.६ ॥

वाङ्मती रजरा यः स्यादयुग्मे जरजा रगौ ॥ १,२१०.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेर्ऽद्धसमवृत्तलक्षणादिनिरूपणं नाम दशोत्तरद्विशततमोऽध्यायः