प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः २३४ गरुडपुराणम्
अध्यायः २३५
वेदव्यासः
आचारकाण्डः, अध्यायः २३६ →

श्रीगरुडमहापुराणम् २३५
सूत उवाच वेदान्तसाङ्ख्यसिद्धान्तब्रह्मज्ञानं वदाम्यहम् ।
अहं ब्रह्म परं ज्योतिर्विष्णुरित्येव चिन्तयन् ॥ १,२३५.१ ॥

सूर्ये हृद्व्योम्नि वह्नौ च ज्योतिरेकं त्रिधा स्थितम् ।
यथा सर्पिः शीरस्थं गवां न कुरुते बलम् ॥ १,२३५.२ ॥

निर्गतं कर्मसंयुक्तं दत्तं तासां महा बलम् ।
तथा विष्णुः शरीरस्थो न करोति हितं नणाम् ॥ १,२३५.३ ॥

विनाराधनया देवः सर्वगः परमेश्वरः ।
आरुरुक्षुमतीनां तु कर्मज्ञानमुदाहृतम् ॥ १,२३५.४ ॥

आरूढयोगवृक्षाणां ज्ञानं त्यागं परं मतम् ।
ज्ञातुमिच्छति शब्दादीन्रागो द्वेषोऽथ जायते ॥ १,२३५.५ ॥

लोभो मोहः क्रोध एतैर्युक्तः पापं नरश्चरेत् ।
हस्तावुपस्थमुदरं वाक्चतुर्थो चतुष्टयम् ॥ १,२३५.६ ॥

एतत्सुसंयतं यस्य स विप्रः कथ्यते बुधैः (धः) ।
परवित्तं न गृह्णाति न हिंसां कुरुते तथा ॥ १,२३५.७ ॥

नाक्षक्रीडारतो यस्तु हस्तौ तस्य सुसंयतौ ।
परस्त्रीवर्जनरतस्तस्योपस्थं सुसंयतम् ॥ १,२३५.८ ॥

अलोलुपमिदं भुङ्क्ते जठरं तस्य संयतम् ।
सत्यं हितं मितं ब्रूते यस्माद्वाक्तस्य संयता ॥ १,२३५.९ ॥

यस्य संयतान्येतानि तस्य किं तपसाध्वरैः ।
ऐक्यं यद्बुद्धिमनसोरिन्द्रियाणां च सर्वदा ॥ १,२३५.१० ॥

सबीजं वापि निर्बोजं ध्यानमेतत्प्रकीर्तितम् ।
भ्रुवोर्मध्ये स्थितां बुद्धिं विषयेषु युनक्ति यः ॥ १,२३५.११ ॥

हन्द्रियाणामुपरमे मनसि ह्यव्यवस्थिते ॥ १,२३५.१२ ॥

स्वप्नान्पश्यत्यसौ जीवो बाह्यानाभ्यन्तरानथ ।
जीवो जाग्रदवस्थायामेवमाहुर्विपाश्चितः ॥ १,२३५.१३ ॥

हृदि स्थितः स तमसा मोहितो न स्मरत्यपि ।
यदा तस्य कुतो वेति सुषुप्तिरिति कथ्यते ॥ १,२३५.१४ ॥

जाग्रतो यस्य नो तन्द्रा न मोहो न भ्रमस्तथा ।
उत्पद्यते न जानाति शब्दार्थविषयान्वशी ॥ १,२३५.१५ ॥

इन्द्रियाणि समाहृत्य विषयेभ्यो मनस्तथा ।
बुद्ध्याहङ्कारमपि च प्रकृत्या बुद्धिमेव च ॥ १,२३५.१६ ॥

संयम्य प्रकृतिं चापि चिच्छक्त्या केवले स्थितः ।
पश्यत्यात्मानि चात्मानमात्मनात्मप्रकाशकम् ॥ १,२३५.१७ ॥

चिद्रूपममृतं शुद्धं निष्क्रियं व्यापकं शिवम् ।
तुरीयायामवस्थायामास्थितोऽसौ न संशयः ॥ १,२३५.१८ ॥

शब्दादयो गुणाः पञ्च सत्त्वाद्याश्च गुणास्त्रयः ।
पुर्यष्टकस्य पद्मस्य पत्राण्यष्टौ च तानि हि ॥ १,२३५.१९ ॥

साम्यावस्था गुणकृता प्रकृतिस्तत्र कर्णिका ।
कर्णिकायां स्थितो देवो देही चिद्रूप एव हि ॥ १,२३५.२० ॥

पुर्यष्टकं परित्यज्य प्रकृतिञ्च गुणात्मिकाम् ।
यदा याति तदा जीवो याति मुक्तिं न संशयः ॥ १,२३५.२१ ॥

प्राणायामो जपश्चैव प्रत्याहारोऽथ धारणा ।
ध्यानं समाधिरित्येते षड्योगस्य प्रसाधकाः ॥ १,२३५.२२ ॥

पापक्षये देवतानां प्रीतिरिन्द्रियसंयमः ।
जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः ॥ १,२३५.२३ ॥

षट्त्रिंशन्मात्रकः श्रेष्ठश्चतुर्विंशतिमात्रकः ।
मध्यो द्वादशमात्रस्तु ओङ्कारं सततं जपेत् ॥ १,२३५.२४ ॥

वाचके प्रणवे ज्ञाते वाच्यं ब्रह्म प्रसीदति ।
(ओंनमो विष्णवे).षष्ठाक्षरश्च जप्तव्यो गायत्त्री द्वादशाक्षरी ॥ १,२३५.२५ ॥

सर्वेषामिन्द्रियाणां तु प्रवृतिर्विषयेषु च ।
निवृत्तिर्मनसस्तस्याः प्रत्याहारः प्रकीर्तितः ॥ १,२३५.२६ ॥

इन्द्रियाणीन्द्रियार्थेभ्यः समाहृत्य हितो हि सः ।
सहसा सह बुद्ध्या च प्रत्याहारेषु संस्थितः ॥ १,२३५.२७ ॥

प्राणायामैर्द्वादशभिर्यावत्कालःकृतो भवेत् ।
यस्तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत् ॥ १,२३५.२८ ॥

तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः ।
तुष्येत नियतो युक्तः समाधिः सोऽभीधीयते ॥ १,२३५.२८*१ ॥

ध्यायन्न चलते यस्य मनोभिध्यायतो भृशम् ॥ १,२३५.२९ ॥

प्राप्यावधिकृतं कालं यावत्सा धारणा स्मृता ।
ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति ॥ १,२३५.३० ॥

नान्यं पदार्थं जानाति ध्यानमेतत्प्रकीर्तितम् ।
ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयन् ॥ १,२३५.३१ ॥

यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ।
ध्येयमेव हि सर्वत्र ध्याता तन्मयतां गतः ॥ १,२३५.३२ ॥

पश्यति द्वैतरहितं समाधिः सोऽभिधीयते ।
मनः सङ्कल्परहितमिन्द्रियार्थान्न चिन्तयेत् ॥ १,२३५.३३ ॥

यस्य ब्रह्मणि संलीनं समाधिस्थं तदोच्यते ।
ध्यायतः परमात्मानमात्मस्थं यस्य योगिनः ॥ १,२३५.३४ ॥

मनस्तन्मयतां याति समाधिस्थः स कीर्तितः ।
चित्तस्य स्थिरता भ्रान्तिर्दैर्मनस्यं प्रमादता ॥ १,२३५.३५ ॥

योगिनां कथिता दोषा योगविघ्नप्रवर्तकाः ।
स्थित्यर्थं मनसः सर्वं स्थूलरूपं विचिन्तयेत् ॥ १,२३५.३६ ॥

तद्व्रतं निश्चलीभूतं सूय्यस्थं स्थिरतां व्रजेत् ।
न विना परमात्मानं किञ्चिज्जगति विद्यते ॥ १,२३५.३७ ॥

विश्वरूपं तमेवैकमिति ज्ञात्वा विमुञ्चति ।
ओङ्कारं परमं ब्रह्म ध्यायेदब्जस्थितं विभुम् ॥ १,२३५.३८ ॥

क्षेत्रक्षेत्रज्ञरहितं जपेन्मात्रात्रयान्वितम् ।
हृदि सञ्चिन्तयेत्पूर्वं प्रधानं तस्य चोपरि ॥ १,२३५.३९ ॥

तमो रजस्तथा सत्त्वं मण्डलत्रितयं क्रमात् ।
कृष्णरक्तसितं तस्मिन्पुरुषं जीवसंज्ञितम् ॥ १,२३५.४० ॥

तस्योपरि गुणैश्वर्यमष्टपत्रं सरोरुहम् ।
ज्ञानं तु कर्णिका तत्र विज्ञानं केसराः स्मृताः ॥ १,२३५.४१ ॥

वैराग्यनालं तत्कन्दो वैष्णवो धर्म उत्तमः ।
कर्णिकायां स्थितं तत्र जीववन्निश्चलं विभु ॥ १,२३५.४२ ॥

ध्यायेदुरसि संयुक्तमोङ्कारं मुक्तिसाधकम् ।
ध्यायन्यदि त्यजेत्प्राणान्याति ब्रह्म स्वसन्निधिम् ॥ १,२३५.४३ ॥

हरिं संस्थाप्य देहाब्जे ध्यायन्यो गी च भक्तिभाक् ।
आत्मानमात्मना केचित्पश्यन्ति ध्यानचक्षुषः ॥ १,२३५.४४ ॥

सांख्यबुद्ध्या तथैवान्ये योगेनान्ये तु योगिनः ।
ब्रह्मप्रकाशकं ज्ञानं भवबन्धविभेदनम् ॥ १,२३५.४५ ॥

तत्रैकचित्ततायोगो मुक्तिदो नात्र संशयः ।
जितेन्द्रियात्मकरणो ज्ञानदृप्तो हि यो भवेत् ॥ १,२३५.४६ ॥

स मुक्तः कथ्यते योगी परमात्मन्यवस्थितः ।
आसनस्थानविधयो न योगस्य प्रसाधकाः ॥ १,२३५.४७ ॥

विलम्बजनकाः सर्वे विस्तराः परिकीर्तिताः ।
शिशुपालः सिद्धिमाप स्मरणाभ्यासगौरवात् ॥ १,२३५.४८ ॥

योगाभ्यासं प्रकुर्वन्तः पस्यन्त्यात्मानमात्मना ।
सर्वभूतेषु कारुण्यं विद्वेषं विषयेषु च ॥ १,२३५.४९ ॥

गुप्तशिश्रोदरादिश्च कुर्वन्योगी विमुच्यते ।
इन्द्रियैरिन्द्रियार्थांस्तु न जानाति नरो यदा ॥ १,२३५.५० ॥

काष्ठवद्ब्रह्मसंलीनो योगी मुक्तस्तदा भवेत् ।
सर्ववर्णाः श्रियः सर्वाः कृत्वा पापानि भस्मसात् ॥ १,२३५.५१ ॥

ध्यानाग्निना च मेधावी लभते परमां गतिम् ।
मन्थनाद्दृश्यते ह्यग्निस्तद्वद्ध्यानेन वै हरिः ॥ १,२३५.५२ ॥

ब्रह्मात्मनोर्यदैकत्वं स योगश्चोत्तमोत्तमः ।
बाह्यरूपैर्न मुक्तिस्तु चान्तस्थैः स्याद्यमादिभिः ॥ १,२३५.५३ ॥

साङ्ख्यज्ञानेन योगेन वेदान्तश्रवणेन च ।
प्रत्यक्षतात्मनो या हि सा मुक्तिरभिधीयते ।
अनात्मन्यात्मरूपत्वमसतः सत्स्वरूपता ॥ १,२३५.५४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्मविज्ञानस्वरूपणं नाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः