गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०१

← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः) गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०१
वेदव्यासः‎
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०२ →



 अश्वमेधखण्डः - प्रथमोऽध्यायः

गर्ग-वज्रनाभसंवादम् -

मंगलाचरणम्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१॥
नमः श्रीकृष्णचंद्राय नमः संकर्षणाय च ॥
नमः प्रद्युम्नदेवायानिरुद्धाय नमो नमः ॥२॥
श्रीगर्ग उवाच -
सभायामागतं वीक्ष्य रोमहर्षणनन्दनम् ॥
शौनकः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥१॥
शौनक उवाच -
त्वन्मुखात्सर्वशास्त्राणि पुराणानि महामते ॥
नानाहरिचरित्राणि श्रुतानि विमलानि वै ॥२॥
पुरा गर्गेण कथिता ममाग्रे गर्गसंहिता ॥
राधामाधवयोर्यस्यां महिमा बहु वर्णितः ॥३॥
अद्याहं श्रोतुमिच्छामि त्वत्तः कृष्णकथां पुनः ॥
सर्वदुःखहरां सौते कथयस्व विचार्य च ॥४॥
श्रीगर्ग उवाच -
अष्टाशीतिसहस्रैश्च मुनिभी रौमहर्षणिः ॥
पृष्टः प्रोवाच कृष्णस्य स्मरन्पादांबुजं हरेः ॥५॥
सौतिरुवाच
अहो शौनक धन्योऽसि यस्य ते मतिरीदृशी ॥
कृष्णचंद्रपदद्वन्द्वमकरंदस्पृहावती ॥६॥
संगमं वैष्णवानां च देवाः श्रेष्ठं वदंति हि ॥
पापक्षयकरी यस्माच्छ्रीकृष्णस्य कथा भवेत् ॥७॥
अनंतं कृष्णचंद्रस्य चरितं कल्मषापहम् ॥
किंचिज्जानाति ब्रह्मा च तथा किंचिदुमापतिः ॥८॥
मशको मादृशः कोऽपि वासुदेवकथार्णवे ॥
मोहिता न वदिष्यन्ति यत्र ब्रह्मादयः सुराः ॥९॥
श्रीगर्गो यादवेंद्रस्य ह्युग्रसेनस्य भूपतेः ॥
अश्वमेधं क्रतुवरं दृष्ट्वा प्रत्याह चैकदा ॥१०॥
धन्यो राजा यादवेंद्रो यश्चकार क्रतूत्तमम् ॥
श्रीकृष्णस्याज्ञया पुर्यां तेनाहं विस्मयं गतः ॥११॥
मया वै संहितायां च कथाः कृष्णस्य वर्णिताः ॥
परिपूर्णतमस्यापि यथा दृष्टा यथा श्रुताः ॥१२॥
तस्यां वै वाजिमेधस्य कथा न कथिता मया ॥
अद्याहं कथयिष्यामि हयमेधकथां पुनः ॥१३॥
यस्याः श्रवणमात्रेण नराणां हि कलौ युगे ॥
भुक्तिं मुक्तिं च भगवाञ्छीघ्रमेव प्रयच्छति ॥१४॥
इत्युक्त्वा श्रीमुनिर्गर्गः कृष्णभक्त्या च शौनक ॥
उग्रसेनस्य यज्ञस्य चरित्रं स ह्यचीक्लृपत् ॥१५॥
हयमेधचरित्रस्य सुमेरुर्नाम सुन्दरम् ॥
धृत्वा गर्गस्तु भगवान्कृतकृत्योऽभवन्मुने ॥१६॥
कृत्वा कथामष्टदिनेन श्रीमुनि-
     र्यदोर्गुरुर्बुद्धिमतां वरः परः ॥
अथाययौ वै मथुरां हरेः पुरीं
     व्रजं नृपेंद्रं च निरीक्षितुं खलु ॥१७॥
अंबरादागतं तत्र गर्गं ज्ञानवतां वरम् ॥
वीक्ष्योत्थाय नमश्चक्रे वज्रनाभो द्विजैः सह ॥१८॥
स्वर्णसिंहासनं दत्त्वावनिज्य तत्पदाम्बुजे ॥
अर्चयित्वा पुष्पस्रग्भिर्मिष्टान्नं च न्यवेदयत् ॥१९॥
तत्पादसलिलं नीत्वा शीर्षे धृत्वा कृतांजलिः ॥
भूत्वा श्रीवज्रनाभस्तु श्यामः पंकजलोचनः ॥२०॥
पुष्टदेहो बृहद्‌बाहुर्वीरः षोडशवार्षिकः ॥
इति होवाच स्वगुरुं शतसिंहसमोद्‌भटः ॥२१॥
वज्रनाभ उवाच -
नमस्तुभ्यं स्वागतं ते ब्रह्मन्किं करवाम ते ॥
मन्ये त्वां भगवद्‌रूप ब्रह्मर्षीणां वरं परम् ॥ २२॥
गुरुर्विधिर्गुरू रुद्रो गुरुरेव बृहस्पतिः ॥
गुरुर्नारायणः साक्षात्तस्मै श्रीगुरवे नमः ॥२३॥
नराणां च मुनिश्रेष्ठ दर्शनं तव दुर्लभम् ॥
अस्माकं नितरां देव विषयासक्तचेतसाम् ॥२४॥
गर्गाचार्य कुलाचार्य तेजस्विन् योगभास्कर ॥
त्वद्दर्शनादपि वयं पाविताः सकुटुंबकाः ॥२५॥
श्रुत्वा यदूनामृषभस्य वाक्यं
     मुनींद्रवर्यस्तु महान्महात्मा ॥
स्मरन्हरेः श्रीचरणारविंदं
     मुदा नृपेंद्रं निजगाद सद्यः ॥२६॥
युवराज महाराज यदुवंशशिरोमणे ॥
त्वया साधु कृतं सर्वं पालिता पृथिवीजनाः ॥२७॥
स्थापितश्च त्वया वत्स धर्मो वै पृथिवीतले ॥
विष्णुरातश्च ते मित्रं नृपाश्चान्ये वशाः स्मृताः ॥२८॥
धन्यस्त्वं राजशार्दूल धन्या ते मथुरा पुरी ॥
धन्याश्च ते प्रजाः सर्वा धन्या वै व्रजभूश्च ते ॥२९॥
भुंक्ष्व भोगान्भजन्कृष्णं बलं प्रद्युम्नमेव च ॥
अनिरुद्धं च निःशंको भूत्वा राज्यं कुरु प्रभो ॥३०॥
सूत उवाच -
इति वाक्यं समाकर्ण्य गर्गस्य नृपसत्तमः ॥
संकर्षणं च श्रीकृष्णं पितरं च पितामहम् ॥३१॥
विरहेण स्मरन्‌ राजा चाश्रुपूर्णमुखोऽभवत् ॥
तं नृपं दुःखितं दृष्ट्वा स्थितं भूमावधोमुखम् ॥३२॥
गर्गस्तु विस्मितः प्राह दुःखं प्रशमयन्निव ॥
गर्ग उवाच -
कस्माद्‌रोदिषि राजेंद्र भयं किं ते मयि स्थिते ॥३३॥
कारणं स्वस्य दुःखस्य वद सर्वं ममाग्रतः ॥
इति तद्वचनं श्रुत्वा राजा न प्राह दुःखितः ॥३४॥
पुनः पृष्टश्च गुरुणा प्राह गद्गदया गिरा ॥
राजोवाच
मां त्यक्त्वा यादवाः सर्वे कृष्णसंकर्षणादयः ॥३५॥
गता देव परं लोकं तेनाहं दुःखितोऽभवम् ॥
स्वाम्यमात्यसुहृद्‌राष्ट्र-कोशदुर्गबलानि च ॥
एकाकिनश्च मे ब्रह्मन्नेते प्रीतिकरा न हि ॥३७॥
मया चरित्रं कृष्णस्य न दृष्टं न श्रुतं वद ॥
दृष्टो यादवसंहारः तस्माद्‍दुःखं न याति मे ॥३७॥
चतुर्व्यूहेन हरिणा या पुरी शोभिता पुरा ॥
सापि मग्ना समुद्रे तु कृष्णो भक्तेः परं गतः ॥३८॥
कस्य हेतोः किमर्थं च जीवामि शिष्यवत्सल ॥
अद्य यास्यामि गहनं राज्यं कर्तुं न मे मनः ॥३९॥
सूत उवाच -
ततो मुनीनामृषभो महात्मा
     श्रुत्वा गिरं यादवसत्तमस्य ॥
संश्लाघ्य दुःखं शमयन् हि तुष्टो
     गर्गोऽब्रवीद्‌भूपतिवज्रनाभम् ॥४०॥
गर्ग उवाच -
वृष्णिप्रवर मद्वाक्यं शृणु शोकविनाशनम् ॥
सर्वपापहरं पुण्यं सावधानतया शुभम् ॥४१॥
यो राजते कुशस्थल्यां कृष्णचन्द्रो हरिः पुरा ॥
विराजते स सर्वत्र भक्त्या तं पश्य भूपते ॥४२॥
अद्य ते कथयिष्यामि भुक्तिमुक्तिप्रदां कथाम् ॥
शृणु त्वं वसुधानाथ श्रीकृष्णबलयोः परम् ॥४३॥
सूत उवाच -
इत्युक्त्वा भगवान्गर्गो वज्राय स्वां च संहिताम् ॥
कथयामास विप्रेंद्र पुण्यां नवदिनैः किल ॥४४॥

इति श्रीगर्गसंहितायामश्वमेधचरित्रे
सुमेरौ गर्गवज्रनाभसंवादे प्रथमोऽध्यायः ॥१॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥


वर्गःगर्ग संहिता