गरुडपुराणम्/ब्रह्मकाण्डः (मोक्षकाण्डः)/अध्यायः ४

← ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ३ गरुडपुराणम्
अध्यायः ४
वेदव्यासः
ब्रह्मकाण्डः (मोक्षकाण्डः), अध्यायः ५ →

श्रीगरुडमहापुराणम् ४
श्रीकृष्ण उवाच ।
यथा ससर्ज भगवांस्त्रीन् गुणान्प्रकृतेस्तदा ।
लक्ष्मीस्त्रिरूपा संभूता श्रीर्भूर्दुर्गोति संज्ञिता ॥ ३,४.१ ॥

सत्त्वाभिमानिनी श्रीस्तु भूर्देवी रजमानिनी ।
तमोभिमानिनी दुर्गा ह्येवमाहुर्मनीषिणः ॥ ३,४.२ ॥

अन्तरं न विजानीयाद्रूपाणां च परस्परम् ।
गुणानां चैव संबन्धाद्दुर्गादीनां खगेश्वर ॥ ३,४.३ ॥

अन्तरं ये विजानन्ति ते यान्त्यन्धन्तमः परम् ।
पुरुषस्तु त्रिरूपोभूद्विष्णुर्ब्रह्मा भवेतिसः ॥ ३,४.४ ॥

सत्त्वेन लोकान्वर्धयितुं विष्णुः साक्षाद्धरिः स्वयम् ।
सृष्टिं कर्तुं च रजसा ब्रह्मणि प्राविशद्धरिः ॥ ३,४.५ ॥

आद्यो ब्रह्मा स विज्ञेयो न तु साक्षाद्धरिः स्वयम् ।
तमसापि समान्हन्तुं रुद्रे च प्राविशद्धरिः ॥ ३,४.६ ॥

रुद्रे स्थितो रुद्रसंज्ञो न रुद्रस्तु हरिः स्वयम् ।
विष्णुरेव हरिः साक्षात्तावुभौन हरी स्मृतौ ॥ ३,४.७ ॥

आविष्टरूपौ विज्ञेयौ ब्रह्मरुद्राभिधायकौ ।
एवं ज्ञात्वा मोक्षमेति नान्यथा तु कथञ्चन ॥ ३,४.८ ॥

विष्णुब्रह्मादिरूपाणामैक्यं जानन्ति ये द्विजाः ।
ते यान्ति नरकं घोरं पुनरावृत्तिवर्जितम् ॥ ३,४.९ ॥

गुणत्रयं प्रविष्टस्तु पुरुषो हरिरव्ययः ।
कार्योन्मुखं यथा भूयात्क्षोभयामास वै तथा ॥ ३,४.१० ॥

जातक्षोभाद्भगवतो महानासीद्गुणत्रयात् ।
गुणत्रये विद्यमानाद्भागादेव न संशयः ॥ ३,४.११ ॥

महतो ब्रह्मवायू च जज्ञाते खाभिमानिनौ ।
तस्य संवत्सरात्पश्चाद्यमलौ संबभूवतुः ॥ ३,४.१२ ॥

रजः प्रधानं यत्तत्वं महत्तत्तवमितीरितम् ।
सर्गं त्विमं विजानीयाद्गुणवैषम्यनामकम् ॥ ३,४.१३ ॥

गरुड उवाच ।
महत्तत्तवस्वरूपस्य ज्ञानार्थं देवकीसुत ।
त्वयोक्ता गुणवैषम्यनामिका सृष्टिरुत्तमा ॥ ३,४.१४ ॥

गुणवैषम्यशब्दार्थं मम ब्रूहि महाप्रभो ।
श्रीकृष्ण उवाच ।
गुणवैषम्यशब्दार्थज्ञापनाय खगेश्वर ॥ ३,४.१५ ॥

अपिक्षितं च तत्रादौ गुणसाम्यं न संशयः ।
सम्यग्ज्ञापयितुं तत्र खादौ तावत्स्वगेश्वर ॥ ३,४.१६ ॥

राशिभूतं गुणानां तु दर्शयिष्ये स्थितिं च वै ।
राशीभूतस्य तसमः सकाशाद्विनतासुत ॥ ३,४.१७ ॥

राशीभूतं रजो ज्ञेयन्द्विगुणं तत्तु नान्यथा ।
राशीभूतस्य रजसः सकाशाद्विनतासुत ॥ ३,४.१८ ॥

राशीभूतं तथा सत्त्वं द्विगुणं समुदाहृतम् ।
मूलप्रकृतिजा ह्येते न मूला प्रकृतिः स्मृता ॥ ३,४.१९ ॥

यतः प्रकृतिरूपाणां परिच्छेदो न विद्यते ।
अतः प्रकृतिजा ज्ञेया न मूलास्ते खगेश्वर ॥ ३,४.२० ॥

एवं तव गुणानाञ्च परिमाणं खगेश्वर ।
उक्तं स्वरूपं तेषां तु तव सम्यक्खगेश्वर ॥ ३,४.२१ ॥

तत्र राशित्रये सत्त्वं केवलं समुदाहृतम् ।
रजस्तमोभ्यां गरुड ह्यविमिश्रं ह्यतस्तु तत् ॥ ३,४.२२ ॥

केवलं सत्त्वमित्युक्तं न तु श्रेष्ठत्वतः प्रभो ।
सृष्टिकाले केवलं स्यात्प्रलये मिश्रितं भवेत् ॥ ३,४.२३ ॥

सर्वदाप्यविमिश्रं च सत्त्वराशिं खगेश्वर ।
सर्वदापि विमिश्रं च सत्त्वराशिं द्विजोत्तम ॥ ३,४.२४ ॥

ये विजानन्ति ते सर्वे विशन्ति ह्यधरं तमः ।
रजस्तमोगुणौ वीन्द्र इतराभ्यां विमिश्रितौ ॥ ३,४.२५ ॥

सृष्टौ प्रलयकालेपि मिश्रावेव खगेश्वर ।
राशिभूतेपि रजसि रजोभागाच्छताधिकम् ॥ ३,४.२६ ॥

सत्त्वं च मिश्रितं ज्ञेयं नान्यथा पक्षिसत्तम ।
रजसः शतभागानां मध्ये तु विनतासुत ॥ ३,४.२७ ॥

य एको भाग उद्दिष्टस्तावत्परिमितं तमः ।
राशिभूतेपि रजसि मिश्रितं परिकीर्तितम् ॥ ३,४.२८ ॥

रजोराशिस्थितिस्त्वेवं तात व्याप्तं तमोगुणैः ।
राशिभूतेपि तमसि सत्त्वं च विनतासुत ॥ ३,४.२९ ॥

तमः सकाशाद्गरुड दशभागाधिकेन च ।
मिश्रितं भवतीत्येवं ज्ञातव्यं नात्र संशयः ॥ ३,४.३० ॥

तमसो दशभागानां मध्ये तु विनतासुत ।
य एको भाग उद्दिष्टस्तावत्परिमितं रजः ॥ ३,४.३१ ॥

राशिभूतेपि तमसि मिश्रितं भवति ध्रुवम् ।
तमोराशिस्थितिस्त्वेवं ज्ञातव्या पक्षिसत्तम ॥ ३,४.३२ ॥

गरुड उवाच ।
रशिभूतेपि रजसि राशिभूते तमस्यपि ।
सत्त्वांशा ह्यधिकाः संतीत्येवमुक्तं मयानघ ॥ ३,४.३३ ॥

तत्र मे संशयो ह्यस्ति शृणु त्वं सात्त्वतां पते ।
यद्राश्यां यद्रा शिभागा ह्यधिकाः संति यावता ॥ ३,४.३४ ॥

तावता व्यवहारः स्यात्क्षीरनीरमिव प्रभो ।
श्रुत्वा स गरुडेनोक्तं भगवान्पुरुषोत्तमः ॥ ३,४.३५ ॥

उवाच पर मप्रीत्या संस्तुवन् गरुडं हरिः ।
श्रीकृष्ण उवाच ।
रजोराश्या तमोराश्या सत्त्वराश्यधिका सदा ॥ ३,४.३६ ॥

मिश्रितं चापि पक्षीन्द्र न सत्तवमिति कीर्त्यते ।
रजोराशिस्तमोराशिरित्येवं विबुधा विदुः ॥ ३,४.३७ ॥

विषं तु चरुदुग्धस्थं विषमित्युच्यते यथा ।
एवं मयोक्ता गरुड गुणानां निजसंस्थितिः ॥ ३,४.३८ ॥

साम्यावस्थां गुणानां च शृण्विदानीं खगेश्वर ।
राशीकृताच्च रजसः जन्यं यच्च कगेश्वर ॥ ३,४.३९ ॥

महत्तत्त्वे प्रविष्टं च यद्रजः परिकीर्तितम् ।
प्रलये समनुप्राप्ते महत्तत्त्वे स्थितं रजः ॥ ३,४.४० ॥

द्वादशांशेन तु ह्यद्धा विभक्तं भवतिं प्रभो ।
राशीभूते हि सत्त्वे तु दशभागेन मिश्रितम् ॥ ३,४.४१ ॥

सम्यक्भवति पक्षीन्द्र तथैकांशेन चाण्डज ।
तमोराश्या मिश्रितं च भवत्येव न संशयः ॥ ३,४.४२ ॥

अन्येनैकेन भागेन रजोराश्या खगेश्वर ।
मिश्रितं भवतीत्येवं ज्ञातव्यं नान्यथा क्वचित् ॥ ३,४.४३ ॥

गुणत्रयेपि भगवान्महत्तत्त्वस्य चाण्डज ।
एवं लयस्तु ज्ञातव्यो हृदि तत्त्वार्थवोदिभिः ॥ ३,४.४४ ॥

एवं गुणत्रयाणां च मिश्रितत्त्वात्खगेश्वर ।
गुणसाम्यमिति प्राहुरेवं जानीहि वै खग ॥ ३,४.४५ ॥

अन्यथा ये विजानन्ति ते यान्ति ह्यधरं तमः ।
गरुड उवाच ।
राशीकृतगुणानां च त्रयाणां परमेश्वर ॥ ३,४.४६ ॥

विशालानां परं ब्रह्मन्प्रलये गुणसाम्यता ।
कथं ब्रूहि महाभाग एतत्तत्त्वं समासतः ॥ ३,४.४७ ॥

श्रीकृष्ण उवाच ।
राशीभूतगुणानां तु त्रयणामपि सत्तम ।
तदा विमिश्रितत्वेन ह्यवस्थानं विदुर्बुधाः ॥ ३,४.४८ ॥

इदानीं गुणवैषम्यं शृणु सम्यङ्मम प्रिय ।
सृष्टिकाले तु संप्राप्ते यत्पूर्वं प्रलये खग ॥ ३,४.४९ ॥

दशभागैश्च सत्त्वे तु मिश्रितं यद्र जस्तथा ।
तमस्यप्येकभागेन प्रविष्टं यत्तु तद्रजः ॥ ३,४.५० ॥

रजस्यप्येकभागेन प्रविष्टं यच्च तद्रजः ।
एवं द्वादशभागैश्च प्रविष्टं सर्वशो रजः ॥ ३,४.५१ ॥

सत्त्वस्तैर्दशभागैश्च तथैकेन रजोंशिना ।
एवमेकादशैर्भागैस्तमस्थांशेन वै व्दिज ॥ ३,४.५२ ॥

मिश्रितं भवति ह्यद्धा महत्तत्त्वं तदा स्मृतम् ।
एतदन्यो विशेषश्च मन्तध्यो विनतासुत ॥ ३,४.५३ ॥

एकांशस्तामसो ज्ञेयो महत्तत्त्वे न संशयः ।
एवं त्रयोदशैर्भागैर्मिश्रितं तच्च सत्तम ॥ ३,४.५४ ॥

एवमेतद्विजानीयान्नान्यथा तु कथञ्चन ।
गरुड उवाच ।
चतुर्मुखाच्छ्रुतं पूर्वं भगवन्सात्त्वतां पते ॥ ३,४.५५ ॥

चतुर्भागात्समुत्पन्नं महत्तत्त्वमिति प्रभो ।
तत्रैकांशस्तमः प्रोक्तः त्रिभागो रज एव च ॥ ३,४.५६ ॥

तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम् ।
चतुर्भागात्मकं प्रोक्तं महत्तत्त्वं श्रुतं मया ॥ ३,४.५७ ॥

त्रयोदशांशैः संभूतमिति प्रोक्तं त्वयानघ ।
तदेतत्संशयं छिन्धि कृपालो भक्तवत्सल ॥ ३,४.५८ ॥

श्रीकृष्ण उवाच ।
ब्रह्मोक्तम्य मयोक्तस्य विवादो नास्ति सर्वथा ।
मूलसत्त्वे मिश्रितं च दशभागेन यद्रजः ॥ ३,४.५९ ॥

तत्सर्वं च मिलित्वैव त्वेको भागस्तु कीर्तितः ।
मूले रजसि यच्चोक्तो रजोभागः खगेश्वर ॥ ३,४.६० ॥

भागे द्वितीये विज्ञेयस्तद्रजो नात्र संशयः ।
मूले तमसि यच्चोक्तो रजोभागस्तथैव च ॥ ३,४.६१ ॥

तृतीयभागो विज्ञेयो नात्र कार्या विचारणा ।
तथा मूले च तमसि ह्येको भागस्तमः स्मृतः ॥ ३,४.६२ ॥

एवं त्रिभागो रजसः एकांशस्तमसः स्मृतः ।
तदाहुर्ब्रह्मणो देहं गुणवैषम्यनामकम् ॥ ३,४.६३ ॥

गरुड उवाच ।
महत्तत्त्वस्य चत्वारो भागास्तेषु रजस्त्रयः ।
तमसस्त्वेक एवेति त्वयोक्तं गरुडध्वज ॥ ३,४.६४ ॥

रजोभागात्मको देहोः ब्रह्मणः परमेष्ठिनः ।
इति प्रतीयते ब्रह्मन्वचनात्तव माधव ॥ ३,४.६५ ॥

शुद्धसत्त्वात्मको देहो ब्रह्मणः परमेष्ठिनः ।
एवं हि श्रूयते कृष्ण संशयो मेत्र बाधते ॥ ३,४.६६ ॥

तमेवं संशयं छिन्धि यद्धि तच्छ्रोतुमर्हति ।
श्रीकृष्ण उवाच ।
त्रिभागभूते रजसि तथा द्वादशधापि च ॥ ३,४.६७ ॥

रजसोपेक्षया सत्त्वं दशांशाधिकमेव च ।
प्रविष्टमस्तीति खग ज्ञातव्यं तच्छणु द्विज ॥ ३,४.६८ ॥

तमसोपेक्षया सत्त्वं दशांशाधिकमेव वै ।
प्रविष्टमस्तीति खग वक्तव्यं नात्र संशयः ॥ ३,४.६९ ॥

तमसोपेक्षया तत्र तम एकादशं स्मृतम् ।
एकांशस्तु रजो ज्ञेयमेवमाहुर्मनीषिणः ।
एवं च मिलितान्भागान्वक्ष्ये शृणु महामते ॥ ३,४.७० ॥

महत्तत्त्वसमुत्पत्ता उपादानं खगेश्वर ।
त्रयोदशांशा विज्ञेया द्वादशाशं रजः स्मृतम् ॥ ३,४.७१ ॥

एकांशस्तमसो ज्ञेयस्तत्र भागाञ्छृणु द्विजा ।
आदौ तु द्वादशांशेषु भागान्वक्ष्यामि तच्छृणु ॥ ३,४.७२ ॥

एकांशस्तमसो ज्ञेयस्तद्दशां शाधिकं रजः ।
तच्छतांशाधिकं सत्त्वमेवमाहुर्मनीषिणः ॥ ३,४.७३ ॥

एकांशतमसि ह्येवं विभागाञ्छृणु सत्तम ।
एकांशस्तु रजो ज्ञेयस्तमो ह्येका दशाधिकम् ॥ ३,४.७४ ॥

तमोभागास्तु विज्ञेयास्तद्दशांशाधिकः स्मृतः ।
सत्त्वभाग इति ज्ञेयो महत्तत्त्वे खगेश्वर ॥ ३,४.७५ ॥

सत्त्वांशो बहुलो यस्माच्छुद्धसत्त्वं चतुर्मुखः ।
उत्पत्तिर्महतश्चोक्ता एवं च विनतासुत ॥ ३,४.७६ ॥

तज्ज्ञानान्मोक्षमाप्नोति नान्यथा तु कथञ्चन ॥ ३,४.७७ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे कृष्ण गरुडसंवादे तृतीयांशे ब्रह्मकाण्डे गुणवैषम्यभेदब्रह्मदेहस्वरूपगुणसाम्यनिरूपणं नाम चतुर्थोऽध्यायः