गरुडपुराणम्/आचारकाण्डः/अध्यायः २२०
← आचारकाण्डः, अध्यायः २१९ | गरुडपुराणम् अध्यायः २२० वेदव्यासः |
आचारकाण्डः, अध्यायः २२१ → |
श्रीगरुडमहापुराणम् २२०
ब्रह्मोवाच ।
सपिण्डीकरणं वक्ष्ये पूर्णेऽब्दे तत्क्षयेऽहनि ।
कृतं सम्यग्यथाकाले प्रेतादेः पितृलोकदम् ॥ १,२२०.१ ॥
सपिण्डीकरणं कुर्यादपराह्ने तु पूर्ववत् ।
पितामहादिब्राह्मणनिमन्त्रणम् ।
ओं पुरूरवार्द्रवसंज्ञकेभ्यो देवेभ्य एतदासनं नमः ।
वामपार्श्वे चासनदानम् ।
आवाहनम् ।
ततः पितामहप्रपितामहवृद्धप्रपितामहानां सपत्नीकानां श्राद्धमहं करिष्ये इत्यनुज्ञाग्रहणंपात्रत्रयकरणंपात्रोपरि कुशं दत्त्वा पात्रान्तरेण पिधाय अच्छिद्रावधारणान्तं परिसमाप्य तथैव पितुरपि सपत्नीकस्य प्रेतपदान्तनाम्ना श्राद्धकरणानुज्ञापनं देवपात्राच्छिद्रावधारणम् ॥ १,२२०.२ ॥
तत्परिसमाप्य पितामहप्रपितामहवृद्धप्रपितामहक्रमेण पात्राणां मनाक्चालनम् ।
उद्धाटनं कृत्वाओं ये समानाः समनसः पितरो यमराज्ये ।
तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ।
ओं ये समानाः समनसो जीवा जीवेषु मामकाः ।
तेषां श्रीर्मयि कल्पतामस्मिन् लोके शतं समाः ।
एतन्मन्त्रद्वयेन पितृपात्रोदकं पितामहप्रपितामहपात्रे वृद्धप्रपितामहपात्रं परित्यज्य पितामहप्रपितामहयोरुदकं पवित्रञ्च पितृपात्रे क्षिपेत् ॥ १,२२०.३ ॥
ततः पितृब्राह्मणहस्ते पात्रस्थपवित्रदानम् ।
पात्रस्थपुष्पेण शिरसः करपादार्चनं ब्राह्मणहस्तेऽन्य जलदानंहस्ताभ्यां पात्रमुत्थाप्य ओं या दिव्येति पठित्वा ओं अमुकगोत्र मत्पितामह अमुकदेवशर्मन् सपत्नीक एष ते अर्घ्यः स्वधा ।
पितृपात्रेणैव पितामहब्राह्मणहस्ते स्तोकमर्घ्योदकं सपवित्रङ्गृहीत्वास्तोकमुदकं पिण्डसेचनार्थं पात्रान्तरेण पिधाय पितृब्राह्मणवामपार्श्व दक्षिणाग्रकुशोपरि पितृभ्यः स्तानमसीति अधोमुखपात्रस्थपनम् ॥ १,२२०.४ ॥
पितामहप्रपितामहवृद्धप्रपितामहेभ्यो गन्धादिदानमग्नौकरणम् ।
अवशिष्टान्नं प्रपितामहादिपात्रे क्षिपेत् ।
पितामहपात्राभिमन्त्रणपर्यन्तक्रमेण समाप्यापि ब्राह्मणपात्राभिमन्त्रणम् ।
अङ्गुष्ठनिवेशनं तिलविकरणं कृत्वा अमुकगोत्र एतत्ते अन्नं सघृतं सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं ये चात्र त्वा मनुयाश्च त्वामनु तस्मै ते स्वधा इति ॥ १,२२०.५ ॥
ततो देवप्रभृतिभ्य अपोशानं दद्यात् ।
अतिथिप्राप्तौ अतिधिश्राद्धं कुर्यात् ।
अस्मिन्नवसरे विकिरणम् ।
पितामाहदौ प्रश्रं कृत्वा पितृब्राह्मणमों स्वदितं भवद्भिरिति प्रश्रः ।
ओं अमुकगोत्र मत्पितः अमुकशर्मन् सपत्नीक एष ते पिण्डो ये चात्रत्वामनुयाश्च त्वामनु तस्मै स्वधेति पिण्डपात्रमच्छिद्रमस्तु ।
ततः सङ्कल्प सिद्धिवाचनं समाप्य पिण्डं द्विधा कृत्वा ये समानाः सुमनस इति मन्त्रद्वयं पठित्वा पितामहवृद्धप्रपितामहपात्रेषु क्षिपेत् ।
पिण्डेषु गन्धादिकं दत्त्वा पिण्डचालनम् ।
अतिथिब्राह्मणे स्वदितादिप्रश्रः ।
ब्राह्मणानामाचमनम् ।
भुक्तिक्रमेण ताम्बूलदानम् ।
सुप्रोक्षितमस्तु शिवा आपः सन्तुवृद्धप्रपितामहक्रमेण ब्राह्मणहस्ते जलदानम् ।
गोत्रस्याक्षय्यमस्तु पितृब्राह्मणहस्ते उपतिष्टतामिति सतिजलदानम् ॥ १,२२०.६ ॥
अघोराः पितरः सन्तु अस्त्वित्युक्ते स्वधां वाचयिण्य इति पितामाहदिब्राह्मणानुज्ञापनम् ॥ १,२२०.७ ॥
ओं वाच्यतां इत्युक्ते ओं पितामहादिभ्यः स्वधोच्यताम् ।
अस्तु स्वधेत्युक्ते पितृब्राह्मण पितृभ्यः स्वधोच्यतामिति ।
अस्तु स्वधेत्युक्ते ओं ऊर्जं वहन्तीरिति दक्षिणाभिमुखवारिधारात्यागः ।
ओं विश्वेदेवा अस्मिन् यज्ञे प्रीयन्तामिति देवब्राह्मणहस्ते ओं यवोदकदानम् ।
ओं देवताभ्य इति त्रिर्जपः ॥ १,२२०.८ ॥
पिण्डपात्राणि चालयित्वा आचम्य पितामहादिभ्यो दक्षिणां दत्त्वा ततः पितृ ब्राह्मणाय आशिषो मे प्रदीयन्तामित्याशीः प्रार्थनम् ।
प्रतिगृह्यतामित्युक्ते दातारो नोऽभिवर्धन्तामिति पात्रमुत्तानं कृत्वा वाजे वाजेदृविसर्जनम् ।
अभिरण्यतामिति पितृब्राह्मणविसर्जनम् ॥ १,२२०.९ ॥
सपिण्डीकरणश्राद्धं व्यासप्रोक्तं मया तव ।
श्राद्धं विष्णुः श्राद्धकर्ता फलं श्राद्धादिकं हरिः ॥ १,२२०.१० ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्राद्धानुष्ठानं नामविंशाधिकद्विशततमोऽध्यायः