प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १५ गरुडपुराणम्
अध्यायः १६
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः १७ →

श्रीगरुडमहापुराणम् १६
श्रीभगवानुवाच ।
एवं विलपतस्तस्य प्रेतस्यैवं खगेश्वर ।
क्रन्दमानस्य नितरां पीडितस्य च किङ्करैः ॥ २,१६.१ ॥

सप्तदश दिनान्येको वायुमार्गे विकृष्यते ।
अष्टादशे त्वहोरात्रे पूर्वं याम्यपुरं व्रजेत् ॥ २,१६.२ ॥

तस्मिन्पुरवरे रम्ये प्रेतानां च गणो महान् ।
पुष्पभद्रा नदी तत्रन्यग्रोधः प्रियदर्शनः ॥ २,१६.३ ॥

पुरे स तत्र विश्रामं प्राप्यते यमकिङ्करैः ।
जायापुत्रादिकं सौख्यं स्मरेत्तत्र सुदुः खितः ॥ २,१६.४ ॥

रुदते करुणैर्वाक्यै स्तृषार्तः श्रमपीडितः ।
स्वधनं स्वकलत्राणि गृहं पुत्राः सुखानि च ॥ २,१६.५ ॥

भृत्यमित्राणि चान्यच्च सर्वं शोचति वै तदा ।
क्षुधार्तस्य पुरे तस्मिन्किङ्करैस्तस्य चोच्यते ॥ २,१६.६ ॥

किङ्करा ऊचुः ।
क्व धनं क्व सुता जाया क्व गृहं क्व त्वमीदृशः ।
स्वकर्मोपार्जितं भुङ्क्ष्व चिरं गच्छ महापथे ॥ २,१६.७ ॥

जानासि शंबलवशं बलमध्वगानां नो शंबलः प्रयतते परलोकपान्थ ।
गन्तव्यमस्ति तव निश्चितमेव तेन मार्गेण यत्र भवतः क्रयविक्रयौ न ॥ २,१६.८ ॥

यमदूतोदितं वाक्यं पक्षिन्नैवं त्वया श्रुतम् ।
एवमुक्तस्ततः सर्वैर्हन्यमानः स मुद्गरैः ॥ २,१६.९ ॥

अत्र दत्तं सुतैः पात्रे (त्रैः) स्नेहाद्वा कृपयाथ वा ।
मासिकं पिण्डमश्राति ततः सौरिपुरं व्रजेत् ॥ २,१६.१० ॥

तत्र नाम्ना तु राजा वै जङ्गमः कालरूपधृक् ।
तं दृष्ट्वा भयभीतस्तु विश्रामे कुरुते मतिम् ॥ २,१६.११ ॥

उदकं चान्नसंयुक्तं भुङ्क्ते तस्मिन्पुरे गतः ।
त्रैपक्षिके तु यद्दत्तं तत्पुरं स व्यतिक्रमेत् ॥ २,१६.१२ ॥

नगेन्द्रनगरे रम्ये प्रेतो याति दिवानिशम् ।
गच्छन्वनानि रौद्राणि दृष्ट्वा क्रन्दति तत्र सः ॥ २,१६.१३ ॥

भीषणैः क्लिश्यमानस्तु रुदते च पुनः पुनः ।
मासद्वयावसाने तु तत्पुरं सोऽतिगच्छति ॥ २,१६.१४ ॥

भुक्त्वा चान्नं जलं पीत्वा यद्दत्तं वान्धवैरिह ।
क्लिश्यमानस्ततः पाशैर्नोयते यमकिङ्करैः ॥ २,१६.१५ ॥

तृतीये मासि सम्प्राप्ते गन्धर्वनगरं शुभम् ।
तृतीयं मासिकं भुक्त्वा तत्र गच्छत्यसौ पुरः ॥ २,१६.१६ ॥

शैलागमं चतुर्थे स मासे प्राप्नोति वै पुरम् ।
पाषाणास्तत्र वर्षन्ति प्रेतस्योपरि संस्थिताः ॥ २,१६.१७ ॥

चतुर्थमासिके श्राद्धं भुक्ते तत्र सुखी भवेत् ॥ २,१६.१८ ॥

ततो याति पुरं प्रेतः क्रूरं मासे तु पञ्चमे ।
इह दत्तं सुतैर्भुङ्क्ते प्रेतो वै तत्पुरे स्थितः ।
षष्ठे मासि ततः प्रेतो याति क्रौञ्चाबिधं पुरम् ॥ २,१६.१९ ॥

तत्र दत्तेन पिण्डेन श्राद्धेनाप्यायितः पुरे ।
मुहूर्तार्धं तु विश्रम्य कम्पमानः सुदुः खितः ॥ २,१६.२० ॥

तत्पुरं स व्यतिक्रम्य तर्जितो यमकिङ्करैः ।
प्रयाति चित्रनगरं विचित्रो यत्र पार्थिवः ॥ २,१६.२१ ॥

यमस्यैवानुजः सौरिर्यत्र राज्यं प्रशास्ति हि ।
मासैस्तु पञ्चभिः सार्धैरूपषाण्मासिकं भवेत् ॥ २,१६.२२ ॥

ऊनषाण्मासिकं तत्र भुङ्क्ते याम्यसमाहतः ।
मार्गे पुनः पुनस्तस्य बुभुक्षा पीडयत्यलम् ॥ २,१६.२३ ॥

सन्तिष्ठते मृते कोऽपि मदीयः सुतबान्धवः ।
सौख्यं यो मे जनयति पततः शोकसागरे ॥ २,१६.२४ ॥

एवं मार्गे विलपति वार्यमाणश्च किङ्करैः ।
आयान्ति संमुखास्तत्र कैवर्तास्तु सहस्रशः ॥ २,१६.२५ ॥

वयं ते तर्तुकामाय महावैतरणीं नदीम् ।
शतयोजनविस्तीर्णां पूयशोणितसंकुलाम् ॥ २,१६.२६ ॥

नानाझषसमाकीर्णां नानापक्षिगणैर्वृताम् ।
वयं त्वां तारयिष्यामः सुखेनेति वदन्ति ते ॥ २,१६.२७ ॥

अन्तरं देहि भो पान्थ बहुला चेद्रुचिस्तव ।
तेन तत्र प्रदत्ता गौस्तया नावा प्रसर्पति ।
मनुजानां हितं दानमन्ते वैतरणी स्मृता ॥ २,१६.२८ ॥

परापापं दहेत्सर्वं विष्णुलोकं च सा नयेत् ।
न दत्ता चेत्खगश्रेष्ठ तां समेत्य समज्जति ॥ २,१६.२९ ॥

स्वस्थावस्थे शरीरेऽत्र वैतरण्या व्रतं चरेत् ।
देया च विदुषे धेनुस्तां नदीं तर्तुमिच्छता ॥ २,१६.३० ॥

अवदन्मज्जमानस्तु निन्दत्यात्मानमात्मना ।
पाथेयार्थं मया किञ्चिन्न प्रदत्तं द्विजायच ॥ २,१६.३१ ॥

न दत्तं न हुतं जप्तं न स्नातं न कृतं स्तुतम् ।
यादृशं कर्म चरितं मूढ भुङ्क्ष्वेति तादृशम् ॥ २,१६.३२ ॥

तदैव हृदि संमूढस्ताडितो भाषते भटैः ।
वैतरण्याः परतटे भुङ्क्ते दत्तं घटादिकम् ॥ २,१६.३३ ॥

ऊनषाण्मासिकश्राद्धं भुक्त्वा गच्छति चाग्रतः ।
तार्क्ष्य तत्र विशेषेण भोजयीत द्विजाञ्छुभान् ॥ २,१६.३४ ॥

चत्वारिंशत्तथा सप्त योजनानि शतद्वयम् ।
प्रयाति प्रत्यहं तार्क्ष्य अहोरात्रेण कर्शितः ॥ २,१६.३५ ॥

सप्तमे मासि सम्प्राप्ते पुरं बह्वापदं व्रजेत् ।
तत्र भुक्त्व प्रदत्तं यच्छ्राद्धं सप्तममासिकम् ॥ २,१६.३६ ॥

अष्टमे मासि सम्प्राप्ते नानाक्रन्दपुरं व्रजेत् ।
नानाक्रन्दगणान्दृष्ट्वा क्रन्दमानान्सुदारुणम् ॥ २,१६.३७ ॥

स्वयं च शून्यहृदयः समाक्रन्दति दुः खितः ।
तन्मासिकं च यच्छ्राद्धं भुक्त्वा तत्र सुखी भवेत् ॥ २,१६.३८ ॥

विहाय तत्पुरं प्रेतो याति तप्तपुरं प्रति ।
सुतप्तनगरं प्राप्य नवमे मासि सोऽश्नुते ।
द्विजभोज्यं पिण्डदानं कृतं श्राद्धं सुतेन यत् ॥ २,१६.३९ ॥

मासि वै दशमे प्राप्ते रौद्रं स्थानं स गच्छति ।
दशमे मासि यद्दत्तं तद्भुक्त्वा च प्रयाति सः ॥ २,१६.४० ॥

दशैकमासिकं भुक्त्वा पयोवर्षणमृच्छति ।
मेघास्तत्र प्रवर्षन्ति प्रेतानां दुः खदायकाः ॥ २,१६.४१ ॥

(ततः प्रचलितो पोतो बहुर्घमतृषार्दितः) ।
द्वादशे मासि यच्छ्राद्धं तत्र भुङ्क्ते सुदुः शितः ॥ २,१६.४२ ॥

किञ्चिन्न्यूने ततो वर्षे सार्धे चैकादशेऽथ वा ।
याति शीतपुरं तत्र शीतं यत्रातिदुः खदम् ॥ २,१६.४३ ॥

शीतार्तः क्षुधितः सोऽथ वीक्षते हि दिशो दश ।
तिष्ठेत्तु बान्धवः कोऽपि यो मे दुःखं व्यपोहति ॥ २,१६.४४ ॥

किङ्करास्तं वदन्त्येवं क्व ते पुण्यं हि तादृशम् ।
श्रुत्वा तेषां तु तद्वाक्यं हा दैव इति भाषते ॥ २,१६.४५ ॥

दैवं हि पूर्वसुकृतं तन्मया नैव सञ्चितम् ।
एवं सञ्चिन्त्य बहुशो धैर्यमालम्बते पुनः ॥ २,१६.४६ ॥

चत्वारिंशद्योजनानि चतुर्युक्तानि वै ततः ।
धर्मराजपुरं रम्यं गन्धर्वाप्सराकुलम् ॥ २,१६.४७ ॥

चतुरशीतिलक्षैश्च मूर्तामूर्तैरधिष्ठितम् ।
त्रयोदश प्रतीहारा धर्मराजपुरे स्थिताः ॥ २,१६.४८ ॥

शुभाशुभं तु यत्कर्म ते विचार्य पुनः पुनः ।
श्रवणा ब्रह्मणः पुत्रा मनुष्याणां च चेष्टितम् ।
कथयन्ति तदा लोके पूजिताः पूजिताः स्वयम् ॥ २,१६.४९ ॥

नरैस्तुष्टैश्च पुष्टैश्च यत्प्रोक्तं च कृतं च यत् ।
सर्वमावेदयन्ति स्म चित्रगुप्ते यमे च तत् ॥ २,१६.५० ॥

दूराच्छ्रवणविज्ञाना दूराद्दर्शनगोचराः ।
एवञ्चेष्टास्तु ते ह्यष्टौ स्वर्भूपातालचारिणः ॥ २,१६.५१ ॥

तेषां पत्न्यस्तथै वोग्रा श्रवण्यः पृथगाह्वयाः ।
एवं तेषां शक्तिरस्ति यर्त्ये मर्त्याधिकारिणः ॥ २,१६.५२ ॥

व्रतैर्दानैस्तवैर्यश्च पूजयेदिह मानवः ।
जायन्ते तस्य ते सौम्याः सुखमृत्युप्रदायिनः ॥ २,१६.५३ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे प्रेतयात्रादिनिरूपणं नाम षोडशोऽध्यायः