प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← आचारकाण्डः, अध्यायः ८६ गरुडपुराणम्
अध्यायः ८७
वेदव्यासः
आचारकाण्डः, अध्यायः ८८ →

॥हरिरुवाच ॥

चतुर्दशमनून्वक्ष्ये तत्सुताश्च शुकादिकान् ॥
मनुः स्वायम्भुवः पूर्वमग्निघ्राद्याश्च तत्सुताः ॥ ८७.१ ॥

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥
वसिष्ठश्च महातेजा ऋषयः सप्तकीर्त्तिताः ॥ ८७.२ ॥

जयाख्याशाचमिताख्याश्च शुक्रा यामास्तथैव च ॥
गणा द्वादशकाश्चैति चत्वारः सोमपायिनः ॥ ८७.३ ॥

विश्वभुग्वामदेवेन्द्रो बाष्कलिस्तदरिर्ह्यभूत् ॥
स हतो विष्णुना दैत्यश्चक्रेण सुमहात्मना ॥ ८७.४ ॥

मनुः स्वारोचिषश्चाथ तत्पुत्रो मण्डलेश्वरः ॥
चैत्रको विनतश्चैव कर्णान्तो विद्युतो रविः ॥ ८७.५ ॥

बृहद्गुणो नभश्चैव महाबलपराक्रमः ॥
ऊर्ज स्तम्बस्तथा प्राण ऋषभो निश्चल (र) स्तथा ॥ ८७.६ ॥

दत्तो (म्भो) लिश्चावरीवांश्च ऋष्यः सप्तकीर्त्तिताः ॥
तुषिता द्वादश प्रोक्तास्तथा पारावताश्च ये ॥ ८७.७ ॥

इन्द्रो विपश्चिद्देवानां तद्रिपुः पुरुकृत्सरः ॥
जघान हस्तिरूपेण भगवान्मधुसूदनः ॥ ८७.८ ॥

औत्तमस्य मनोः पुत्रा आजश्च परशुस्तथा ॥
विनीतश्च सुकेतुश्च सुमित्रः सुबलः शुचिः ॥ ८७.९ ॥

देवो देवावृधो रुद्र ! महोत्साहोजितस्तथा ॥
रथौजा ऊर्द्ध्वबाहुश्च शरणश्चानघो मुनिः ॥ ८७.१० ॥

सुतपाः शङ्कुरित्येते ऋषयः सप्त कीर्त्तिताः ॥
वशवर्त्तिस्वधामानः शिवाः सत्याः प्रतर्दनाः ॥ ८७.११ ॥

पञ्च देवगणाः प्रोक्ता सर्वे द्वादशकास्तु ते ॥
इन्द्रः स्वशान्तिस्तच्छुक्रः प्रलम्बो नाम दानवः ॥ ८७.१२ ॥

मत्स्यरूपी हरिर्विष्णुस्तं जघान च दानवम् ॥
तामसस्य मनोः पुत्रा जानुजङ्घोऽथ निर्भयः ॥ ८७.१३ ॥

नवख्यातिर्नयश्चैव प्रियभृत्यो विविक्षिपः ॥
हवुष्कधिः प्रस्तलाक्षः कृबन्धुः कृतस्तथा ॥ ८७.१४ ॥

ज्योतिर्धामा पृथुः (धृष्ट) काव्यश्चैत्रश्चेताग्निहेमकाः (कौ) ॥
मुनयः कीर्त्तिताः सप्त सुरागाः सुधियस्तथा ॥ ८७.१५ ॥

हरयो देवतानां च चत्वारः पञ्च (सप्त) विंशकाः ॥
गणा इन्द्रः शिविस्तस्य शत्रुर्भोमरथाः स्मृताः ॥ ८७.१६ ॥

हरिणा कूर्मरूपेण हतो भीमरथोऽसुरः ॥
रैवतस्य मनोः पुत्रो महा प्राणश्च साधकः ॥ ८७.१७ ॥

वन (ल) बन्धुर्निरमित्रः प्रत्यङ्गः परहा शुचिः ॥
दृढव्रतः केतुश्रृङ्गं ऋषयस्तस्य वर्ण्यते ॥ ८७.१८ ॥

वेदश्रीर्वेदबाहुश्च ऊर्द्ध्वबाहुस्तथैव च ॥
हिरण्यरोमा पर्जन्यः सत्यनेत्रः (नामा) स्वधाम च ॥ ८७.१९ ॥

अभूतरजसश्चैव तथा देवाश्वमेधसः ॥
वैकुण्ठ (ण्ठाः श्चामृत (ता) श्चैव चत्वारो देवतागणाः ॥ ८७.२० ॥

गणे चतुर्दश सुरा विभुरिन्द्रः प्रतापवान् ॥
शान्तः शत्रुर्हतो दैत्यो हंसरूपेण विष्णुना ॥ ८७.२१ ॥

चाक्षुषस्य मनोः पुत्रा उरुः पुरुर्महाबलः ॥
शतद्युम्नस्तपस्वी च सत्यबाहुः(क्यो) कृतिस्तथा ॥ ८७.२२ ॥

अग्निष्णुरतिरात्रश्च सुद्युम्नश्च तथा नरः ॥
हविष्मानुत्तमः श्रीमान्स्व (सु) धामा विरजस्तथा ॥ ८७.२३ ॥

अभिमानः सहिष्णुश्च मधुश्रीऋर्षयः स्मृताः ॥
आर्य्याः प्रसूता भाव्याश्च लेखाश्च पृथुकास्तथा ॥ ८७.२४ ॥

अष्टकस्य गणाः पञ्च तथा प्रोक्ता दिवौकसाम् ॥
इन्द्रो मनोजवः शत्रुर्महाकालो महाभुजः ॥ ८७.२५ ॥

अश्वरूपेण स हतो हरिणा लोकधारिणा ॥
मनोर्वैवस्वतस्येते पुत्रा विष्णुपरायणाः ॥ ८७.२६ ॥

इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च ॥
नरिष्यन्तस्तथा पांशुर्नभो नेदिष्ठ एव च ॥ ८७.२७ ॥

करूषश्च पृषध्रश्च सुद्युम्नश्च मनोः सुताः ॥
अत्रिर्वसिष्ठो भगवाञ्जमदग्निश्च कश्यपः ॥ ८७.२८ ॥

गौतमश्च भरद्वाजो विशामित्रोऽथ सप्तमः ॥
तथा ह्येकोनपञ्चाशन्मरुतः परिकीर्त्तिताः ॥ ८७.२९ ॥

आदित्या वसवः साध्यागणा द्वादशकास्रयः ॥
एकादशा तथा रुद्रा वसवोऽष्टौ प्रकीर्त्तिताः ॥ ८७.३० ॥

द्वावश्विनौ विनिर्दिष्टौ विश्वेदेवास्तथा दशा ॥
दशौवाङ्गिरसो देवा नव देवगणास्तथा ॥ ८७.३१ ॥

तेजस्वी नाम वै शक्रो हिरण्याक्षो रिपुः स्मृतः ॥
हतो वराहरूपेण हरिण्याख्योऽथ विष्णुना ॥ ८७.३२ ॥

वक्ष्ये मनोर्भविष्यस्य सावर्ण्याख्यस्य वै सुतान् ॥
विजयश्चार्ववीरश्च निर्मोहः सत्यवाक्कृतिः ॥ ८७.३३ ॥

वरिष्ठश्च गरिष्ठश्च वाचः सङ्गतिरेव च ॥
अश्वत्थामा कृपो व्यासो गालवो दीप्तिमानथ ॥ ८७.३४ ॥

ऋष्यश्रृङ्गस्तथा राम ऋषयः सप्त कीर्त्तिताः ॥
सुतपा अमृताभाश्च मुख्याश्चापि तथा सुराः ॥ ८७.३५ ॥

तेषां गणस्तु देवाना मेकैको विंशकः स्मृतः ॥
विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥ ८७.३६ ॥

दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् ॥
ऋद्धिमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥ ८७.३७ ॥

वारुणेर्दक्षसावर्णेर्नवमस्य सुताञ्छृणु ॥
धृतिकेतुर्दोप्तिकेतुः पञ्चहस्तो निरामयः ॥
पृथुश्रवा बृहदूद्युम्न ऋचीको बृहतो गुणः ॥ ८७.३८ ॥

मेधातिथिर्द्युतिश्चैव सबलो वसुरेव च ॥
ज्योतिष्मान्हव्यकव्यौ च ऋषयो विभुरीश्वरः ॥ ८७.३९ ॥

परो मरीचिर्गर्भश्च स्व (सु) धर्माणश्च ते त्रयः ॥
देशशत्रु) कालकाक्षस्तद्धन्ता पद्मनाभकः ॥ ८७.४० ॥

(भविष्यन्ति तदा देवा एकैको द्वादशो गणः ॥
तेषामिन्द्रो महावीर्यो भविष्यत्यद्भुतो हर ॥ )
धर्मपुत्रस्य पुत्रांस्तु दशमस्य मनोः श्रृणु ॥
सुक्षेत्रश्चोत्तमौजाश्च भूरिश्रेण्यश्च वीर्य्यवान् ॥ ८७.४१ ॥

शतानीको निरमित्रो वृषसेनो जयद्रथः ॥
भूरिद्युम्नः सुवर्चाश्च शान्तिरिन्द्रः प्रतापवान् ॥ ८७.४२ ॥

अयो (पो) मूर्त्तिर्हविष्मांश्च सुकृतिश्चाव्ययस्तथा ॥
नाभागोऽप्रतिमौजाश्च सौरभ ऋषयस्तथा ॥ ८७.४३ ॥

प्राणाख्याः शतसंख्यास्तु देवतानां गणस्तदा ॥
तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः ॥
बलिः शत्रुस्तं हरिश्च गदया घातयिष्यति ॥ ८७.४४ ॥

रुद्र पुत्रस्य ते पुत्रान्वक्ष्याम्येकादशस्य तु ॥
सर्वत्रगः सुशर्मा च देवानीकः पुरुर्गुरुः ॥ ८७.४५ ॥

क्षेत्रवर्णो दृढेषुश्च आर्द्रकः पुत्रकस्तथा ॥
हविष्मांश्च हविष्यश्च वरुणो विश्वविस्तरौ ॥ ८७.४६ ॥

विष्णुश्चैवाग्नितेजाश्च ऋषयः सप्त कीर्त्तिताः ॥
विहंगमाः कामङ्गमा निर्माणरुचयस्तथा ॥ ८७.४७ ॥

एकैकस्त्रिंशकस्तेषां गणश्चैन्द्रश्च वै वृषः ॥
दशग्रीवो रिपुस्तस्य श्रीरूपी घातयिष्यति ॥ ८७.४८ ॥

मनोस्तु दक्षपुत्रस्य द्वादशस्यात्मजाञ्छृणु ॥
देववानु पदेवश्च देवश्रेष्ठो विदूरथः ॥ ८७.४९ ॥

मित्रवान्मित्रदेवश्च मित्रबिन्दुश्च वीर्य्यवान् ॥
मित्रवाहः प्रवाहश्च दक्षपुत्रमनोः सुताः ॥ ८७.५० ॥

तपस्वी सुतपाश्चैव तपोमूर्त्तिस्तपोरतिः ॥
तपोधृतिर्द्युतिश्चान्यः सप्तमश्च तपोधनाः ॥ ८७.५१ ॥

स्वधर्माणः सुतपसो हरितो रोहितास्तथा ॥
सुरारयो गणाश्चैते प्रत्येकं दशको गणः ॥ ८७.५२ ॥

ऋतधामा च भद्रे (तत्रे) न्द्रस्तारको नाम तद्रिपुः ॥
हरिर्नपुंसको भूत्वा घातयिष्यति शङ्कर ॥ ८७.५३ ॥

त्रयोदशस्य रौच्यस्य मनोः पुत्राम्निबोध मे ॥
चित्रसेनो विचित्रश्च तपोधर्मरतो धृतिः ॥ ८७.५४ ॥

सुनेत्रः क्षेत्रवृत्तिश्च सुनयो धर्मपो दृढः ॥
धृतिमानव्ययश्चैव निशारूपो निरुत्सुकः ॥ ८७.५५ ॥

निर्मोहस्तत्त्वदर्शो च ऋषयः सप्त कीर्त्तिताः ॥
स्व (सु) रोमाणः स्व (सु) धर्माणः स्व (सु) कर्माणस्तथामराः ॥ ८७.५६ ॥

त्रयस्त्रिंशद्विभेदास्ते देवानां तत्र वै गणाः ॥
इन्द्रो दिवस्पतिः शत्रुस्त्विष्टिभो नाम दानवः ॥ ८७.५७ ॥

मायूरेण च रूपेण घातयिष्यति माधवः ॥
चतुर्दशस्य भौत्यस्य श्रृणु पुत्रान्मनोर्मम ॥ ८७.५८ ॥

उरुर्गभीरो धृष्टश्च तरस्वीग्रा (ग्र) ह एव च ॥
अभिमानि प्रवीरश्च जिष्णुः संक्रन्दनस्तथा ॥
तेजस्वी दुर्लभश्चैव भौत्यस्यैते मनोः सुताः ॥ ८७.५९ ॥

अग्नीध्रश्चाग्निबाहुश्च मागधश्च तथा शुचिः ॥
अजितो मुक्तशुक्रौ च ऋषयः सप्त कीर्तिताः ॥ ८७.६० ॥

चाक्षुषाः कर्मनिष्ठाश्च पवित्रा भ्राजिनस्तथा ॥
वचावृथा देवगणाः पञ्च प्रोक्तास्तु सप्तकाः ॥ ८७.६१ ॥

शुचिरिन्द्रो महादैत्यो रिपुहन्ता हरिः स्वयम् ॥
एको देवश्चतुर्द्धा तु व्यासरूपेण विष्णुना ॥ ८७.६२ ॥

कृतस्ततः पुराणानि विद्याश्चाष्टादशैव तु ॥
अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः ॥ ८७.६३ ॥

पुराणं धर्मशास्त्रं च आयुर्वेदार्थशास्त्रकम् ॥
धनुर्वेदश्च गान्धर्वो विद्या ह्यष्टादशैव ताः ॥ ८७.६४ ॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मनुतद्वंशनिरूपणं नाम स्पताशीतितमोऽध्यायः ॥ ८७ ॥