प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः २२१ गरुडपुराणम्
अध्यायः २२२
वेदव्यासः
आचारकाण्डः, अध्यायः २२३ →

श्रीगरुडमहापुराणम् २२२
ब्रह्मोवाच ।
प्रायश्चित्तादि वक्ष्येऽहं नरकौघविमर्दनम् ।
मक्षिका विप्रुषो नारी भुवि तोयं हुताशनः ।
मार्जारो नकुलश्चैव शुचीन्येतानि नित्यशः ॥ १,२२२.१ ॥

यः शूद्रोच्छिष्टसंस्पृष्टं प्रमादाद्भक्षयेद्द्विजः ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ १,२२२.२ ॥

विप्रो विप्रेण संस्पृष्ट उच्छिष्टेन कदाचन ।
स्नानं जप्यञ्च कर्तव्यं दिनस्यान्ते च भोजनम् ॥ १,२२२.३ ॥

अन्नं समक्षिकाकेशं शुध्येद्वान्तेन तत्क्षणात् ।
यश्च पाणितले भुङ्क्ते अङ्गुल्या बाहुना च यः ॥ १,२२२.४ ॥

अहोरात्रेण शुध्येत पिबेद्यदि न वार्युत ।
पीतशेषन्तु यत्तोयं वामहस्तेन मद्यवत् ॥ १,२२२.५ ॥

चर्ममध्यगतं तोयमशुचि स्यान्न तत्पिबेत् ।
अन्त्यजातिरविज्ञातो निवसेद्यस्य वेश्मनि ॥ १,२२२.६ ॥

चान्द्रायणं पराकं वा द्विजातीनां विशोधनम् ।
प्राजापत्यन्तु शूद्रस्य पश्चाज्ज्ञाते तथापरे ॥ १,२२२.७ ॥

यस्तत्र भुङ्क्ते पक्वान्नं कृच्छ्रार्धं तस्य दापयेत् ।
तेषामपि च यो भुङ्क्ते कृच्छ्रपादो विधीयते ॥ १,२२२.८ ॥

रजकानाञ्च शैलू षवेणुचर्मोपजीविनाम् ।
एतदन्नञ्च यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥ १,२२२.९ ॥

चाण्डालकूपभाण्डेषु अज्ञानाच्चेत्पिबेज्जलम् ।
कुर्यात्सान्तपनं विप्रस्तदर्धञ्च विशः स्मृतम् ॥ १,२२२.१० ॥

पादं शूद्रस्य दातव्यमज्ञानादन्त्यवेश्मनि ।
प्रायश्चित्तं त्रिकृच्छ्रं स्यात्पराकमन्त्यजागतौ ॥ १,२२२.११ ॥

अन्त्यजोच्छिष्टभुक्च्छुध्येद्द्विजश्चान्द्रायणेन च ।
चाण्डालन्नं यदा भुङ्क्ते प्रमादादैन्दवञ्चरेत् ॥ १,२२२.१२ ॥

क्षत्त्रजातिः सान्तपनं षड्द्विरात्रं परे तथा ।
एकवृक्ष तु चण्डालः प्रमादाद्ब्राह्मणो यदि ।
फलं भक्षयते तत्र अहोरात्रेण शुध्यति ॥ १,२२२.१३ ॥

भुक्त्वोपविष्टोऽनाचान्तश्चण्डालं यदि संस्पृशेत् ।
गायत्त्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत् ॥ १,२२२.१४ ॥

चाण्डालश्वपचैर्वापि विण्मूत्रे तु कृते द्विजाः ।
प्रायश्चित्तं त्रिरात्रं स्यात्पराकश्चान्त्यजागतौ ॥ १,२२२.१५ ॥

अकामतः स्त्रियो गत्वा पराकस्तत्र साधकः ।
अन्त्यजातिप्रसूतस्य प्रायश्चित्तं न विद्यते ॥ १,२२२.१६ ॥

मद्यादिदुष्टभाण्डेषु यादपः पिबति द्विजः ।
कृच्छ्रपादेन शुध्येद्वै पुनः संस्कारकर्मणा ॥ १,२२२.१७ ॥

ये प्रत्यवसिता विप्रा वज्राग्निपवनादिषु ।
अन्नपानादि संगृह्य चिकीर्षन्ति गृहान्तरम् ॥ १,२२२.१८ ॥

चारयेत्त्रीणि कृच्छाणि त्रीणि चान्द्रायणानि वै ।
जातकर्मादिसंस्कारं वसिष्ठो मुनिरब्रवीत् ॥ १,२२२.१९ ॥

प्राजापत्यादिभिर्द्रष्टा स्त्री शुध्येत्तु द्विभोजनात् ।
उच्छिष्टोच्छिष्टसंस्पृष्टंशुना शूद्रेण वा द्विजः ॥ १,२२२.२० ॥

उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ।
वर्णबाह्येन संस्पृष्टः पञ्चरात्रेण वै तदा ॥ १,२२२.२१ ॥

अदुष्टाः सन्तता धाराः वातोद्धूताश्च रेणवः ।
स्त्रियो बालाश्च वृद्धाश्च न दुष्यन्ति कदाचन ॥ १,२२२.२२ ॥

नित्यमास्यं शुचि स्त्रीणां शकुन्तैः पातितं फलम् ।
प्रस्त्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ १,२२२.२३ ॥

उदके चोदकस्थं तु स्थलेषु स्थलजं शुचि ।
पादौ स्थाप्यौ च तत्रैव आचान्तः शुचितामियात् ॥ १,२२२.२४ ॥

शुध्येत्तद्भस्मना कांस्यं सुरया यन्न लिप्यते ।
मूत्रेण सुरया मिश्रं तपनैः खलु शुध्यति ॥ १,२२२.२५ ॥

गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च ।
काकश्वापहतान्येव शुध्यन्ति दश भस्मना ॥ १,२२२.२६ ॥

शूद्रभाजनभोक्ता यः पञ्चगव्यं त्र्युपोषितः ।
उच्छिष्टं स्पृशते विप्रः श्वसूद्रश्चापराधिकः ॥ १,२२२.२७ ॥

उपोषितः पञ्चगव्याच्छुध्येत्स्पृष्ट्वा रजस्वलाम् ।
अनुदकेषु देशेषु चोरव्याघ्राकुले पथि ॥ १,२२२.२८ ॥

कृत्वा मूत्रपुरीषन्तु द्रव्यहस्तो न दुष्यति ।
भूमौनिः क्षैप्य तद्द्रव्यं शौचं कृत्वा समाहितः ॥ १,२२२.२९ ॥

आरनालं दधि क्षीरं तक्रन्तु कृसरञ्च यत् ।
शूद्रादपि च तद्गाह्यं मांसं मधु तथान्त्यजात् ॥ १,२२२.३० ॥

गौडीं पैष्टीञ्च माध्वीकं विप्रादिर्यः सुरां पिबेत् ।
सुरां पिबन्द्विजः शुध्येदग्निवर्णां सुरां पिबन् ॥ १,२२२.३१ ॥

विप्रः पञ्चशतं जप्यं गायत्र्याः क्षत्रियस्य च शतं विप्रश्च भुक्त्वान्नं पानपात्रेण सूतके ॥ १,२२२.३२ ॥

शुचिर्विप्रो दशाहेन क्षत्त्रियो द्वादशाहतः ।
वैश्यः पञ्चदशाहन शूद्रो मासेन शुध्यति ॥ १,२२२.३३ ॥

राज्ञां युद्धेषु यज्ञादौ देशान्तरगतेषु च ।
बाले प्रेते मासिके च सद्यः शौचं विधीयते ॥ १,२२२.३४ ॥

अविवाहा तथा कन्या द्विजो मौञ्जीविवर्जितः ।
जतदन्तश्च बालश्च कुमारी च त्रिवर्षिका ॥ १,२२२.३५ ॥

तेषां शुद्धिस्त्रिरात्रेण गर्भस्त्रावे त्रिरात्रिभिः ।
सूतायां मासतुल्याश्च चतुर्थेऽह्नि रजस्वला ॥ १,२२२.३६ ॥

दुर्भिक्षे राष्ट्रसंपते सूतके मृतकेपि वा ।
नियमाश्च न दुष्यन्ति दानधर्मपरास्तथा ॥ १,२२२.३७ ॥

दक्षिकाले विवाहादौ देवद्विजनिमन्त्रिते ।
पूर्वसंकल्पिते वापि नाशौचं मृतसूतके ॥ १,२२२.३८ ॥

प्रसूतपत्नीसंस्पर्शादशुचिः स्यात्तथा द्विजः ।
अग्नयो यत्र हूयन्ते वेदो वा यत्र पठ्यते ॥ १,२२२.३९ ॥

सततं वैश्वदेवा दि न तेषां सूतकं भवेत् ।
अशुद्धे च गृहे भुक्ते त्रिरात्राच्छुध्यति द्विजः ॥ १,२२२.४० ॥

ब्राह्मणी क्षत्रिया वैश्या शूद्रा चैव रजस्वला ।
अन्योन्यस्पर्शनात्तत्र ब्राह्मणी तु त्रिरात्रतः ॥ १,२२२.४१ ॥

द्विरात्रतः क्षत्रिया च शुद्धा वैश्या ह्युपोषिता ।
शूद्रा स्नानेन शुध्येत्तु द्रोणार्थं न विसर्जयेत् ॥ १,२२२.४२ ॥

काकश्वानोपनी तन्तु अन्नं बाह्यन्तु तत्त्यजेत् ।
सुवर्णाद्भैः समभ्युक्ष्य हुताशे च प्रतापयेत् ॥ १,२२२.४३ ॥

कूपे च पतितान्दृष्ट्वा श्वशृगालौ च मर्कटम् ।
तत्कूपस्योदकं पीत्वा शुध्येद्विप्रस्त्रिभिर्दिनैः ।
क्षत्रियोऽहर्द्वयेनैव वैश्यो वैकाहतः परम् ॥ १,२२२.४४ ॥

अस्थि चर्म मलं वापि मूषिकां यदि कूपतः ।
उद्धृत्य चोदकं पञ्च गव्याच्छुद्ध्येत्तु शोधितम् ॥ १,२२२.४५ ॥

तडागे पुष्करिण्यादौ भस्मादिं पातयेत्तथा ।
षट्कुम्भानप उत्द्धृय पञ्चगव्येन शुध्यति ॥ १,२२२.४६ ॥

स्त्रीरजः पतितं मध्ये त्रिंशत्कुम्भान्समुद्धरेत् ।
अगम्यागमनं कृत्वा मद्यगोमांसभक्षणम् ॥ १,२२२.४७ ॥

शुध्ये च्चान्द्रायणाद्विप्रः प्राजापत्येन भूमिपः ।
वैश्यः सान्तपनाच्छूद्रः पञ्चाहोभिर्विशुध्यति ॥ १,२२२.४८ ॥

प्रायश्चित्ते कृते दद्याद्गवां ब्राह्मणभोजनम् ।
क्रीडायां शयनीयादौ नीलीवस्त्रं न दुष्यति ॥ १,२२२.४९ ॥

नीलीवस्त्रं न स्पृशेच्च नीली च निरयं ब्रजेत् ।
व्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥ १,२२२.५० ॥

ऋक्षं दृष्ट्वा विशुध्यन्ते तत्संयोगी च पञ्चमः ।
ततो धेनुशतं दद्याद्ब्राह्मणानान्तु भोजनम् ॥ १,२२२.५१ ॥

ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् ।
न्यस्येदात्मानमग्नौ वा सुसमिद्धे सुरापकः ॥ १,२२२.५२ ॥

स्तेयी सर्वं वेदविदे ब्राह्मणायोपपादयेत् ।
वृषमेकं सहस्रं गां दद्याच्च गुरुतल्पगः ॥ १,२२२.५३ ॥

कृतपापश्चरेद्रोधे द्वौ पादौ बन्धयन्पशोः ।
सर्वकृच्छ्रं निपानेस्यात्कान्तारे गृहदाहतः ॥ १,२२२.५४ ॥

कण्ठाभरणदोषेण कृच्छ्रपादं मृते गवि ।
अस्थिभङ्गं गवां कृत्वा शृङ्गभङ्गमथापि वा ॥ १,२२२.५५ ॥

त्वग्भेदं पुच्छनाशे वा मासार्धं यावकं पिबेत् ।
सर्वं हस्त्यश्वशस्त्राद्यैर्निश्चयं कृच्छ्रमेव तु ॥ १,२२२.५६ ॥

अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ।
पुनः संस्कारमायान्ति त्रयो वर्णा द्विजातयः ॥ १,२२२.५७ ॥

वपनं मेख्ला दण्डो भैक्ष्यचर्याव्रतानि च ।
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि ॥ १,२२२.५८ ॥

आममांसं घृतं क्षौद्रं स्नेहश्च कालसम्भवाः ।
अन्त्यभाण्डस्थिताः सर्वे निष्क्रान्ताः शुचयः स्मृताः ॥ १,२२२.५९ ॥

तैलादिघृतमाध्वीकं पण्यद्रव्यं द्रवस्तथा ।
एकभक्तं क्रमान्नक्तं एकैकाहमयाचितम् ।
उपवासः पादकृच्छ्रं कृच्छार्धद्विगुणं हि यत् ॥ १,२२२.६० ॥

प्राजापत्यन्तु तत्स्याच्च सर्वपातकनाशनम् ।
कृच्छ्रं सप्तोपवासैश्च महासान्तपनं स्मृतम् ॥ १,२२२.६१ ॥

त्र्यहमुष्णं पिबेच्छापः त्र्यहमुष्णं पयः पिबेत् ।
त्र्यमुष्णं पिबेत्सर्पिस्तप्तकृच्छ्रमघापहम् ॥ १,२२२.६२ ॥

द्वादशाहोपवासेन पराकः सर्वपापहा ।
एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् ॥ १,२२२.६३ ॥

पयः काञ्चनवर्णायाः श्वेतवर्णं च गोमयम् ।
गोमूत्रं ताम्रवर्णाया नीलवर्णभवं घृतम् ॥ १,२२२.६४ ॥

दधि स्यात्कृष्णवर्णाया दर्भोदकसमायुतम् ।
गोमूत्रमाषकाण्यष्टौ गोमयस्य चतुष्टयम् ॥ १,२२२.६५ ॥

क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दश उच्यते ।
घृतस्य माषकाः पञ्च पञ्चगव्यं मलापहम् ॥ १,२२२.६६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रायश्चितकथनं नाम द्वाविंशत्यधिकद्विशततमोऽध्यायः