प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २१ गरुडपुराणम्
अध्यायः २२
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २३ →


श्रीगरुडमहापुराणम् २२
गरुड उवाच ।
सम्भवन्ति कथं प्रेताः केन तेषां गतिर्भवेत् ।
कीदृक्तेषां भवेद्रूपं भोजनं किं भवेत्प्रभो ॥ २,२२.१ ॥

सुप्रीतास्ते कथं प्रेताः क्व तिष्ठन्ति सुरेश्वर ।
प्रसन्नः कृपया देव प्रश्रमेनं वदस्व मे ॥ २,२२.२ ॥

श्रीभगवानुवाच ।
पापकर्मरता ये वै पूर्वकर्मवशानुगाः ।
जायन्ते ते मृताः प्रेतास्ताञ्छृणुष्व वदाम्यहम् ॥ २,२२.३ ॥

वापीकूपतडागांश्च आरामं सुरमन्दिरम् ।
प्रपां सद्म सुवृक्षांश्च तथा भोजनशालिकाः ॥ २,२२.४ ॥

पितृपैतामहं धर्मं किक्रीणाति स पापभाक् ।
मृतः प्रेतत्वमाप्नोति यावदाभूतसंप्लवम् ॥ २,२२.५ ॥

गोचरं ग्रामसीमां तडागारामगह्वरम् ।
कर्षयन्ति च ये लोभात्प्रेतास्ते वै भवन्ति हि ॥ २,२२.६ ॥

चण्डालादुदकात्सर्पाद्ब्राह्मणाद्बैद्युताग्नितः ।
दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् ॥ २,२२.७ ॥

उद्बन्धनमृता ये च विषशस्त्रहताश्च ये ।
आत्मोपघातिनो ये च विषूच्यादिहतास्तथा ॥ २,२२.८ ॥

महारोगैर्मृता ये च पापरोगैश्च दस्युभिः ।
असंस्कृतप्रमीता ये विहिताचारवर्जिताः ॥ २,२२.९ ॥

वृषोत्सर्गादिलुप्ताश्चलुप्तमासिकपिण्डकाः ।
यस्यानयति शूद्रोग्निं तृणकाष्ठहवींषि सः ॥ २,२२.१० ॥

पतनात्पर्वतानां च भित्तिपातेन ये मृताः ।
रजस्वलादिदोषैश्च न च भूमौ मताश्च ये ॥ २,२२.११ ॥

अन्तरिक्षे मृता ये च विष्णुस्मरणवर्जिताः ।
सूतकैः श्वादिसंपर्कैः प्रेतभावा इह क्षितौ ॥ २,२२.१२ ॥

एवमादिभिरन्यैश्च कुमृत्युवशगाश्च ये ।
ते सर्वे प्रेतयोनिस्था विचरन्ति मरुस्थले ॥ २,२२.१३ ॥

मातरं भगिनीं भार्यां स्नुषां दुहितरं तथा ।
अदृष्टदोषां त्यजति स प्रेतो जायतेध्रुवम् ॥ २,२२.१४ ॥

भ्रातृध्रुग्ब्रह्महा गोघ्नः सुरापो गुरुतल्पगः ।
हेमक्षौमहरस्तार्क्ष्य स वै प्रेतत्वमाप्नुयात् ॥ २,२२.१५ ॥

न्यासापहर्ता मित्रध्रुक्परदाररतस्तथा ।
विश्वासघाती क्रूरस्तु स प्रेतो जायते ध्रुवम् ॥ २,२२.१६ ॥

कुलमार्गांश्च सन्त्यज्य परधर्मरतस्तथा ।
विद्यावृत्तविहीनश्च स प्रेतो जायतेध्रुवम् ॥ २,२२.१७ ॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
युधिष्ठिरस्य संवादं भीष्मेण सह सुव्रत ।
तदहं कथयिष्यामि यच्छ्रुत्वा सौख्यमाप्नुयात् ॥ २,२२.१८ ॥

युधिष्ठिर उवाच ।
केन कर्मविपाकेन प्रेतत्वमुपजायते ।
केन वा मुच्यते कस्मात्तन्मे ब्रूहि पितामह ।
यच्छ्रुत्वा न पुनर्मोहमेवं यास्या मि सुव्रत ॥ २,२२.१९ ॥

भीष्म उवाच ।
येनैव जायते प्रेतो येनैव स विमुच्यते ।
प्राप्नोति नरकं घोरं दुस्तरं दैवतैरपि ॥ २,२२.२० ॥

सततं श्रवणाद्यस्य पुण्यश्रवणकीर्तनात् ।
मानवा विप्रमुच्यन्ते आपन्नाः प्रेतयोनिषु ॥ २,२२.२१ ॥

श्रूयते हि पुरा वत्स ब्राह्मणः शंसितव्रतः ।
नाम्ना सन्तप्तकः ख्यात स्तपोर्ऽथे वनमाश्रितः ॥ २,२२.२२ ॥

स्वाध्याययुक्तो होमेन यो (या) गयुक्तो दयान्वितः ।
यजन्स सकलान्यज्ञान्युक्त्या कालं च विक्षिपन् ॥ २,२२.२३ ॥

ब्रहामचर्यसमायुक्तो युक्तस्तपसि मार्दवे ।
परलोकभयोपेतः सत्यशौचैश्च निर्मलः ॥ २,२२.२४ ॥

युक्तोऽहि गुरुवाक्येन युक्तश्चातिथिपूजने ।
आत्मयोगे सदोद्युक्तः सर्वद्वन्द्वविवर्जितः ॥ २,२२.२५ ॥

योगाभ्यासे सदा युक्तः संसारविजिगीषया ।
एवंवृत्तः सदाचारो मोक्षकाङ्क्षी जितेन्द्रियः ॥ २,२२.२६ ॥

बहून्यब्दानि विजने वने तस्य गतानि वै ।
तस्य बुद्धिस्ततो जाता तीर्थानुगमनं प्रति ॥ २,२२.२७ ॥

पुण्यैस्तीर्थजलैरेव शोषयिष्ये कलेवरम् ।
स तीर्थेत्वरितं स्नात्वा तपस्वी भास्करोदये ।
कृतजाप्यनमस्कारो ह्यध्वानं प्रत्यपद्यत ॥ २,२२.२८ ॥

एकस्मिन्दिवसे विप्रो मार्गभ्रष्टो महातपाः ।
ददर्शाध्वनि गच्छन्स पञ्च प्रेतान् सुदारुणान् ॥ २,२२.२९ ॥

अरण्ये निर्जने देशे संकटे वृक्षवर्जिते ।
पञ्चैतान्विकृताकारान्दृष्ट्वा वै घोरदर्शनान् ।
ईषत्सन्त्रस्तहृदयोऽतिष्ठदुन्मील्य लोचने ॥ २,२२.३० ॥

अवलम्ब्य ततो धैर्यं भयमुत्सृज्य दूरतः ।
पप्रच्छ मधुराभाषी के यूयं विकृताननाः ॥ २,२२.३१ ॥

किञ्चाशुभं कृतं कर्म येन प्राप्ताः स्थ वैकृतम् ।
कथं वा चैकतः कर्म प्रस्थिताः कुत्र निश्चितम् ॥ २,२२.३२ ॥

प्रेतराज उवाच ।
स्वैः स्वैस्तु कर्मभिः प्राप्तं प्रेतत्वं हि द्विजोत्तम ।
परद्रोहरताः सर्वे पापमृत्युवशं गताः ॥ २,२२.३३ ॥

क्षुत्पिपासार्दिता नित्यं प्रेतत्वं समुपागताः ।
हतवाक्या हतश्रीका हत संज्ञा विचेतसः ॥ २,२२.३४ ॥

न जानीमो दिशं तात विदिशं चातिदुः खिताः ।
क्व नु गच्छामहे मूढाः पिशाचाः कर्मजा वयम् ॥ २,२२.३५ ॥

न माता न पितास्माकं प्रेतत्वं कर्मभिः स्वकैः ।
प्राप्ताः स्म सहसा जातदुः खोद्वेगसमाकुलम् ॥ २,२२.३६ ॥

दर्शनेन च ते ब्रह्मन्मुदिताप्यायिता वयम् ।
मुहूर्तन्तिष्ठ वक्ष्यामि वृत्तान्तं सर्वमादितः ॥ २,२२.३७ ॥

अहं पर्युषितो नाम एष सूचीमुखस्तथा ।
शीघ्रगो रोघ (ह) कश्चैव पञ्चमो लेखकः स्मतृतः ॥ २,२२.३८ ॥

एवं नाम्ना च सर्वे वै संप्राप्ताः प्रेततां वयम् ।
ब्राह्मण उवाच ।
प्रेतानां कर्मजातानां कथं वै नामसम्भवः ।
किञ्चित्कारणमुदिश्य येन ब्रूयाः स्वनामकान् ॥ २,२२.३९ ॥

प्रेतराज उवाच ।
मया स्वादु सदा भुक्तं दत्तं पर्युषितं द्विज ॥ २,२२.४० ॥

शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै ।
एतत्कारणमुद्दिश्य नाम पर्युषितं मम ॥ २,२२.४१ ॥

शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै ।
एतत्कारणमुद्दिश्य शीघ्रगोऽयं द्विजोत्तम ॥ २,२२.४२ ॥

सूचिता बहवोऽनेन विप्रा अन्नाधिकाङ्क्षया ।
एतत्कारणमुद्दिश्य एष सूचिमुखः स्मृतः ॥ २,२२.४३ ॥

एकाकी मिष्टमश्राति पोष्यवर्गमृते सदा ।
ब्राह्मणानामभावेन रोध (ह) कस्तेन चोच्यते ॥ २,२२.४४ ॥

पुरायं मौनमास्थाय याचितो विलिखेद्भुवम् ।
तेन कर्मविपाकेन लेखको नाम चोच्यते ॥ २,२२.४५ ॥

प्रेतत्वं कर्मभावेन प्राप्तं नामानि च द्विज ।
मेषाननो लेखकोऽयं रोध (ह) कः पर्वताननः ॥ २,२२.४६ ॥

शीघ्रगः पुशुवक्त्रश्च सूचकः सूचिवक्त्रवान् ।
दुःखिता नितरां स्वमिन्पश्य रूपविपर्ययम् ॥ २,२२.४७ ॥

कृत्वा मायामयं रूपं विचरामो महीतले ।
सर्वे च विकृताकारा लम्बोष्ठा विकृताननाः ॥ २,२२.४८ ॥

बृहच्छरीरिणो रौद्रा जाताः स्वेनैव कर्मणा ।
एतत्ते सर्वमाख्यातं प्रेतत्वे कारणं मया ॥ २,२२.४९ ॥

ज्ञानिनोऽपि वयं सर्वे जाताः स्म तव दर्शनात् ।
यत्र ते श्रवणे श्रद्धा तत्पृच्छ कथयामि ते ॥ २,२२.५० ॥

ब्राह्मण उवाच ।
ये जीवा भुवि जीवन्ति सर्वेऽप्याहारमूलकाः ।
युष्माकमपिचाहारं श्रोतुमिच्छामि तत्त्वतः ॥ २,२२.५१ ॥

प्रेता ऊचुः ।
यदि ते श्रवणे श्रद्धा आहाराणां द्विजोत्तम ।
अस्माकं तु महीभाग शृणुत्वं सुसमाहितः ॥ २,२२.५२ ॥

ब्राह्मण उवाच ।
कथयन्तु महाप्रेता आहारं च पृथक्पृथक् ।
इत्युक्तां ब्राह्मणेनेममूचुः प्रेताः पृथकपृथक् ॥ २,२२.५३ ॥

प्रेता ऊचुः ।
शृणु चाहारमस्माकं सर्वसत्त्बविगर्हितम् ।
यच्छ्रुत्वा गर्हसे ब्रह्मन् भूयोभूयश्च गर्हितम् ॥ २,२२.५४ ॥

श्लेष्ममूत्रपुरीषोत्थं शरीराणां मलैः सह ।
उच्छिष्टैश्चैव चान्यैश्च प्रेतानां भोजनं भवेत् ॥ २,२२.५५ ॥

गृहाणि चाप्यशौचानि प्रकीर्णोपस्कराणि च ।
मलिनानि प्रसूतानि प्रेता भुञ्जन्ति तत्र वै ॥ २,२२.५६ ॥

नास्ति सत्यं गृहे यत्र न शौचं न च संयमः ।
पतितैर्दस्युभिः सङ्गः प्रेता भुञ्जन्ति तत्र वै ॥ २,२२.५७ ॥

बलिमन्त्रविहीनानि होमहीनानि यानि च ।
स्वाध्याय व्रतहीनानि प्रेता भुञ्जन्ति तत्र वै ॥ २,२२.५८ ॥

न लज्जा न च मर्यादा यदात्र स्त्रीजितो गृही ।
गुरवो यत्र पूज्या न प्रेता भुञ्जन्ति तत्र वै ॥ २,२२.५९ ॥

यत्र लोभस्तथा क्रोधो निद्रा शोको भयं मदः ।
आलस्यं कलहो नित्यं प्रेता भुञ्जन्ति तत्र वै ॥ २,२२.६० ॥

भर्तृहीना च या नारी परवीर्यं निषेवते ।
बीजं मूत्रसमायुर्क्त प्रेता भुञ्जन्ति तत्तु वै ॥ २,२२.६१ ॥

लज्जा मे जायते तात वदतो भोजनं स्वकम् ।
यत्स्त्रीरजो योनिगतं प्रेता भुञ्जन्ति तत्तु वै ॥ २,२२.६२ ॥

निर्विण्णाः प्रेतभावेन पृच्छामि त्वां दृढव्रत ।
यथा न भविता प्रेतस्तन्मे वद तपोधन ।
नित्यं मृत्युर्वरं जन्तोः प्रेतत्वं मा भवेत्क्वचित् ॥ २,२२.६३ ॥

ब्राह्मण उवाच ।
उपवासपरो नित्यं कृच्छ्रचान्द्रायणे रतः ।
व्रतैश्च विविधैः पूतो न प्रेतो जायते नरः ॥ २,२२.६४ ॥

एकादश्यां व्रतं कुर्वञ्जागरेण समन्वितम् ।
अपरैः सुकृतैः पूतो न प्रेतो न प्रेतो जायते नरः ॥ २,२२.६५ ॥

इष्ट्वा वै वाश्वमेधादीन्दद्याद्दानानि यो नरः ।
आरामोद्यानवाप्यादेः प्रपायाश्चैव कारकः ॥ २,२२.६६ ॥

कुमारीं ब्राह्मणानां तु विवाहयति शक्तितः ।
विद्यादोऽभयदश्चैव न प्रेतो जायते नरः ॥ २,२२.६७ ॥

शूद्रान्नेन तु भुक्तेन जठरस्थेन यो मृतः ।
दुर्मृत्युना मृतो यश्च स प्रेतो जायते नरः ॥ २,२२.६८ ॥

अयाज्ययाजकश्चैव याज्यानां च विवर्जकः ।
कारुभिश्च रतो नित्यं स प्रेतो जायते नरः ॥ २,२२.६९ ॥

कृत्वा मद्यपसम्पर्कं मद्यपस्त्रीनिषेवणम् ।
अज्ञानाद्भक्षयन्मांसं स प्रेतो जायते नरः ॥ २,२२.७० ॥

देवद्रव्यं च ब्रह्मस्वं गुरुद्रव्यं तथैव च ।
कन्यां ददाति शुल्केन स प्रेतो जायते नरः ॥ २,२२.७१ ॥

मातरं भगिनीं भार्यां स्नुषां दुहितरं तथाः ।
अदृष्टदोषास्त्यजति स प्रेतो जादृ ॥ २,२२.७२ ॥

न्यासापहर्ता मित्रध्रुक्परदाररतः सदा ।
विश्वासघाती कूटश्च स प्रेदृ ॥ २,२२.७३ ॥

भ्रातृध्रुग्ब्रह्महा गोघ्नः सुरापो गुरुतल्पगः ।
कुलमार्गं परित्यज्य ह्यनृतोक्तौ सदा रतः ।
हर्ता हेम्नश्च भूमेश्च स प्रेदृ ॥ २,२२.७४ ॥

भीष्म उवाच ।
एवं ब्रुवति वै विप्रे आकाशे दुन्दुभिस्वनः ।
अपतत्पुष्पवर्षं च देवर्मुक्तं द्विजोपरि ॥ २,२२.७५ ॥

पञ्च देवविमानानि प्रेतानामागतानि वै ।
स्वर्गं गता विमानैस्ते दिव्यैः संपृच्छ्य तं मुनिम् ॥ २,२२.७६ ॥

ज्ञानं विप्रस्य सम्भाषात्पुण्यसंकीर्तनेन च ।
प्रेताः पापविनिर्मुक्ताः परं पदमवाप्नुयुः ॥ २,२२.७७ ॥

सूत उवाच ।
इदमाख्यानकं श्रुत्वा कम्पितोऽश्वत्थपत्रवत् ।
मानुषाणां हितार्थाय गरुडः पृष्टवान्पुनः ॥ २,२२.७८ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे भीष्म युधिष्ठिरसंवादे प्रेतत्वोत्पत्तितन्मुक्तिपेञ्चप्रेतोपाख्यान निरूपणं नाम द्वाविंशोऽध्यायः