प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः २३२ गरुडपुराणम्
अध्यायः २३३
वेदव्यासः
आचारकाण्डः, अध्यायः २३४ →

श्रीगरुडमहापुराणम् २३३
सूत उवाच ।
स्तोत्रं तत्सं प्रवक्ष्यामि मार्कण्डेयन भाषितम् ।
दामोदरं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १,२३३.१ ॥

शङ्खचक्रधरं देवं व्यक्तरूपिणमव्ययम् ।
अधोऽक्षजं प्रपन्नोस्मि किन्नो मृत्युः करिष्यति ॥ १,२३३.२ ॥

वराहं वामनं विष्णुं नारसिंहं जनार्दनम् ।
माधवं च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १,२३३.३ ॥

पुरुषं पुष्करक्षेत्रबीजं पुण्यं जगत्पतिम् ।
लोकनाथं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १,२३३.४ ॥

सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् ।
महायोगं प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ १,२३३.५ ॥

भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् ।
विश्वरूपं प्रपन्नोऽस्मि किन्नो मूत्युः करिष्यति ॥ १,२३३.६ ॥

इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनुः ।
अपयातस्ततो मृत्युर्विष्णुदूतैः प्रपीडितः ॥ १,२३३.७ ॥

इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता ।
प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्तिदुर्लभम् ॥ १,२३३.८ ॥

मृत्य्वष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् ।
मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ १,२३३.९ ॥

इदं यः पठते भक्त्या त्रिकालं नियतं शुचिः ।
नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ १,२३३.१० ॥

हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमप्रमेयम् ।
विचिन्त्य सूर्यादतिराजमानं मृत्युं स योगि जितवांस्तथैव ॥ १,२३३.११ ॥

इति श्रीगारुडे महापुराणे मार्कण्डेयकृतं मृत्य्वष्टकस्तोत्रं नाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः