गरुडपुराणम्/आचारकाण्डः/अध्यायः ७८

← आचारकाण्डः, अध्यायः ७७ गरुडपुराणम्
अध्यायः ७८
वेदव्यासः
आचारकाण्डः, अध्यायः ७९ →

                ॥ सूत उवाच ॥
हुतभुग्रूपमादाय दानवस्य यथेप्सितम् ॥
नर्मदायां निचिक्षेप किञ्चिद्धीनादिभूमिषु ॥ 78.1 ॥

तत्रेन्द्रगोपकलितं शुकवक्रवर्णं संस्थानतः प्रकटपीनसमानमात्रम् ॥
नानाप्रकारविहितं रुधिराक्ष(ख्य) रत्नमुद्धृत्य तस्य खलु सर्वसमानमेव ॥ 78.2 ॥

मध्येन्दुपाण्डुरमतीव विशुद्धवर्णं तच्चेन्द्रनीलसदृशं पटलं तुले स्यात् ॥
सैश्वर्य्यभृत्यजननं कथितं तदैव पक्वञ्च तत्किल भवेत्सुरवज्रवर्णम् ॥ 78.3 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रुधिराक्षरत्नपरीक्षणं नामाष्टसप्ततितमोऽध्यायः ॥ 78 ॥