गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४३
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४२ | गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४३ [[लेखकः :|]] |
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४४ → |
अश्वमेधखण्डः - त्रिचत्वारिंशोऽध्यायः
रासक्रीडा -
गर्ग उवाच -
वृंदावने वृक्षलतालिसंकुले
मंदानिले वीजति शीतले नृप ॥
रंध्राणि वेणोः किल पूरयन्हरि-
र्मुहुर्हरत्येव दिवौकसां मनः ॥१॥
वेणुगीतं ततः श्रुत्वा श्रीराधा कीर्तिनंदिनी ॥
भुजाभ्यां नन्दसूनुं वै जग्राहानंगविह्वला ॥२॥
गोकुलस्य चकोरीं तां कृष्णो गोकुलचन्द्रमाः ॥
दृष्ट्वा कुसुमपर्यंके तया रेमे हरन्मनः ॥३॥
श्रीकृष्णस्य विहारेण ब्रह्मानन्देन स्वामिनी ॥
मुदं लेभे महात्यंतं तथा स्वामी वशीकृतः ॥४॥
रमणीयं रतिकरं रासे रामा रमेश्वरम् ॥
जगृहुः सर्वतो राजञ्छतयूथाश्च योषितः ॥५॥
ताभिः सार्द्धं हरी रम्यो रेमे वै रासमण्डले ॥
तावद्रूपधरो राजन् यावत्यो व्रजयोषितः ॥६॥
विरहिण्यश्च ताः सर्वा विरहेण विहारिणः ॥
ब्रह्मानंदेन सन्मर्त्या आनन्दं लेभिरे यथा ॥७॥
श्रीकराभ्यां श्रीकराभ्यां श्रीशः श्रीश्यामसुन्दरः ॥
दधार हृदये सर्वास्ताभिर्भक्त्या वशीकृतः ॥८॥
स्वेदयुक्तान्याननानि तासां प्रीत्या व्रजेश्वरः ॥
प्रामृजत्पीतवस्त्रेण किं वदामि तपःफलम् ॥९॥
विना सांख्येन योगेन तपसा श्रवणेन च ॥
विना तीर्थेन दानेन प्राप्ताः कामेन ता हरिम् ॥१०॥
ततो गोपीजनाः सर्वा मानवत्यः परस्परम् ॥
कुवाक्यं कथयामासुः कृष्णं तृप्ता विहारतः ॥११॥
अस्माँस्त्यक्त्वा पुरा कृष्णो गतः श्रीमथुरां पुरीम् ॥
विलोकितुं रूपिणीश्च सुन्दरीः स्त्रीश्च सुन्दरः ॥१२॥
न दृष्टास्तेन सुंदर्यो जगाम द्वारकां पुनः ॥
न दृष्टास्तेन तास्तत्र विवाहं कृतवान्पुनः ॥१३॥
रुक्मिणीं भीष्मकसुतां न मत्वा तां तु रूपिणीम् ॥
पुनर्विवाहान्कृतवान्सहस्राणी च षोडश ॥१४॥
न मत्वा रूपिणीस्ताश्च शोकं कुर्वन्पुनः पुनः ॥
व्रजमागतवान्सख्यः श्रीकृष्णोऽस्मान्विलोकितुम् ॥१५॥
दृष्ट्वा रूपाणि चास्माकं सर्वद्रष्टा रमेश्वरः ॥
प्रसन्नोऽभूत्तथा सख्यो यथा रासे हरिः पुरा ॥१६॥
तस्माद्वयं च सर्वासां सुन्दरीणां वराः स्मृताः ॥
सुनेत्राश्चंद्रवदनाः शश्वत्सुस्थिरयौवनाः ॥
अस्मत्तुल्याश्च रूपिण्यो नैव देवांगनाश्च खे ॥
याभिः शीघ्रं कटाक्षैश्च कृष्णः कामी वशीकृतः ॥१८॥
अहो वै येन हंसेन मुक्ताः पूर्वं प्रभक्षिताः ॥
स एवान्यत्कथं वस्तु भक्षयिष्यति दुःखतः ॥१९॥
न संति मुक्ताः सर्वत्र संति मानसरोवरे ॥
तथा वरस्त्रियो भूमौ न संति संति चात्र हि ॥२०॥
गर्ग उवाच -
इति मानवतीनां च स्वात्मारामो जगत्पतिः ॥
वचः शृण्वन्राधया च तत्रैवांतरधीयत ॥२१॥
निर्द्धनोऽपि धनं लब्ध्वा मानं प्रकुरुते नृप ॥
यस्य नारायणः प्राप्तो तस्य किं कथयाम्यहम् ॥२२॥
इति श्रीगर्गसंहितायां हयमेधखण्डे
रासक्रीडायां त्रिचत्वारिंशोऽध्यायः ॥४३॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥