प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २३ गरुडपुराणम्
अध्यायः २४
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २५ →

श्रीगरुडमहापुराणम् २४
गरुड उवाच ।
नाकाले म्रियते कश्चिदिति वेदानुशासनम् ।
कस्मान्मृत्युमवाप्नोति राजा वा श्रोत्रियोपि वा ॥ २,२४.१ ॥

यदुक्तं ब्राह्मणा पूर्वमनृतं तद्धि दृश्यते ।
वेदैरुक्तं तु यद्वाक्यं शतं जीवति मानुषे ॥ २,२४.२ ॥

जीवन्ति मानुषे लोके सर्वे वर्णा द्विजातयः ।
अन्त्यजाम्लेच्छजाश्चैव खण्डे भारतसंज्ञके ॥ २,२४.३ ॥

न दृश्यते कलौ तच्च कस्माद्देव समादिश ।
(आधानान्मृत्युमाप्नोति बालो वा स्थविरो युबा ॥ २,२४.४ ॥

सधनो निर्धनो वापि सुकुमारः सुरूपवान् ।
अविद्वांश्चैव विद्वांश्च ब्राह्मणस्त्वितरो जनः ॥ २,२४.५ ॥

तपोरतो योगशीलो महाज्ञानी च यो नरः ।
सर्वज्ञानरतः श्रीमान्धर्मात्मातुलविक्रमः ॥ २,२४.६ ॥
)
सर्वमेतदशषेण जायते वसुधातले ।
कस्मान्मृत्युमवाप्नोति राजा वा श्रोत्रियोऽपि वा ॥ २,२४.७ ॥

श्रीभगवानुवाच ।
साधुसाधु महाप्राज्ञ यस्त्वं भक्तोऽसि मे प्रियः ।
श्रूयतां वचनं गुह्यं नानादेशविनाशनम् ॥ २,२४.८ ॥

विधातृविहितो मृत्युः शीघ्रमादाय गच्छति ।
ततो वक्ष्यामि पक्षीन्द्र काश्यपेय महाद्युते ॥ २,२४.९ ॥

मानुषः शतजीवीति पुरा वेदेन भाषितम् ।
विकर्मणः प्रभावेण शीघ्रं चापि विनश्यति ॥ २,२४.१० ॥

वेदानभ्यसनेनैव कुलाचारं न सेवते ।
आलस्यात्कर्मणां त्यागो निषिद्धेऽप्यादरः सदा ॥ २,२४.११ ॥

यत्र तत्र गृहेऽश्राति परक्षेत्ररतस्तथा ।
एतैरन्यैर्महादोषैर्जायते चायुषः क्षयः ॥ २,२४.१२ ॥

अश्रद्दधानमशुचिं नास्तिकं त्यक्तमङ्गलम् ।
परद्रोहानृतरं ब्राह्मणं यत (म) मन्दिरम् ॥ २,२४.१३ ॥

अरक्षितारं राजानं नित्यं धर्मविवर्जितम् ।
क्रूरं व्यसनिनं मूर्खं वेदवादबहिष्कृतम् ।
प्रजापीडनकर्तारं राजानं यमशासनम् ॥ २,२४.१४ ॥

प्रापयन्ति वशं मृत्योस्ततो याति च यातनाम् ।
स्वकर्माणि परित्यज्य मुख्यवृत्तानि यानि च ॥ २,२४.१५ ॥

परकर्मरतो नित्यं यमलोकं स गच्छति ।
शूद्रः करोतिः यत्किञ्चिद्विजशुश्रूषणं विना ॥ २,२४.१६ ॥

उत्तमाधममध्ये वा यमलोके स पच्यते ।
स्नानं दानं जपो होमो स्वाध्यायो दवर्ताच्चनम् ॥ २,२४.१७ ॥

यस्मिन्दिने न सेव्यन्ते स वृथा दिवसो नृणाम् ।
अनित्यमध्रुवं देहमनाधारं रसोद्भवम् ॥ २,२४.१८ ॥

अन्नोदकमये देहे गुणानेतान्वदाम्यहम् ।
यत्प्रातः संस्कृतं सायं नूनमन्नं विनश्यति ॥ २,२४.१९ ॥

तदीयरससम्पुष्टकाये का बत नित्यता ।
गतं ज्ञात्वा तु पक्षीन्द्र वपुरर्धं स्वकर्मभिः ॥ २,२४.२० ॥

नरः पापविनाशाय कुर्वीत परमौषधम् ।
देहः किमन्नदातुः स्विन्निषेक्तुर्मातुरेव वा ॥ २,२४.२१ ॥

उभयोर्वा प्रभोर्वापि बालनोग्नेः शुनोऽपि वा ।
कस्तत्र परमो यज्ञः कृमिविड्भस्मसंज्ञके ॥ २,२४.२२ ॥

कर्तव्यः परमो यत्नः पातकस्य विनाशने ।
अनेकभवसम्भूतं पातकं तु त्रिधा कृतम् ॥ २,२४.२३ ॥

यदा प्राप्नोति मानुष्यं तदा सर्वं तपत्यपि ।
सर्वजन्मानि संस्मृत्य विषादी कृतचेतनः ॥ २,२४.२४ ॥

अवेक्ष्य गर्भवासांश्च कर्मजा गतयस्तथा ।
मानुषोदरवासी चेत्तदा भवति पातकी ॥ २,२४.२५ ॥

अण्डजादिषु भूतेषु यत्रयत्र प्रसर्पति ।
आधयो व्याधयः क्लेशा जरारूपविपर्ययः ॥ २,२४.२६ ॥

गर्भवासाद्विनिर्मुक्तस्त्वज्ञानतिमिरावृतः ।
न जानातिः खगश्रेष्ठ बालभावं समाश्रितः ॥ २,२४.२७ ॥

यौवने तिमिरान्धश्च यः पश्यति स मुक्तिभाक् ।
आधानान्मृत्युमाप्नोति बालो वा स्थविरो युवा ॥ २,२४.२८ ॥

सधनो निर्धनश्चैव सुकुमारः कुरूपवान् ।
अविद्वांश्चैव विद्वांश्च ब्राह्मणास्त्वितरो जनः ॥ २,२४.२९ ॥

तपोरतो योगशीलो महाज्ञानी च यो नरः ।
महादानरतः श्रीमान्धर्मात्मातुलविक्रमः ।
विना मानुपदेहं तु सुखं दुः खं न विन्दति ॥ २,२४.३० ॥

प्राकृतैः कर्मपाशैस्तु मृत्युमाप्नोति मानवः ।
आधानात्पञ्च वर्षाणि स्वल्पपापैर्विपच्यते ॥ २,२४.३१ ॥

पञ्चवर्षाधिको भूत्वा महापापैर्विपच्यते ।
योनिं पूरयते यस्मान्मृतोऽप्यायाति याति च ॥ २,२४.३२ ॥

मृतो दानप्रभावेण जीवन्मर्त्यश्चिरं भुवि ।
सूत उवाच ।
इति कृष्णवचः श्रुत्वा गरुडो वाक्यमब्रवीत् ॥ २,२४.३३ ॥

गरुड उवाच ।
मृते बाले कथं कुर्यात्पिण्डदानादिकाः क्रियाः ।
गर्भेषु च विपन्नानामाचूडाकरणाच्छिशोः ॥ २,२४.३४ ॥

कथं किं केन दातव्यं मृतान्ते को विधिः स्मृतः ।
गरुडोक्तमिति श्रुत्वा विष्णुर्वाक्यमथाब्रवीत् ॥ २,२४.३५ ॥

श्रीविष्णुरुवाच ।
यदि गर्भो विपद्यते स्त्रवते वापि योषितः ।
यावन्मासं स्थितो गर्भस्तावद्दिनमशौचकम् ॥ २,२४.३६ ॥

तस्य किञ्चिन्न कर्तव्यमात्मनः श्रेय इच्छता ।
ततो जाते विपन्ने तु आ चूडाकरणाच्छिशोः ॥ २,२४.३७ ॥

दुग्धं भोज्यं ताशक्ति बालानां च प्रदीयते ।
आ चूडात्पञ्चवर्षे तु देहदाहो विधीयते ॥ २,२४.३८ ॥

दुग्धं तस्य प्रदेयं स्याद्बालानां भोजनं शुभम् ।
पञ्चवर्षाधिके प्रेते स्वजातिविहितानि च ॥ २,२४.३९ ॥

कुर्यात्कर्माणि सर्वाणि चोदकुम्भादि पायसम् ।
दातव्यं तु खगश्रेष्ठ ऋणसम्बन्धकस्तु सः ॥ २,२४.४० ॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
कर्तव्यं पक्षिशार्दूल पुनर्देहक्षयाय वै ॥ २,२४.४१ ॥

तस्मै यद्रोचते देयमदत्त्वा निर्धने कुले ।
स्वल्पायुर्निर्धनो भूत्वा रतिभक्तिविवर्जितः ॥ २,२४.४२ ॥

पुनर्जन्माप्नुयान्मर्त्यस्तस्माद्देयमृते शिशोः ।
पुराणे गीयते गाथा सर्वथा प्रतिभाति मे ॥ २,२४.४३ ॥

मिष्टान्नं भोजनं देयं दाने शक्तिस्तु दुर्लभा ।
भोज्ये भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः ॥ २,२४.४४ ॥

विभवे दानशक्तिश्च नाल्पस्य तपसः फलम् ।
दानाद्भोगानवाप्नोति सौख्यं तीर्थस्य सेवनात् ।
सुभाषणान्मृतो यस्तु स विद्वान्धर्मवित्तमः ॥ २,२४.४५ ॥

अदत्तदानाच्च भवेद्दरिद्रो दरिद्रभावाच्च करोतिपापम् ।
पापप्रभावान्नरकं प्रयाति पुनर्दरिद्रः पुनरेव पापी ॥ २,२४.४६ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशाख्ये धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादेऽल्पायुर्मरणहे तुबालान्त्येष्ट्योर्निरूपणं नाम चतुर्विशोऽध्यायः