← आचारकाण्डः, अध्यायः ८८ गरुडपुराणम्
अध्यायः ८९
वेदव्यासः
आचारकाण्डः, अध्यायः ९० →


             ॥सूत उवाच ॥
पृष्टः क्रौञ्चुकिनोवाच मार्कण्डेयः पुनश्च तम् ॥
स तेन पितृवाक्यने भृशमुद्वग्नमानसः ॥ 89.1 ॥

कन्याभिलाषी विप्रर्षिः परिबभ्राम मेदिनीम् ॥
कन्यामलभमानोऽसौ पितृवाक्येन दीपितः ॥
चिन्तामवाप महीतमतीवोद्विग्नमानसः ॥ 89.2 ॥

किं करोमि क्व गच्छामि कथं मे दारसंग्रहः ॥
क्षिप्रं भवेन्मत्पितॄणां ममाभ्युदयकारकम् ॥ 89.3 ॥

इति चिन्तयतस्तस्यमतिर्जाता महात्मनः ॥
तपसाराधयाम्येनं ब्रह्माणं कमलोद्भवम् ॥ 89.4 ॥

ततो वर्षशतं दिव्यं तपस्तेपे महामनाः ॥
तत्र स्थितश्चिरं कालं वनेषु नियमस्थितः ॥
आराधनाय स तदा परं नियममास्थितः ॥ 89.5 ॥

ततः प्रदर्शयामास ब्रह्मा लोकपितामहः ॥
उवाचाथ प्रसन्नोऽस्मीत्युच्यतामभिवाञ्छितम् ॥ 89.6 ॥

ततोऽसौ प्रणिपत्याह ब्रह्माणं जगतो गतिम् ॥
पितॄणां वचनात्तेन यत्कर्त्तुमभिवाञ्छितम् ॥ 89.7 ॥

     ॥ ब्रह्मोवाच ॥
प्रजापतिस्त्वं भविता स्रष्टव्या भवता प्रजाः ॥
सृष्ट्वा प्रजाः सुतान्विप्रः समुत्पाद्य क्रियास्तथा ॥ 89.8 ॥

कृत्वा कृताधिकारस्त्वं ततः सिद्धिमवाप्यसि ॥
सत्वं यथोक्तं पितृभिः कुरु दारपरिग्रहम् ॥ 89.9 ॥

कामं चेममभिध्याय क्रियतां पितृपूजनम् ॥
त एव तुष्टाः पितरः प्रदास्यन्ति तवेप्सितम् ॥
पत्नीं सुतांश्च सन्तुष्टाः किं न दद्युः पितामहाः ॥ 89.10 ॥

      ॥ मार्कण्डेय उवाच ॥
इत्यृषिर्वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः ॥
नद्या विविक्ते पुलिने चकार पितृतर्पणम् ॥ 89.11 ॥

तुष्टाव च पितॄन्विप्रः स्तवैरेभिरथादृतः ॥
एकाग्रप्रयतो भूत्वा भक्तिनम्रात्मकन्धरः ॥ 89.12 ॥

॥ रुचिरुवाच ॥
नमस्येऽहं पितॄन् भक्त्या ये वसन्त्यधिदेवतम् ॥
देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ 89.13 ॥

नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः ॥
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥ 89.14 ॥

नमस्येऽहं पितॄन्स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ॥
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ 89.15 ॥

नमस्येऽहं पितॄन् भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि ॥
तन्मयत्वेन वाञ्छद्भिः ऋद्धिमात्यन्तिकीं पराम् ॥ 89.16 ॥

नमस्येऽहं पितॄन्मर्त्यैरर्च्यन्ते भुवि ये सदा ॥
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ 89.17 ॥

नमस्येऽहं पितॄन्विप्रैरर्च्यन्ते भुवि ये सदा ॥
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ 89.18 ॥

नमस्येऽहं पितॄन्ये वै तर्प्यन्तेऽरण्यवासिभिः ॥
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ 89.19 ॥

नमस्येऽहं पितॄन्विप्रैर्नैष्ठिकैर्धर्मचारिभिः ॥
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ॥ 89.20 ॥

नमस्येऽहं पितॄश्राद्धै राजन्यास्तर्पयन्ति यान् ॥
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ 89.21 ॥

नमस्येऽहं पितॄन्वैश्यैरर्च्यन्ते भुवि ये सदा ॥
स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः ॥ 89.22 ॥

नमस्येऽहं पितॄश्राद्धे शूद्रैरपि च भक्तितः ॥
सन्तर्प्यते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ 89.23 ॥

नमस्येऽहं पितॄश्राद्धे पाताले ये महासुरैः ॥
सन्तर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ 89.24 ॥

नमस्येऽहं पितॄश्राद्धैरर्च्यन्ते ये रसातले ॥
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ 89.25 ॥

नमस्येऽहं पितॄश्राद्धैः सर्पैः सन्तर्पितान्सदा ॥
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ 89.26 ॥

पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेऽथ महीतले वा ॥
तथान्तरिक्षे च सुरारिपूज्यास्ते वै प्रतीच्छन्तु मयोपनीतम् ॥ 89.27 ॥

पितॄन्नमस्ये परमार्थभूता ये वै विमाने निवसन्त्यमूर्त्ताः ॥
यजन्ति यानस्तमलैर्मनोभिर्योगीश्वराः क्लेशविमुक्तिहेतून् ॥ 89.28 ॥

पितॄन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ ॥
प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥ 89.29 ॥

तृप्यन्तु तेऽस्मिन्पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् ॥
सुरत्वमिन्द्रत्वमितोऽधिकं वा गजाश्वरत्नानि महागृहाणि ॥ 89.30 ॥

सोमस्य ये रश्मिषु येऽर्कबिम्बे शुक्ले विमाने च सदा वसन्ति ॥
तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैर्गन्धादिना पुष्टिमितो व्रजन्तु ॥ 89.31 ॥

येषां हुतेऽग्नौ हविषा च तृप्तिर्ये भुञ्जते विप्रशरीरसंस्थाः ॥
ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैः ॥ 89.32 ॥

ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दिव्य मनोहरैश्च ॥
कालेन शाकेन महर्षिवर्य्यैः संप्रीणितास्ते मुदमत्र यान्तु ॥ 89.33 ॥

कव्यान्यशेषाणि च यान्यभीष्टान्यतीव तेषां मम पूजितानाम् ॥
तेषाञ्च सान्निध्यमिहास्तु पुष्पगन्धाम्बुभोज्येषु मया कृतेषु ॥ 89.34 ॥

दिने दिने ये प्रतिगृह्णतेऽर्चां मासान्तपूज्या भुवि येऽष्टकासु ॥
ये वत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥ 89.35 ॥

पूज्या द्विजानां कुमुदेन्दुभासो ये क्षत्त्रियाणां ज्वलनार्कवर्णाः ॥
तथा विशां ये कनकावदाता नीलीप्रभाः शूद्रजनस्य ये च ॥ 89.36 ॥

तेऽस्मिन्समस्ता मम पुष्पगन्धधूपाम्बुभोज्यादिनिवेदनेन ॥
तथाग्निहोमेन च यान्ति तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ 89.37 ॥

ये देवपूर्वाण्यभितृप्तिहेतोर श्रन्ति कव्यानि शुभाहृतानि ॥
तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः ॥ 89.38 ॥

रक्षांसि भूतान्यसुरांस्तथोग्रात्रिर्णाशयन्तु त्वशिवं प्रजानाम् ॥
आद्याः सुराणाममरेशपूज्यास्तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मितेभ्यः ॥ 89.39 ॥

अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ॥
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया ॥ 89.40 ॥

अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ॥
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा ॥
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ 89.41 ॥

रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ॥
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ 89.42 ॥

विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः ॥
भूतिदो भूतिकृद् भूतिः पितॄणां ये गणा नव ॥ 89.43 ॥

कल्याणः कल्यदः कर्त्ता कल्यः कल्यतराश्रयः ॥
कल्यताहेतुरन्घः षडिमे ते गणाः स्मृताः ॥ 89.44 ॥

वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ॥
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ 89.45 ॥

महान्महात्मा महितो महिमावान्महाबलः ॥
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥ 89.46 ॥

सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः ॥
पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ॥ 89.47 ॥

एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ॥
त एवात्र पितृगणास्तुष्यन्तु च मदाहितात् ॥ 89.48 ॥

    ॥मार्कण्डेय उवाच ॥
एवं तु स्तुवतस्तस्य तेजसोराशिरुच्छ्रितः ॥
प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ 89.49 ॥

तदॄष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् ॥
जानुभ्यामवनीं गत्वा रुचिः स्तोत्रमिदंजगौ ॥ 89.50 ॥

रुचिरुवाच ॥
अर्चितानाममूर्त्तानां पितॄणां दीप्ततेजसाम् ॥
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ 89.51 ॥

इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ॥
सप्तर्षोणां तथान्येषां तान्नमस्यामि कामदान् ॥ 89.52 ॥

मन्वादीनां च नेतारः सूर्य्याचन्द्रमसोस्तथा ॥
तान्नमस्याम्यहं सर्वान्पितॄनप्युदधावपि ॥ 89.53 ॥

नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा ॥
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ 89.54 ॥

प्रजापतेः कश्यपाय सोमाय वरुणाय च ॥
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ 89.55 ॥

नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ॥
स्वायम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ 89.56 ॥

सोमाधारान्पितृगणान्योगमूर्त्तिधरांस्तथा ॥
नमस्यामि तथा सोमं पितरं जगतामहम् ॥ 89.57 ॥

अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् ॥
अग्निसोममयं विश्वं यत एतदशेषतः ॥ 89.58 ॥

ये च तेजसि ये चैते सोमसूर्य्याग्निमूर्त्तयः ॥
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ 89.59 ॥

तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ॥
नमोनमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः ॥ 89.60 ॥

       ॥मार्कण्डेय उवाच ॥
एवं स्तुतास्ततस्तेन तेजसो मुनिसत्तमाः ॥
निश्चक्रमुस्ते पितरो भासयन्तो दिशोदश ॥ 89.61 ॥

निवेदनञ्च यत्तेन पुष्पगन्धानुलेपनम् ॥
तद्भूषितानथ स तान्ददृशे पुरतः स्थितान् ॥ 89.62 ॥

प्रणिपत्य रुचिर्भक्त्या पुनरेव कृताञ्जलिः ॥
नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः ॥ 89.63 ॥

ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम् ॥
वरं वृणीष्वेति स तानुवाचानतकन्धरः ॥ 89.64 ॥

रुचिरुवाच ॥
प्रजानां सर्गकर्त्तृत्वमादिष्टं ब्रह्मणा मम ॥
सोऽहं पत्नीमभीप्सामि धन्यां दिव्यां प्रजावतीम् ॥ 89.65 ॥

पितर ऊचुः ॥
अत्रैव सद्यः पत्नी ते भवत्वतिमनोरमा ॥
तस्याञ्च पुत्रो भविता भवतो मुनिसत्तम ! ॥ 89.66 ॥

मन्वन्तराधिपो धीमांस्त्वन्नाम्नैवोपलक्षितः ॥
रुचे ! रौच्य इति ख्यातिं प्रयास्यति जगत्त्रये ॥ 89.67 ॥

तस्यापि बहवः पुत्रा महाबलपराक्रमाः ॥
भविष्यन्ति महात्मानः पृथिवीपरिपालकाः ॥ 89.68 ॥

त्वं च प्रजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः ॥
क्षीणाधिकारो धर्मज्ञस्ततः सिद्धिमवाप्स्यसि ॥ 89.69 ॥

स्तोत्रेणानेन च नरो योऽस्मांस्तोष्यति भक्तितः ॥
तस्य तुष्टा वयं भोगानात्मजं ध्यानमुत्तमम् ॥ 89.70 ॥

आयुरारोग्यमर्थं च पुत्रपौत्रादिकं तथा ॥
वांछद्भिः सततं स्तव्याः स्तोत्रेणानेन वै यतः ॥ 89.71 ॥

श्राद्धेषु य इमं भक्त्या त्वस्मत्प्रीतिकरं स्तवम् ॥
पठिष्यति द्विजाग्रयाणां भुंजतां पुरतः स्थितः ॥ 89.72 ॥

स्तोत्रश्रवणसंप्रीत्या सन्निधाने परे कृते ॥
अस्माभिरक्षयं श्राद्धं तद्भविष्यत्यसंशयम् ॥ 89.73 ॥

यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत् ॥
अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा ॥ 89.74 ॥

अश्राद्धार्हैरुपतैरुपहारैस्तथा कृतैः ॥
अकालेऽप्यथ वा देशे विधिहीनमथापि वा ॥ 89.75 ॥

अश्रद्धया वा पुरुषैर्दम्भमाश्रित्य यत्कृतम् ॥
अस्माकं तृप्तये श्राद्धन्तथाप्येतदुदीरणात् ॥ 89.76 ॥

यत्रैतत्पठ्यते श्राद्धे स्तोत्रमस्तत्सुखावहम् ॥
अस्माकं जायते तृप्तिस्तत्र द्वादशावर्षिकी ॥ 89.77 ॥

हेमन्ते द्वादशाब्दानि तृप्तिमेतत्प्रयच्छति ॥
शिशिरे द्विगुणाब्दानि तृप्तिं स्तोत्रमिदं शुभम् ॥ 89.78 ॥

वसन्ते षोडश समास्तृप्तये श्राद्धकर्मणि ॥
ग्रीष्मे च षोडशैवैतत्पठितं तृप्तिकारकम् ॥ 89.79 ॥

विकलेऽपि कृते श्राद्धे स्तोत्रेणानेन साधिते ॥
वर्षासु तृप्तिरस्माकमक्षय्या जायते रुचे ॥ 89.80 ॥

शरत्कालेऽपि पठितं श्राद्धकाले प्रयच्छति ॥
अस्माकमेतत्पुरुषैस्तृप्तिं पंचदशाब्दिकीम् ॥ 89.81 ॥

यस्मिन् गेहे च लिखितमेतत्तिष्ठति नित्यदा ॥
सन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति ॥ 89.82 ॥

तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतां पुरः ॥
श्रावणीयं महाभाग अस्माकं पुष्टिकारकम् ॥ 89.83 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रुचिकृतपितृस्तोत्रं नामैकोननवतितमोऽध्यायः ॥ 89 ॥