गरुडपुराणम्/आचारकाण्डः/अध्यायः २१८

← आचारकाण्डः, अध्यायः २१७ गरुडपुराणम्
अध्यायः २१८
वेदव्यासः
आचारकाण्डः, अध्यायः २१९ →
पार्वणश्राद्ध.


श्रीगरुडमहापुराणम् २१८
ब्रह्मोवाच ।
व्यास ! श्राद्धमहं वक्ष्ये भुक्तिमुक्तिप्रदं नृणाम् ।
पूर्वं निमन्त्रयेद्विप्रान्विशेषाद्ब्रह्मचारिणः ॥ १,२१८.१ ॥

प्रदक्षिणोपवीतेन देवान्वामोपवीतिना ।
पितॄन्निमन्त्रयेत्पादौ क्षालयेद्वाक्यमन्त्रतः ॥ १,२१८.२ ॥

ओं स्वागतं भवद्भिरिति प्रश्रः ।
ओं सुस्वागतामिति तैरुक्ते ओं विश्वेभ्यो देवेभ्य एतत्पादोदकमर्घ्यं स्वाहेति देवब्राह्मणपादयोर्देवतीर्थेनाभुग्नकुशसहितजलदानम् ॥ १,२१८.३ ॥

ततो दक्षिणा भिमुखेन वामोपवीतेनामुकगोत्रेभ्यो अस्मत्पितृपितामहप्रपितामहेभ्यो यथानामशर्मभ्य एतत्पादोदकमर्घ्यं स्वधेति पित्रादिब्राह्मणपादयोः पितृतीर्थेन आभुग्नकुशकुसुमसहितजलदानम् ॥ १,२१८.४ ॥

एवं मातामहादिभ्यः ।
एतदाचमनीयं स्वाहा स्वधेति ब्राह्मणहस्ते एषवोर्ऽघ्य इति ब्राह्मणहस्ते पुष्पदानम् ॥ १,२१८.५ ॥

ओं सिद्धमिदमासनमिह सिद्धमित्यभिधाय ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यमिति सप्तव्याहृतिभिः पूर्वमुखन्देवब्राह्मणोपवेशनम् ।
उत्तरदिङ्मुखंपितृब्राह्मयोणोपवेशनम् ।
ओं देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यमेव भवन्तुते इति त्रिर्जपेत् ॥ १,२१८.६ ॥

ओं अद्यास्मिन्देशे अमुकमासे अमुकराशिङ्गते सवितर्यमुकतिथावमुकगोत्राणामस्मत्पितृपितामहप्रपितामहानां यथानामशर्मणां विश्वेदेवपूर्वकन्दृश्राद्धं करिष्ये । ओं विश्वेभ्यो देवभ्यः स्वाहा ओं विश्वेदेवानावाहयिष्ये ।
आवाहयेत्युक्ते ओं विश्वेदेवाः स आगत शृणुतामिमं हवम् ।
एदं बर्हिर्निषीदत ओं विश्वेदेवाः शृणुतेमं इवं मे ये अन्तरिक्षे य उपद्यविष्ट ।
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम् ।
ओं ओषधयः संवदन्ते सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ।
ओं आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।
ये अत्र विहिताः श्राद्धे सावधाना भवन्तु ते ।
ओं अपहतासुरा रक्षांसि वेदिषद इति त्रित्रिर्यवविकिरणम् ॥ १,२१८.७ ॥

ओं पात्रमहं करिष्ये ।
ओं करुष्वेत्यनुज्ञातः कृत्वा पात्रे पवित्रनिषेवणम् ॥ १,२१८.८ ॥

ओं शन्नो देवीरभिष्टय आपो भवन्तु पीतये ।
शंयोरभिस्त्रवन्तु न इति पात्रे जलदानम् ।
ओं यवोऽसि यवयास्मद्वेषो यवयारातीरिति यवदानम् ।
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां ता (त्वा) मिहोपह्वये श्रियमिति गन्धदानम् ।
ओं या दिव्या आपः पयसा संबभूवुर्या अन्तरिक्षौत पार्थवीर्याः ।
हिरण्यवर्णा यज्ञियास्तान आपः शिवाः शं स्योना सुहवा भवन्तु ।
एषोर्ऽघो नम इति ब्राह्मणहस्ते जलं दत्त्वानेनैव पात्रेण पवित्रग्रहणं कृत्वा संस्त्रवं पवित्रं च ब्राह्मणपार्श्वे दद्यात् ।
ततः प्रथमपात्रे संस्त्रवजलं संस्थाप्य कुशोपरि ऊर्ध्वमुखं स्थापनं कुर्यत् ।
तदुपरि कुशदानम् ॥ १,२१८.९ ॥

विश्वेभ्यो देवेभ्यः एतानि गन्धपुष्पधूपदीपवासो युगयज्ञो पवीतानि नमः ।
गन्धादिदानमच्छिद्रमस्तु ।
अस्त्विति ब्राह्मणप्रतिवचनम् ॥ १,२१८.१० ॥

ततः पितृपितामहप्रपितामहानां मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानां श्राद्धमहं करिष्ये इति अनुज्ञावचनम् ।
कुरुष्वेति ब्राह्मणैरुक्ते ।
ओं देवताभ्यः पितृभ्यश्च इतित्रिर्जपेत् ॥ १,२१८.११ ॥

ओं अमुकगोत्रेब्योऽस्मत्पितृपितामहेभ्यो यथानामशर्मभ्यः सपत्नीकेभ्यः इदमासनं स्वधा इति ब्राह्मणवामे आसनदानम् ।
ओं पितॄनावाहयिष्ये ।
ओं ।
आवाहयेत्युक्ते ओं उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि ।
उशन्नु शत आवह पितॄन्हविषे उत्तवे ।
ओं आयन्तु नः पितरः सौम्यासोऽग्निष्वात्ताः पथिभिर्देवयानैः ।
अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेवन्त्वस्मानित्यावाहनम् ।
ओं अपहता सुरा रक्षांसि वेदिषदः इति तिलविकिरणम् ।
पूर्ववक्त्रमेण स्थापितपात्रेषूदकदानम् ।
ओं तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः ।
प्रत्नमद्भिः पृक्तः स्वधया पितॄंल्लोकान्प्रीणीहि नः स्वाहा इति तिलदानम् ॥ १,२१८.१२ ॥

गन्धपुष्पे हस्ताभ्यां दत्त्वा पितृपात्रमुत्थाप्य या दिव्येति पठित्वा अमुकगोत्रास्मत्पितः ! अमुकदेवशर्मन् ! सपत्नीक ! एष तेऽर्घ्यः स्वधा ।
अपवित्रं पात्रं गृहीत्वा वामपार्श्वे दक्षिणे कुशोपरि ओं पितृभ्यः स्थानमसीत्यधोमुखपात्रस्थापनम् ॥ १,२१८.१३ ॥

ओं शुन्धन्तां लोकाः पितृसदनाः पितृसदनमसि ।
अधोमुखपात्त्रस्पर्शनम् ।
अमुकगोत्रेभ्योऽस्मत्पितृपितामह प्रपितामहेभ्यः सपत्नीकेभ्य एतानि गन्धपुष्पधूपदीपवासोगुणसोत्तरीययज्ञोपवीतानि वः स्वधा पितृतीर्थेन गन्धादिदानम् ।
गन्धादिदानमक्षय्यमस्तु ।
संकल्पसिद्धिरस्तु ।
ब्राह्मणवचनम् ।
एवं मातामहादीनामनुज्ञापनादिकर्म ।
ओं यादिव्येतिभूमिसंमार्जनम् ।
ततो घृताक्तमन्नं गृहीत्वा दक्षिणोपवीती पितृब्राह्मणमों अग्नौ करणमहं करिष्ये ।
ओं कुरुष्वेति तेनोक्ते ओं अग्नये कव्यवाहनाय स्वाहा इति आहुतिद्वयं देवब्राह्मणहस्ते दत्त्वा अवशिष्टान्नं पिण्डार्थं स्थापयित्वा अपरमर्धं पित्रादिपात्रे मातामहादिपात्रे च निः क्षिपेत् ॥ १,२१८.१४ ॥

पात्रमुद्रादि निधाय कुशं दत्त्वा अधोमुखाभ्यां पाणिभ्यां पात्रं गृहीत्वा ओं पृथिवीते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहा पात्राभिमन्त्रणम् ।
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्य पांसुरे ।
विष्णो हव्यंरक्षस्व इत्यन्नमध्ये अधोमुखद्विजाङ्गुष्ठनिवेशनम् ॥ १,२१८.१५ ॥

अपहतेति त्रिर्यवविकिरणम् ।
ओं निहन्मि सर्वं यदमेध्यवद्भवेद्धताश्च सर्वेऽसुरदानवा मया ।
रक्षांसि यक्षाः सपिशाचसङ्घा हता मया यातुधानाश्च सर्वे इति सिद्धार्थविकिरणम् ॥ १,२१८.१६ ॥

ततो धूरिलोचनसंज्ञकेभ्योदवेभ्य एतदन्नं सघृतं सपानीयं सव्यञ्जनं स्वाहेति वारिकुशाद्यैरनुसङ्कल्पनम् ।
ओं अन्नमिदमक्षय्यमस्तु ओं संङ्कल्पसिद्धिरस्तु ॥ १,२१८.१७ ॥

ततो विपरीतोपवीतेन सव्यञ्जनं सघृतमन्नं पित्रादि ब्राह्मणपात्रे निधाय तदुपरि भूमिसंलग्नकुशं दत्त्वा ओं पृथिवी ते पात्रं इति मन्त्रेण उत्तानाभ्यां पात्रं गृहीत्वा ओं इदं विष्णोरित्यन्नोपरि उत्तानं द्विजाङ्गुष्ठं निवेशयेत् ।
ओं अपहतेति तिलविकिरणम् ।
भूमिपातितवामजानुः अमुकगोत्रेभ्यः अस्मत्पितृपितामहेभ्यः सपत्नीकेभ्यः एतदन्नं सघृतं सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं स्वधा ।
अन्नं सङ्कल्प्य ओं ऊर्जं वहन्तीरमृतं घृत पयः कीलालं परिस्त्रुतं स्वधास्तु तर्पयत मे पितरम् ।
दक्षिणामुखवरिधारत्यागः ॥ १,२१८.१८ ॥

ओं श्राद्धमिदमच्छिद्रमस्तु ओं सङ्कल्पसिद्धरस्तु ।
ओं भूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयातिति विसजयित्वा ओं मधुवाता ऋतायते मधुक्षरन्तु सिन्धवः माध्वीर्नः सन्त्वोषधीर्मधुनक्तमुतोषसो मधुत्पार्थिवं रजः ।
मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिः मधुमानस्तु सूर्यो माध्वीर्गावो भवन्तु नः ।
मधु मधु मधु इति जपः ॥ १,२१८.१९ ॥

यथासुखं वाग्यता जुषध्वमिति ब्रूयात् ।
बुक्तवत्सु सप्तव्याधादिकं पितृस्तोत्रं जपेत् ।
तच्चसप्तव्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शराद्वीपे हंसाः सरसि मानसे ॥ १,२१८.२० ॥

तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दूरमध्वानं यूयं किमवसीदथ ॥ १,२१८.२१ ॥

ततस्तृप्यस्व दक्षिणाभिमुखो वामोपवीती तदुत्सृष्टाग्रतः ।
ओं अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम ।
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु पराङ्गतिम् ।
इति भूमौ कुशोपरि सघृतमन्नं जलप्लुतं विकिरेत् ॥ १,२१८.२२ ॥

ततो ब्राह्मणक्रमेण जलगण्डूषं दत्त्वा पूर्ववत्सव्याहृतिकां गायत्त्रीं मधुवातेतित्र्यृचं जप्त्वा ओं रुचितं भवद्भिरिति देवब्राह्मणप्रश्रः ।
सुरुचितमिति तेनोक्ते ओं शेषमन्नमिति प्रश्रः ।
इष्टैः सह भोजनम् ।
पित्रादिब्राह्मणं वामोपवीतेन ओं तृप्ताः स्थ इति प्रश्रः ।
ओं तृप्ताः स्म इति तेनोक्ते भूम्यभ्युक्षणं मण्डलचतुष्कोणं ति लविकिरणम् ॥ १,२१८.२३ ॥

ओं अमुकगोत्र ! अस्मत्पितः ! अमुकदेवदर्शन् ! सपत्नीक ! एतत्ते पिण्डासनं स्वधा ।
इत्थं रेखामध्ये पितामहाय खव्याहृतिकां गायत्त्रीं मधुवातेति त्रर्जपन्नन्नं साज्यं पिण्डं कृत्वा कुशोपरि अमुकगोत्र अस्मत्पितः ! अमुकदेवश्रमन् ! सपत्नीक एष पिण्डस्ते स्वधा ।
इत्थं रेखामध्ये पितामहाय ।
ततः सव्याहृतिकां गायत्त्रीं मधुवातेति त्रिर्जंपन्पिण्डविकिरणं पिण्डान्तिके ।
ओं लेपभुजः प्रीयन्तमिति स्तरण्कुशेषु हस्तमार्जनं प्रक्षालितपिण्डोदकेन ओं अमुकगोत्र ! अस्मत्पितः ! अमुकशर्मन् सपत्नीक एतत्ते जलमवनेक्ष्व ये चात्रत्वामनुजाश्च त्वामनु तस्मै तेस्वधेति पितृपिण्डसेचनम् ।
पिण्डपात्रमधोमुखं कृत्वा बद्धाञ्जलिः ओं पितरो मादयध्वं यथाभागमावृषायध्वमिति जपेत् ।
अपः स्पृष्ट्वा वामेन परावृत्त्य उदङ्मुखः प्राणांस्त्रिः संयम्य षड्भ्य ऋतुभ्यो नमः इति जपः ॥ १,२१८.२४ ॥

वामेनैव परावृत्य पुष्पदानम् ।
अक्षतञ्चारिष्टञ्चास्तु मे पुण्यं शान्तिपुष्टिदृ ।
दक्षिणामुखः अमी मदन्तः पितरो यथाभागमावृषायिषत इति जपः ।
वासः शिथिलीकृत्वाञ्जलिं कृत्वा ओं नमो वः पितरो नमो वः इति जपः ।
गृहान्नः पितरो दत्त इति गृहवीक्षणम् ।
ततः सदा वः पितरो द्वेष्म इति वीक्ष्य एतद्वः पितरो वास इत्युच्चार्य अमुकगोत्र एतत्ते वासः स्वधा इति सूत्रदानम् ।
वामेन पाणिना उदकपात्रं गृहीत्वा ऊर्जं वहन्तीरमृतं घृतं पयः इत्यादि पिण्डोपरि धारात्यागः ॥ १,२१८.२५ ॥

पूर्वस्थापितपात्रशेषोदकैः प्रत्येकं पिण्डसेचनंपिण्डमावाह्य गन्धादिदानंपिण्डोपरि कुशपत्रञ्च दत्त्वा ओं अक्षन्नमीमदन्तह्य व प्रिया अधूषत अस्तोषतस्वभानवो विप्रा नविष्ठयामती ।
यो जान्विन्द्र ते हरीति त्रिर्जपः ॥ १,२१८.२६ ॥

ओं इत्थं मातामहादिब्राह्मणानामाचमनम् ।
ओं सुसुप्रोक्षितमस्त्विति भूम्यभ्युक्षणं कृत्वा ।
ओं अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् ।
ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः ।
शिवा आपः सन्त्विति ब्राह्मणहस्ते जलदानम् ।
लक्ष्मीर्वसतिपुष्पेषु लक्ष्मीर्वसति पुष्करे ।
लक्ष्मीर्वसति गोष्ठेषु सौमनस्यं सदास्तु ते ।
सौमनस्यमस्त्विति पुष्पदानम् ।
अक्षतं चास्तु मे पुण्यं शान्तिः पुष्टिर्धृतिश्च मे ।
यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम ।
ओं अक्षतञ्चारिष्टञ्चास्तु इति यवतण्डुलदानम् ॥ १,२१८.२७ ॥

अमुकगोत्राणामस्मत्पितृपितामहप्रपितामहानां सपत्नीकानामिदमन्नपानादिकमक्षय्यमस्त्विति पित्रादिब्राह्मणहस्ते तिलजलदानम् ।
अस्त्विति ब्राह्मणो वदेत् ।
एतन्मातामहादीनामक्षय्यमाशिषः ।
ओं अघोराः पितरः सन्तु गोत्रं नो वर्धतांदातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो मा व्यगमद्बहुदेयञ्च नोऽस्त्विति ।
अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि ।
याचितारश्च नः सन्तु मा च याचिष्म कञ्चन ।
एताः सत्याशिषः सन्तु ॥ १,२१८.२८ ॥

सौमनस्यमस्तु ।
अस्त्वित्युक्ते प्रदत्तपिण्डस्थाने अर्घ्यार्थपवित्रमोचनम् ।
कुशपवित्रं गृहीत्वातेन कुशेन पित्रादिब्राह्मणं स्पृष्ट्वा स्वधां वाचयिष्येओं वाच्यतांों पितृपितामहेभ्यो यथानामशर्मभ्यः सपत्नीकेभ्यः स्वधोच्यताम् ।
अस्तुस्वधा इत्युक्ते ऊर्जं वहन्तीरमृतं घृतमिति पिण्डोपरि वारिधारां दद्यात् ॥ १,२१८.२९ ॥

ततः ओं विश्वेदेवा अस्मिन्यज्ञे प्रीयन्तादेवब्राह्मणहस्ते यवोदकदानम् ।
ओं प्रीयन्तामिति तेनोक्ते ओं देवताभ्य इति त्रिर्जपेत् ॥ १,२१८.३० ॥

अधोमुखः पिण्डपात्राणि चालयित्वा आचम्य दक्षिणोपवीती पूर्वाभिमुखः ओं अमुकगोत्राय अमुकदेवशर्मणे ब्राह्मणाय सपत्नीकाय श्राद्धप्रतिष्ठार्थदक्षिणामेतद्रजतं तुभ्यमहं सम्प्रददे इति दक्षिणां दद्यात् ।
इति देवूब्राह्मणाय दक्षिणादानम् ॥ १,२१८.३१ ॥

ततः पितृब्राह्मणे पिण्डाः सम्पन्ना इति प्रश्रः ।
सुसम्पन्ना इति पिण्डे क्षीरधारां दत्त्वा पिण्डचालनं अतिथिब्राह्मणे पिण्डपात्रमुत्तानं कृत्वा ओं वाजे वाजे वत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
अस्यमध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैरिति पिण्डा दिविसर्जनंामावाजस्य प्रसवो जगम्यादेमे द्यावापृथिवी विश्वरूपे आमागन्तां पितरा चामा सोमोऽमृतत्वेन गम्यात् ।
इति देवविसर्जनम् ।
ओं अभिगम्यतामिति पितृब्राह्मणविसर्जनम् ।
ब्राह्मणैरनुद्गतस्य निवर्तनम् ।
गवादिषु पिण्डप्रतिपादनमिति शेषः ॥ १,२१८.३२ ॥

अयं श्राद्धविधिः प्रोक्तः पठितः पापनाशनः ।
अनेन विधिना श्राद्धं कृतं वै यत्र कुत्रचित् ॥ १,२१८.३३ ॥

अक्षया स्यात्पितॄणाञ्च स्वर्गप्राप्तिर्ध्रुवा तथा ।
इत्युक्तं पार्वणं श्राद्धं पितॄणां ब्रह्मलोकदम् ॥ १,२१८.३४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पार्वणश्राद्धकथनं नामाष्ट्रदशाधिकद्विशततमोऽध्यायः