गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ८

← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ७ गरुडपुराणम्
अध्यायः ८
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ९ →

श्रीगरुडमहापुराणम् ८
गरुड उवाच ।
स्वामिन्कस्याधिकारोऽत्र सर्व एवौर्ध्वदेहिके ।
क्रियाः कतिविधाः प्रोक्ता वदैतत्सर्वमेव मे ॥ २,८.१ ॥

श्रीकृष्ण उवाच ।
पुत्रः पौत्रः प्रपौत्रो वा तद्भ्राता भ्रातृसन्ततिः ।
सपिण्डसन्ततिर्वापि क्रियार्हाः खग ज्ञातयः ॥ २,८.२ ॥

तेषामभावे सर्वेषां समानोदकसन्ततिः ।
कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्याः क्रियाः खग ॥ २,८.३ ॥

इच्छयोच्छिन्नबन्धश्च कारयेदवनीपतिः ।
पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः ॥ २,८.४ ॥

प्रतिसंवत्सरं पक्षिन्नेकोद्दिष्टविधानतः ।
श्राद्धं तत्र प्रकर्तव्यं फलं तस्य शृणुष्व मे ॥ २,८.५ ॥

ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् ।
विश्वेदेवान्पितृ गणान्वयांसि मनुजान्पशून् ॥ २,८.६ ॥

सरीसृपान्मातृगणान्यच्चान्यद्भूतसंज्ञितम् ।
श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥ २,८.७ ॥

ते तृप्तास्तर्पयन्त्येनं पुत्रदारधनैस्तथा ।
अधिकारः क्रियाभेदः समासात्ते निरूपितः ॥ २,८.८ ॥

गरुड उवाच ।
उक्तेष्वेकोऽपि चेन्न स्यादधिकारी सुरोत्तम ।
कर्तव्यं किं तदा विष्णो पुरुषेण विजानता ॥ २,८.९ ॥

श्रीकृष्ण उवाच ।
अधिकारो यदा नास्ति यदि नास्ति च निश्चयः ।
जीविते सति जीवाय दद्याच्छ्राद्धंस्वयं नरः ॥ २,८.१० ॥

कृतोपवासः सुस्नातः कृष्णासङ्गः समाहितः ।
कर्तारमथ भोक्तारं विष्णुं सर्वेश्वरं यजेत् ॥ २,८.११ ॥

सदक्षिणाश्च सतिलास्तिस्त्रश्च जलधेनवः ।
निवेदयेत्पितृभ्यश्च स्वधेति सुसमाहितः ॥ २,८.१२ ॥

अग्नये कव्यवाहनाय स्वधा नम इति स्मरन् ।
सोमायत्वा पितृमते स्वधा नम इति स्मरन् ॥ २,८.१३ ॥

दक्षिणेन तु दद्याच्च तृतीयां दक्षिणायुताम् ।
यमायाङ्गिरसे चाथ स्वधा नम इति स्मरन् ॥ २,८.१४ ॥

तयोर्मध्ये तु निः क्षिप्य विप्रान्संमन्त्र्य भो जयेत् ।
प्रथमामुत्तरे न्यस्य द्वितीयां दक्षिणे न्यसेत् ॥ २,८.१५ ॥

मध्ये तृतीयां विन्यस्य पश्चादावाहनादिकम् ।
आवाहनादिना पूर्वं विश्वेदेवान्प्रपूज्यच ॥ २,८.१६ ॥

वसुभ्यस्त्वामहं विप्र रुद्रेभ्यस्त्वामहं ततः ।
सूर्येभ्यस्त्वामहं विप्र भोजयामीति तान्वदेत् ॥ २,८.१७ ॥

आवाहनादिकं शेषं कुर्याच्च पितृशेषवत् ।
साम्यां धेनुं ततो दद्याद्वसूद्देशं द्विजाय तु ॥ २,८.१८ ॥

आग्नेय्यां चाथ रौद्राय याम्यां सूर्यद्विजाय तु ।
विश्वेभ्यश्चाथ देवेभ्यस्तिलपात्रं निवेदयेत् ॥ २,८.१९ ॥

स्वस्तीत्येव तथाक्षय्यं जलं दत्त्वाथ तान्द्विजान् ।
विसर्जयेत्स्मरन्विष्णुं देवमष्टाक्षरं विभुम् ॥ २,८.२० ॥

ततः कामं कुलेशानीं शिवं नारायणं स्मरेत् ।
चतुर्दश्यां ततो गच्छेद्यथाप्राप्तां सरिद्वराम् ॥ २,८.२१ ॥

वस्त्राणि लोहखण्डानि जितं त इति संजपन् ।
दक्षिणाभिमुखो वह्निं ज्वालयेत्तत्र च स्वयम् ॥ २,८.२२ ॥

पञ्चाशता कुशैर्ब्राह्मीं कृत्वा प्रतिकृतिं दहेत् ।
हुत्वा श्माशानिकं होमं पूर्णाहुत्यन्तमेव हि ॥ २,८.२३ ॥

निरग्रिमथ वा भूमिं यमं रुद्रञ्च संस्मरेत् ।
हुत्वा प्राधानिके स्थाने पश्चादावाहयेच्च तम् ॥ २,८.२४ ॥

श्रपयेच्चापरं वह्नौ मुद्गमिश्रं चरुं ततः ।
तिलतण्डुलमिश्रञ्च द्वितीयं सपवित्रकम् ॥ २,८.२५ ॥

ओं पृथिव्यै नमस्तुभ्यमिति चैकं निवेदयेत् ।
ओं यमाय नमश्चेति द्वितीयं तदनन्तरम् ॥ २,८.२६ ॥

ओं नमश्चाथ रुद्राय श्माशानपतये नमः ।
ततो दीप्ते समिद्धेऽग्नौ भूमौ प्रकृतिदारुणे ॥ २,८.२७ ॥

सप्तभ्यो यमसंज्ञेभ्यो दद्यात्सप्त जलाञ्जलीन् ।
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ २,८.२८ ॥

वैवस्वताय कालाय सर्वप्राणहराय च ।
स्वधाकारनमस्कारप्रणवैः सह सप्तधा ॥ २,८.२९ ॥

अमुकामुकगौत्रैतत्तुभ्यमस्तु तिलोदकम् ।
प्रदद्याद्दश पिण्डांस्तु अर्घपुष्पसमन्वितान् ॥ २,८.३० ॥

धूपो दीपो बलिर्गन्धः सर्वेषामस्तु चाक्षयः ।
दश पिण्डांस्तु दान्दत्त्वा विष्णोः सौम्यं मुखं स्मरेत् ॥ २,८.३१ ॥

कुर्याच्च मासिकं मासि सपिण्डीकरणं ततः ।
आशौचान्ते ततः कुर्यादात्मनो वा मरस्य तु ॥ २,८.३२ ॥

कुर्यादस्थिरतां ज्ञात्वा शक्त्यारोग्यधनायुषम् ।
एतत्ते सर्वमाख्यातं जीवच्छ्राद्धं मया खग ॥ २,८.३३ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्ण गरुडसंवादे श्राद्धकर्त्रात्मश्राद्धयोर्निरूपणं नामाष्टमोऽध्यायः