← आचारकाण्डः, अध्यायः ९० गरुडपुराणम्
अध्यायः ९१
वेदव्यासः
आचारकाण्डः, अध्यायः ९२ →

           ॥ सूत उवाच ॥
स्वायम्भुवाद्या मुनयो हरिं ध्यायन्ति कर्मणा ॥
व्रताचारार्चनाध्यानस्तुतिजप्यपरायणाः ॥ 91.1 ॥

देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥
आकशेन विहीनं वै तेजसा परिवर्जितम् ॥ 91.2 ॥

उदकेन विहीनं वै तद्धर्मपरिवर्जितम् ॥
पृथिवीरहितं चैव सर्वभूतविवर्जितम् ॥ 91.3 ॥

भूताध्यक्षं तथा बद्धनियन्तारं प्रभुं विभुम् ॥
चैतन्यरूपतारूपं सर्वाध्यक्षं निरञ्जनम् ॥ 91.4 ॥

मुक्तसङ्गं महेशानं सर्वदेवप्रपूजितम् ॥
तेजोरूपमसत्त्वं च तपसा परिवर्जितम् ॥ 91.5 ॥

रहितं रजसा नित्यं व्यतिरिक्तं गुणैस्त्रिभिः ॥
सर्वरूपविहीनं वै कर्तृत्वादिविवर्जितम् ॥ 91.6 ॥

वासनारहितं शुद्धं सर्वदोषविवर्जितम् ॥
पिपासावर्जितं तत्तच्छो कमोहविवर्जितम् ॥ 91.7 ॥

जरामरणहीनं वै कूटस्थं मोहवर्जितम् ॥
उत्पत्तिरहितं चैव प्रलयेन विवर्जितम् ॥ 91.8 ॥

सत्यं सर्वाचारहीनं निष्कलं परमेश्वरम् ॥
जाग्रत्स्वप्नसुषुप्त्यादिवर्जितं नामवर्जितम् ॥ 91.9 ॥

अध्यक्षं जाग्रदादीनां शान्तरूपं सुरेश्वरम् ॥
जाग्रदादिस्थितं नित्यं कार्य्यकारणवर्जितम् ॥ 91.10 ॥

सर्वदृष्टं तथा मूर्त्तं सूक्ष्मं सूक्ष्मतरं परम् ॥
ज्ञानदृक् श्रोत्रविज्ञानं परमानन्दरूपकम् ॥ 91.11 ॥

विश्वेन रहितं तद्वत्तैजसेन विवर्जितम् ॥
प्राज्ञेन रहितञ्चैव तुरीयं परमाक्षरम् ॥ 91.12 ॥

सर्वगोप्तृ सर्वहन्तृ सर्वभूतात्मरूपि च ॥
बुद्धिधर्मविहीनं वै निराधारं शिवं हरिम् ॥ 91.13 ॥

विक्रियारहितं चैव वेदान्तैर्वेद्यमेव च ॥
वेदरूपं परं भूतमिन्द्रियेभ्यः परं शुभम् ॥ 91.14 ॥

शब्देन वर्जितञ्चैव रसेन च विवर्जितम् ॥
स्पर्शेन रहितं देवं रूपमात्रविवर्जितम् ॥ 91.15 ॥

रूपेण रहितञ्चैव गन्धेन परिवर्जितम् ॥
अनादि ब्रह्मरन्ध्रान्तमहं ब्रह्मास्मि केवलम् ॥ 91.16 ॥

एवं ज्ञात्वा महादेवध्यानं कुर्य्याज्जितेन्द्रियः ॥
ध्यानं यः कुरुते ह्येवं स भवेद्बह्म मानवः ॥ 91.17 ॥

इति ध्यानं समाख्यातमश्विरस्य मया तव ॥
अधुना कथयाम्यन्यत्किन्तद्ब्रूहि वृषध्वज ॥ 91.18 ॥

इति श्रीगारुडे महापुराणे प्रथमांशाख्ये आचारकाण्डे हरिध्यानं नामैकनवतितमोऽध्यायः ॥ 91 ॥