← आचारकाण्डः, अध्यायः ९२ गरुडपुराणम्
अध्यायः ९३
वेदव्यासः
आचारकाण्डः, अध्यायः ९४ →

           ॥महेश्वर उवाच ॥
याज्ञवल्क्येन यत्पूर्वं धर्मं प्रोक्तं कथं हरे ! ॥
तन्मे काथय केशिघ्न ! यथा तत्त्वेन माधव ! ॥ 93.1 ॥

हरिरुवाच ॥
याज्ञवल्क्यं नमस्कृत्य मिथिलायां समास्थितम् ॥
अपृच्छन्नॄषयो गत्वा वर्णधर्माद्यशेषतः ॥
तेभ्यः स कथयामास विष्णुं ध्यात्वा जितेन्द्रियः ॥ 93.2 ॥

याज्ञवल्क्य उवाच ॥
यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत ॥
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ॥ 93.3 ॥

वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥
वक्तारो धर्मशास्त्राणां मनुर्विष्णुर्यमोऽङ्गिराः ॥ 93.4 ॥

वसिष्ठदक्षसंवर्त्तशातातपपराशराः ॥
आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती ॥ 93.5 ॥

गौतमः शङ्खलिखितो हारीतोऽत्रिरहं तथा ॥
एते विष्णुं समाराध्य जाता धर्मोपदेशकाः ॥ 93.6 ॥

देशकाल उपायेन द्रव्यं श्रद्धासमन्वितम् ॥
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ 93.7 ॥

इज्याचारो दमोऽहिंसा दानं स्वाध्यायकर्म च ॥
अयं च परमो धर्मो यद्योगेनात्मदर्शनम् ॥ 93.8 ॥

चत्वारो वेदधर्मज्ञाः परास्रैविद्यमेव वा ॥
सा ब्रूते यत्स्वधर्मः स्यादेको वाध्यात्मवित्तमः ॥ 93.9 ॥

ब्रह्मक्षात्त्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ॥
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ॥ 93.10 ॥

गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा ॥
षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म च ॥ 93.11 ॥

अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ॥
षष्ठेऽन्नप्राशनं मासि चूडां कुर्य्याद्यथाकुलम् ॥ 93.12 ॥

एवमेनः शमं याति बीजगर्भसमुद्भवम् ॥
तूष्णीमेताः क्रियाः स्त्रीणां विवाहश्च समन्त्रकः ॥ 93.13 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्म्मनिरूपणं नाम त्रिनवतितमोऽध्यायः ॥ 93 ॥