गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः २६

← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २५ गरुडपुराणम्
अध्यायः २६
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः २७ →

श्रीगरुडमाहपुराणम् २६

गरुड उवाच ।
सत्यं ब्रूहि सुरश्रेष्ठ कृपां कृत्वा मयि प्रभो ।
मृतानां चैव जन्तूनां कदा कुर्यात्सपिण्डनम् ॥ २,२६.१ ॥
सपिण्डत्वे कुतो यान्ति असपिण्डे कुतो गतिः ।
केनैव सहपिण्डत्वं स्त्रीपुसोर्वक्तुमर्हसि ॥ २,२६.२ ॥
स्त्रीपुमांशौ सहैकत्वं पाप्नुतः कथमुत्तमम् ।
जीवेद्भर्तरि नारीणां सपिण्डीकरणं कुतः ॥ २,२६.३ ॥
भर्तृलोकं कथं यान्ति स्वर्गलोकं सुरेश्वर ।
अग्न्यारोहे कथं श्राद्धं वृषोत्सर्गः कथं भवेत् ॥ २,२६.४ ॥
घटदानं कथं कार्यं सपिण्डीकरणे कृते ।
कथयस्व प्रसादेन हीताय जगतां प्रभो ॥ २,२६.५ ॥
श्रीभगवानुवाच ।
यथावत्कथयिष्यामि सपिण्डीकरणं खग ।
वर्षं यावत्खगश्रेष्ठ यदाचरति मानवः ॥ २,२६.६ ॥
सपिण्डने ततो वृत्ते पितृलोकं स गच्छति ।
तस्मात्पुत्त्रेण कर्तव्यं सपिण्डीकरणं पितुः ॥ २,२६.७ ॥
संवत्सरे तु सम्पूर्णे कुर्यात्पिण्ड प्रवेशनम् ।
पिण्डप्रवेशविधिना तस्य नित्यं मृताह्निकम् ॥ २,२६.८ ॥
निश्चितं पक्षिशार्दूल वर्षान्ते पिण्डमेलनम् ।
सहपिण्डे कृते प्रेतस्ततो याति परां गतिम् ।
तन्नाम सम्परित्यज्य ततः पितृगणो भवेत् ॥ २,२६.९ ॥
त्रिपक्षे वापि षण्मासे मेलयेत्प्रपितामहैः ।
ज्ञात्वा वृद्धिविवाहादि स्वगोत्रविहितानि च ॥ २,२६.१० ॥
विवाहं नैव कुर्वीत मृते च गृहमेधिनि ।
भिक्षुर्भिक्षां न गृह्णाति यावत्कुर्यात्सपिण्डनम् ॥ २,२६.११ ॥
स्वगोत्रेऽप्यशुचिस्तावद्यावत्पिण्डं न मेलयेत् ।
मेलनात्प्रेतशब्दस्तु निवर्तेत खगेश्वर ॥ २,२६.१२ ॥
आनन्त्यात्कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् ।
अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते ॥ २,२६.१३ ॥
निरग्निकः साग्निको वा द्वादशाहे सपिण्डयेत् ॥ २,२६.१४ ॥
द्वादशाहे त्रिपक्षे वा षण्मासे वत्सरेऽपि वा ।
सपिण्डीकरणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ २,२६.१५ ॥
सपुत्त्रस्य न कर्तव्यमेकोद्दिष्टं कदाचन ।
सपिण्डीकरणादूर्ध्वं यत्रयत्र प्रदीयते ॥ २,२६.१६ ॥
तत्रतत्र त्रयं कार्यमन्यथा पितृघातकः ।
त्रिभिः कुर्यादशक्तश्च पार्वणं मुनिनोदितम् ॥ २,२६.१७ ॥
तद्दिने तद्दिने कुर्यात्पितामहमुखान्यतः ।
अज्ञानाद्दिनमासानां तस्मात्पार्वणमिष्यते ॥ २,२६.१८ ॥
अनुत्पन्नशरीरस्य न दानं पितृभिः सह ।
एतैः षोडशभिः श्राद्धैः प्रेतो मुक्तस्तु जायते ॥ २,२६.१९ ॥
अपुत्त्रस्य सपिण्डत्वं नैव कुर्यात्स्त्रियोऽपि वा ।
यावज्जीव च सद्भत्र्या न कुर्यात्सहपिण्डताम् ॥ २,२६.२० ॥
ब्राह्मादिषु विवाहेषु या वधूरिह संस्कृता ।
भर्तृगोत्रेण कर्तव्यास्तस्याः पिण्डोदकक्रियाः ॥ २,२६.२१ ॥
आसुरादिविवा हेषु या व्यूढा कन्यका भवेत् ।
तस्यास्तु पितृगोत्रेण कुर्यात्पिण्डोदकक्रियाः ॥ २,२६.२२ ॥
पितुः पुत्त्रेण कर्तव्यं सपिण्डीकरणं सदा ।
पुत्त्राभावे तु पत्नी स्यात्पत्न्यभावे सहोदरः ॥ २,२६.२३ ॥
भ्राता वा भ्रातृपुत्त्रो वा सपिण्डः शिष्य एव वा ।
सपिण्डनक्रियां कृत्वा कुर्यान्नान्दीमुखं ततः ॥ २,२६.२४ ॥
ज्येष्ठस्यैव कनिष्ठेन भ्रातृपुत्त्रेण भार्यया ।
सपिण्डीकरणं कार्यं पुत्रहीने नरे खग ॥ २,२६.२५ ॥
भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत् ।
सर्वेते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ २,२६.२६ ॥
सर्वेषां पुत्रहीनानां पत्नी कुर्यात्सपिण्डनम् ।
ऋत्विजा कारयेद्वापि पुरोहितमथापि वा ॥ २,२६.२७ ॥
कृतचूडोपनीतश्च पितुः श्राद्धं समाचरेत् ।
उच्चारयेत्स्वधाकारं न तु वेदाक्षराण्यसौ ॥ २,२६.२८ ॥
भर्त्रादिभिस्त्रिभिः कार्यं सपिण्डीकरणं स्त्रियाः ।
पितृव्यभ्रातृपुत्रेण सोदरेण कनीयसा ॥ २,२६.२९ ॥
अर्वाक्संवत्सरात्सन्धौ पूर्णे संवत्सरेऽपि वा ।
ये सपिण्डीकृताः प्रेतास्तेषां न स्यात्पृथक्क्रिया ॥ २,२६.३० ॥
सपिण्डने कृते वत्स पृथक्त्वं तु विगर्हितम् ।
यस्तु कुर्यात्पृथक्पिण्डं पितृहा सोऽभिजायते ॥ २,२६.३१ ॥
सपिण्डीकरणे वृत्ते पृथक्त्वं नोपपद्यते ।
पृथक्पिण्डे कृते पश्चात्पुनः कुर्यात्सपिण्डनम् ॥ २,२६.३२ ॥
सपिण्डीकरणं कृत्वा एकोद्दिष्टं करोति यः ।
आत्मानं च तथा प्रेतं स नयेद्दमशासनम् ॥ २,२६.३३ ॥
वर्षं यावक्त्रिया कार्या नामगोत्रेण धीमता ।
घटादि भोजनं नित्यं पददानानि यानि च ।
सपिण्डीकरणे वृत्ते एकस्यैव तु दापयेत् ॥ २,२६.३४ ॥
अन्नं पानीयसहितं संख्यां कृत्वाब्दिकस्य च ।
दातव्यं ब्राह्मणे पक्षिञ्जलपूर्णघटादिकम् ॥ २,२६.३५ ॥
पिण्डान्ते तस्य सकला वर्षवृत्तिः स्वशक्तितः ।
दिव्यदेहो विमानस्थः सुखं याति यमालयम् ॥ २,२६.३६ ॥
जीवमाने च पितरि न हि पुत्त्रे सपिण्डता ।
स्त्रीणां सपिण्डनं नास्ति तथा भर्तरि जीवति ॥ २,२६.३७ ॥
हुताशं या समारूढा चतुर्थेऽह्नि पतिव्रता ।
तस्या भर्तृदिने कार्यं वृषोत्सर्गादिकं च यत् ॥ २,२६.३८ ॥
पुत्त्रिका पतिगोत्रा स्यादधस्तात्पुत्रजन्मनः ।
पुत्रोत्पत्तेः परस्तात्सा पितृगोत्रं व्रजेत्पुनः ॥ २,२६.३९ ॥
पतिपत्न्योः सदैकत्वं हुताशं याधिरोहति ।
पुत्रेणैव पृथक्श्राद्धं क्षयाख्ये तस्य वासरे ॥ २,२६.४० ॥
अपुत्त्रौ चेन्मृतौ स्यातामेकचित्यां समेऽहनि ।
पृथक्श्राद्धानि कुर्वीत सापिड्यं पतिना सह ॥ २,२६.४१ ॥
पृथक्पृथक्च पिण्डेन दम्पती पतिना सह ।
न लिप्यते महादोषैरेतत्सत्यं वचो मम ॥ २,२६.४२ ॥
एकचित्यां समारूढौ दम्पती निधनं गतौ ।
एकपाकं प्रकुर्वीत पिण्डान्दद्यात्पृथक्पृथक् ॥ २,२६.४३ ॥
एकादशे वृषोत्सर्गं प्रेतश्राद्धानि षोडश ।
घटादिपददानानि महादानानि यानि च ।
वर्षं यावत्पृथक्कुर्यात्प्रेतस्तृप्तिं व्रजेच्चिरम् ॥ २,२६.४४ ॥
एकगोत्रे मृतानां तु स्त्रिया वा पुरुषस्य वा ।
स्थण्डिलं चैकतः कुर्याद्धोमं कुर्यात्पृथक्पृथक् ॥ २,२६.४५ ॥
एकादशेऽह्नि यच्छ्राद्धं पृथक्पिण्डाश्च भोजनम् ।
पाकैरेन पतिस्त्रीणामन्येषां च विगर्हितम् ॥ २,२६.४६ ॥
एकेनैव तु पाकेन श्राद्धानि कुरुते सुतः ।
एकं तु विकिरं कुर्यात्पिण्डान्दद्यद्बहूनपि ।
तीर्थे चापरपक्षे वा चन्द्रसूर्यग्रहेऽपि वा ॥ २,२६.४७ ॥
नारी भर्तारमासाद्य कुणपं दहते यदा ।
अग्निर्दहति गात्राणि आत्मानं नैव पीडयेत् ॥ २,२६.४८ ॥
दह्यते ध्मायमानानां धातूनां हि यथा मलम् ।
तथा नारी दहेद्देहं हुताशे ह्यमृतोपमे ॥ २,२६.४९ ॥
दिव्यादौ दिव्यदेहस्तु शुद्धो भवति पूरुषः ।
तप्ततैलेन लोहेन वह्निना नैव दह्यते ॥ २,२६.५० ॥
तथा सा पतिसंयुक्ता दह्यते न कदाचन ।
अन्तरात्मा मृते तस्मिन्मृतोऽप्येकत्वमागतः ॥ २,२६.५१ ॥
भर्तृसंगं परित्यज्य अन्यत्र म्रियते यदि ।
भर्तृलोकं न सा याति यावदाभूतसंप्लवम् ॥ २,२६.५२ ॥
लक्ष्मीयुतान्परित्यज्य मातरं पितरं तथा ।
मृतं पतिमनुव्रज्य सा चिरं सुखमेधते ॥ २,२६.५३ ॥
दिव्यवर्षप्रमाणेन तिस्रः कोट्योर्ऽद्धकोटयः ।
तावत्कालं वसेत्स्वर्गे नक्षत्रैः सह सर्वदा ॥ २,२६.५४ ॥
तदन्ते चरते लोके कुले भवति भोगिनाम् ।
सा हि लब्धमहाप्रीतिर्भर्त्रा सह पतिव्रता ॥ २,२६.५५ ॥
एवं न कुरुते नारी धर्मोढा पतिसंगमम् ।
जन्मजन्मनि दुः खार्तादुः शीलाप्रियवादिनी ॥ २,२६.५६ ॥
वल्गुली गृहसोधा वा गोधा वा द्विमुखी भवेत् ।
स्वभर्तारं परित्यज्य परपुंसोनुवर्तिनी ॥ २,२६.५७ ॥
तस्मात्सर्वप्रयत्नेन स्वपतिं स्त्री निषेवते ।
मनसा कर्मणा वाचा मृतं जीवन्तमेव वा ॥ २,२६.५८ ॥
जीवमाने मृते वापि किल्बिषं कुरुते तु या ।
स च वैधव्यमाप्नोति जन्मजन्मनि दुर्भगा ॥ २,२६.५९ ॥
यद्देवेभ्यो यत्पितृभ्यः श्रद्धयैव प्रदीयते ।
तत्फलं भर्तृपूजातः कुर्याद्भर्त्रर्चनं ततः ॥ २,२६.६० ॥
एवं कृते खगश्रेष्ठ पितृलोके चिरं वसेत् ।
यावदादित्यचन्द्रौ च तावद्देवसमा दिवि ॥ २,२६.६१ ॥
पुनश्चिरायुषो भूत्त्वा जायन्ते विपुले कुले ।
पतिव्रता यथा नारी भर्तृदुःखं न विन्दति ॥ २,२६.६२ ॥
सर्वमेतद्धि कथितं मया तव खगेश्वर ।
विशेषं कथयिष्यामि मृतस्यैव सुखप्रदम् ॥ २,२६.६३ ॥
द्वादशाहे कृतं सर्वं वर्षं यावत्सपिण्डनम् ।
पुनः कुर्यात्सदा नित्यं घटान्नं प्रतिमासिकम् ॥ २,२६.६४ ॥
कृतस्य करणं नास्ति प्रेतकार्यादृते खग ।
यः करोति नरः कश्चित्कृत्पूर्वं विनश्यति ॥ २,२६.६५ ॥
मृतस्यैव पुनः कुर्यात्प्रेतोऽक्षय्यमवाप्नुयात् ।
प्रतिमासं घटा देया सोदना जलपूरिताः ॥ २,२६.६६ ॥
अर्वाक्च वृद्धेः करणाच्च तार्क्ष्य सपिण्डनं यः कुरुते हि पुत्रः ।
तथापि मासं प्रतिपिण्डमेकमन्नं च कुम्भं सजलं च दद्यात् ॥ २,२६.६७ ॥
इति श्रीगारुडे महापुराणे उत्तरखण्डेद्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे प्रेतकल्पे सपिण्डननिरूपणं नाम षड्विंशोऽध्यायः