गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३८

← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३७ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३८
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ३९ →

अश्वमेधखण्डः - अष्टत्रिंशोऽध्यायः

अनिरुद्ध-सहायार्थं कृष्णागमनम् -


गर्ग उवाच -
तदा मृत्युंजयः क्रुद्धो भैरवं वीक्ष्य निद्रितम् ॥
 वृषभं प्रेरयामास कार्ष्णिजं शूरमानिनम् ॥१॥
 तदैव वृषभः कोपाच्छृंगाभ्यां मारयन्यदून् ॥
 दंतैः पश्चिमपादाभ्यां सेनायां विचचार ह ॥२॥
 त्वरं जघान शृङ्गेण संमुखस्थं सुनन्दनम् ॥
 शृङ्गेण भिन्नहृदयः पपात पंचतां गतः ॥३॥
 तदाऽऽजगाम संक्रुद्धोऽनिरुद्धो गजसंस्थितः ॥
 धनुर्धरो दंशितश्च माभैर्माभैरिति ब्रुवन् ॥४॥
 दृष्ट्वा तत्र हतं वीरं कृष्णपुत्रं सुनन्दनम् ॥
 प्राप्तो दुःखं मृधेऽत्यंतं कंपितः शोकपूरितः ॥५॥
 हते तस्मिन्महावीरे शोचंतं तं शिवोऽब्रवीत् ॥
 मा कृथास्त्वं रणे शोकमनिरुद्ध महाबल ॥६॥
 रणमध्ये पातनं च शूराणां कीर्तये स्मृतम् ॥
 तस्मात्त्वमपि संग्रामे मया युद्ध्यस्व यत्‍नतः ॥७॥
 प्रयातान्‌ रक्षस्व प्राणान्ममाग्रे युद्धकांक्षया ॥
 गर्ग उवाच -
इति तस्य वचः श्रुत्वा शोकं त्यक्त्वा यदूत्तमः ॥८॥
 निचखान पंच बाणान् शिवस्य मस्तके नृप ॥
 नाराचास्ते महेशस्य जटाजूटेषु निष्ठिताः ॥९॥
 दृश्यंते गृध्रपक्षाढ्याः शाखा इव वनस्पतेः ॥
 ततो रुद्रः स्वकोदंडे बाणमेकं निधाय च ॥१०॥
 चिच्छेद तेन सहसा तस्य चापस्य शिंजिनीम् ॥
 अनिरुद्धः पुनः शीघ्रं सज्यं कृत्वा धनुर्दृढम् ॥११॥
 उग्रचापस्य चिच्छेद शिंजिनीं सायकेन च ॥
 ततः श्रुत्वा तयोर्युद्धमद्‌भुतं रोमहर्षणम् ॥१२॥
 विमानस्थाश्च शक्राद्या आजग्मुः कौतुकान्विताः ॥
 ऊचुः परस्परं खस्था निरीक्ष्य भयविह्वलाः ॥१३॥
 देवा ऊचुः
 अमू लोकत्रयस्यापि ह्युत्पत्तिलयकारकौ ॥
 एतयोश्च रणं तस्माद्विफलं रणमण्डले ॥१४॥
 को विजेष्यति संग्रामं प्राप्स्यते कः पराजयम् ॥
 गर्ग उवाच -
ततस्त्रिदिनपर्यंतं युद्धमासीत्तयोर्भृशम् ॥१५॥
 पुनः शरासनं रुद्रः सज्जं कृत्वा रुषान्वितः ॥
 ब्रह्मास्त्रं संदधे तत्र लोकप्रलयकारकम् ॥१६॥
 ब्रह्मास्त्रेण तु ब्रह्मास्त्रं भिदुरास्त्रेण पार्वतम् ॥
 पर्जन्यास्त्रेण चाग्नेयमनिरुद्धो जहार ह ॥१७॥
 तदा प्रकुपितोऽत्यंतं पिनाकी प्रज्वलन्निव ॥
 त्रिशिखेन त्रिशूलेन जघान कार्ष्णिनन्दनम् ॥१८॥
 स त्रिशूलश्च तं भित्त्वा गजं भित्त्वा विनिर्गतः ॥
 स्थितोऽभूच्च तयोर्मध्ये ऊर्ध्वपुंख अधोमुखः ॥१९॥
 गजो मृत्युं गतो युद्धेऽनिरुद्धो मूर्च्छितोऽभवत् ॥
 पेततुस्तौ च संलग्नौ भिन्नवक्षस्थलौ मृधे ॥२०॥
 हाहाकारस्तदैवासीद्‌रुरुदुः सर्वयादवाः ॥
 रुद्रस्याग्रे यथा भीता यमस्याग्रे च पापिनः ॥२१॥
 अनिरुद्धं निपतितं मृत्युतुल्यं विमूर्च्छितम् ॥
 श्रुत्वा ययौ शंकितश्च सांबः स्कंदं विहाय च ॥२२॥
 मूर्च्छितं यदुवीरं तु वीक्ष्य क्रोधपरिप्लुतः ॥
 अश्रुपूर्णमुखः सांबः शर्वं प्राह धनुर्धरः ॥२३॥
 कस्मात्करिष्यसे रुद्र दानवानां हि पालनम् ॥
 हत्वानिरुद्धं संग्रामे वीरं चैव सुनन्दनम् ॥२४॥
 वेदे भागवते शास्त्रे पुरा विप्रैः श्रुतं मया ॥
 श्रीकृष्णाख्यं परं नित्यं शिवं सेविति वैष्णवः ॥२५॥
 मृषा जातं हि तत्सर्वं कार्ष्णिजे पतिते सति ॥
 सुनन्दनः कृष्णसुतः सोऽपि युद्धे त्वया हतः ॥२६॥
 वृथा करिष्यसे युद्धं धिक्त्वां तस्मान्महेश्वर ॥
 अहं त्वां पातयिष्यामि रणे कृष्णपराङ्‌मुखम् ॥२७॥
 क्षुरप्रैः सायकैः शीघ्रं तिष्ठ तिष्ठ रणे शिव ॥
 एतद्वचः समाकर्ण्य प्रसन्नः शंकरोऽब्रवीत् ॥२८॥
 शिव उवाच -
धन्यस्त्वं यादवश्रेष्ठ सत्यं वदति नो भवान् ॥
 मन्नाथः कृष्णचन्द्रोऽयं देवदानववंदितः ॥२९॥
 कुनंदने च निहते बल्वले मूर्च्छिते रणे ॥
 सहायार्थमहं वीर भक्तरक्षार्थमागतः ॥३०॥
 सत्यं कर्तुं स्ववचनं किंचित्कोपेन पूरितः ॥
 करोमि प्रधने युद्धं भक्तप्रियचिकीर्षया ॥३१॥
 इत्थं वदति भूतेशे सांबो रोषप्रपूरितः ॥
 तताड शीघ्रं चापेन क्षुरप्रैः सायकैर्मृडम् ॥३२॥
 तैर्बाणैर्निहतो रुद्रो न किंचित्कश्मलं गतः ॥
 यथा मतंगजः पुष्पैर्जग्राह स्वधनुः शिवः ॥३३॥
 तताड निशितैर्बाणैर्युद्धे जांबवतीसुतम् ॥
 सांबः शिवं शिवः सांबं जघ्नतुस्तौ परस्परम् ॥३४॥
 दृष्ट्वा युद्धं तयोर्लोकसंहारं मेनिरेऽस्मराः ॥
 भूतले गगने राजन्महान्कोलाहलोऽभवत् ॥३५॥
 भीताश्च वृष्णयस्तत्र नाथं कृष्णं स्मरंति हि ॥३६॥
 तदा हरिः श्रीयदुपालकश्च
     ज्ञात्वा यदूनां च महाविपत्तिम् ॥
 रथेन तत्रागतवान्‌ रिपुघ्नो
     युक्तेन वै सूततुरंगमैश्च ॥३७॥
 श्यामः किरीटी नवकंजनेत्रो
     नवार्ककोटिद्युतिमादधानः ॥
 कौमोदकीशंखरथांगपद्म-
     कोदंडबाणैर्नियुतोऽसिधारी ॥३८॥
 श्रीवत्सचिह्नेन तु कौस्तुभेन
     पीताम्बरणेपि च मालयाऽऽ‌ढ्यः ॥
 नीलालकैः कुण्डलकङ्कणद्यै-
     र्विभूषितः कोटिमनोजतुल्यः ॥३९॥
 समुद्‌गलद्‌भिः सितफेनशीकरा-
     न्मुक्ताफलानीव च राजहंसकैः ॥
 सुग्रीवमुख्यैरतिवेगवत्तरै-
     र्हयैर्युतः सुन्दरसामगायनैः ॥४०॥
 दृष्ट्वा स्वनाथं यदवः स्वागतं हर्षविह्वलाः ॥
 बभूवुः सुखिनः सर्वे शीतभीता रविं यथा ॥४१॥
 तदा जयजयारावो यदुसैन्ये बभूव ह ॥
 प्रचक्रिरे पुष्पवर्षं गगनस्थाश्च देवताः ॥४२॥
 दृष्ट्वा सांबस्तु श्रीकृष्णं सहायार्थं समागतम् ॥
 पपात पादयोस्तस्य चापं त्यक्त्वा प्रहर्षतः ॥४३॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
श्रीकृष्णागमनं नामाष्टात्रिंशोऽध्यायः ॥३८॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥





वर्गःगर्ग संहिता