गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ६१
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ६० | गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ६१ गर्गमुनि |
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ६२ → |
अश्वमेधखण्डः - एकषष्टितमोऽध्यायः
एकादशीमाहात्म्यम् -
वज्रनाभिरुवाच -
ब्रह्मन्नारायणो कृष्णो भगवान्प्रकृतेः परः ।
तस्य रूपं कथं श्यामं तन्मे व्याख्यातुमर्हसि ॥ १ ॥
त्वादृशा मुनयो बह्मञ्जानंति चरितं हरेः ।
तथा कृष्णस्य देवस्य न वयं कर्ममोहिताः ॥ २ ॥
सूत उवाच -
इत्याकर्ण्य वचस्तेन संस्तुतः स मुनिर्मुने ।
तत्त्वज्ञानाय तत्त्वज्ञः करुणः प्रत्यभाषत ॥ ३ ॥
गर्ग उवाच -
श्यामं तु शृङ्गाररसस्य रूपं
श्रीकृष्णदेवं कथितं मुनींद्रैः ।
लावण्यसंघाच्च तथोज्ज्वलत्वा-
च्छ्यामं सुरूपं हि तथा हरेश्च ॥ ४ ॥
यथा दूरतो दृश्यते श्यामरूपं
घटायास्तथेदं नदस्यापि गर्ते ।
यथाऽऽकाशरूपं महच्छ्यामलं वा
जलं चाम्बरं चोज्ज्वलं नापि कृष्णम् ॥ ५ ॥
यथा धौतवस्त्रे परे श्यामला हि
छविर्दृश्यते चैव भावैः परस्य ।
तथा कोटिकंदर्पलीलाशयत्वा-
द्धरेः श्यामरूपं तु संतो वदंति ॥ ६ ॥
वज्रनाभिरुवाच -
तव वाक्यान्मुनिश्रेष्ठ संदेहश्च गतो मम ।
अग्रे ब्रह्मन्कलिर्घोर आगमिष्यति भूतले ॥ ७ ॥
तस्मिन्मर्त्याः कीदृशाश्च भविष्यन्ति मुने वद ।
त्वं जानासि भविष्यं च तस्मात्त्वां प्रणमाम्यहम् ॥ ८ ॥
कलेर्दशसहस्राणि जगन्नाथस्तु तिष्ठति ।
तदर्द्धं जाह्नवीतोयं तदर्द्धं ग्रामदेवताः ॥ ९ ॥
ततः सर्वे भविष्यन्ति पापिनः कलिमोहिताः ।
नरकांस्ते प्रयास्यन्ति सर्वे चाल्पायुषो नराः ॥ १० ॥
विप्राः स्वकन्यां दास्यन्ति ब्राह्मणाय च मौल्यतः ।
क्षत्रियाश्चैव पुत्रीं स्वां मारयिष्यन्ति लोलुपाः ॥ ११ ॥
मृषा कुर्वन्ति वाणिज्यं वैश्या ब्रह्मस्वतत्पराः ।
शूद्राश्च म्लेच्छसंगेन दूषयिष्यन्ति ब्राह्मणान् ॥ १२ ॥
ब्राह्मणा शास्त्रहीनाश्च राज्यहीनाश्च क्षत्रियाः ।
वैश्याश्च द्रव्यहीना वै शूद्रा नाथस्य दुःखदाः ॥ १३ ॥
दिने व्यवायनिरता विरता धर्मकर्मणि ।
स्त्रियः स्वच्छन्दगामिन्यः पुरुषा योनिलम्पटाः ॥ १४ ॥
पितॄणामर्चनं चैव वेदानामृत्विजां तथा ।
विष्णोश्च वैष्णवानां च तुलस्याश्च गवां तथा ॥ १५ ॥
न प्रायेण करिष्यन्ति मानवाः कलिमोहिताः ।
गणिकासु परस्त्रीषु परवित्तेषु मोहिताः ॥ १६ ॥
एकवर्णा भविष्यन्ति महाशूद्रसमाः किल ।
सस्यहीना भवेत्पृथ्वी शिलावृष्ट्या निरंतरम् ॥ १७ ॥
फलहीनोऽपि वृक्षश्च जलहीना सरित्तथा ।
प्रजाभिस्ताडितो भूपो भूपेन ताडिताः प्रजाः ॥ १८ ॥
राजोवाच -
केनोपायेन जीवानां कलौ मुक्तिर्भविष्यति ।
तन्ममाख्याहि विप्रेन्द्र त्वं परावरवित्तमः ॥ १९ ॥
गर्ग उवाच -
युधिष्ठिरो विक्रमश्च तथा वै शालिवाहनः ।
विजयाभिनन्दनश्चैव तथा नागार्जुनो नृपः ॥ २० ॥
तथा कल्किश्च भगवानेते वै शकबंधिनः ।
करिष्यन्ति कलौ भूपा धर्मस्थापनमेव च ॥ २१ ॥
अभूद्युधिष्ठिरो राजा भविष्यन्ति नृपाश्च ते ।
अधर्मं नाशयिष्यन्ति भूत्वा वै चक्रवर्तिनः ॥ २२ ॥
वामनश्च विधिः शेषः सनको विष्णुवाक्यतः ।
धर्मार्थहेतवे चैते भविष्यन्ति द्विजाः कलौ ॥ २३ ॥
विष्णुस्वामी वामनांशस्तथा माध्वस्तु ब्रह्मणः ।
रामानुजस्तु शेषांशो निंबार्कः सनकस्य च ॥ २४ ॥
एते कलौ युगे भाव्याः संप्रदायप्रवर्तकाः ।
संवत्सरे विक्रमस्य चत्वारः क्षितिपावनाः ॥ २५ ॥
संप्रदायविहीना ये मन्त्रास्ते निष्फलाः स्मृताः ।
तस्माच्च गमनं ह्यस्ति संप्रदाय नरैरपि ॥ २६ ॥
पापक्षयकरी यत्र श्रीकृष्णस्य कथा भवेत् ।
वैष्णवैर्विप्रमुख्यैश्च नारायणपरायणैः ॥ २७ ॥
कृते तु लिप्यते देशस्त्रेतायां ग्राम एव च ।
द्वापरे च कुलं प्रोक्तं कलौ कर्तैव लिप्यते ॥ २८ ॥
ध्यायन्कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥ २९ ॥
कृते यद्दशभिर्वर्षैस्त्रेतायां हायनेन च ।
द्वापरे चैकमासेन ह्यहोरात्रेण तत्कलौ ॥ ३० ॥
घोरे कलियुगे प्राप्ते सर्वधर्मविवर्जिते ।
वासुदेवपरा मर्त्यास्ते कृतार्था न संशयः ॥ ३१ ॥
ते सभाग्या मनुष्येषु कृतार्था नृप निश्चितम् ।
स्मरन्ति स्मारयन्ते ये हरेर्नामानि वै कलौ ॥ ३२ ॥
कृषिश्च सर्ववचनो णकारश्चात्मवाचकः ।
सर्वात्मा च परं ब्रह्म तेन कृष्णः प्रकीर्तितः ॥ ३३ ॥
संजप्य ब्रह्म परमं वेदसारं परात्परम् ।
परं नास्तीति नास्तीति कृष्ण इत्यक्षरद्वयम् ॥ ३४ ॥
तावद्गर्भे वसेत्कामी तावती यमयातना ।
तावद्गृही च भोगार्थी यावत्कृष्णं न सेवते ॥ ३५ ॥
नश्वरो विषमः सत्यं भोगश्च बन्धवो भुवि ।
स्वयं त्यक्ताः सुखायैव दुःखाय त्याजिताः परैः ॥ ३६ ॥
श्रुत्वा दैवान्महन्निंदां श्रीकृष्णस्मरणाद्बुधः ।
मुच्यते सर्वपापेभ्यो नान्यथा रौरवं व्रजेत् ॥ ३७ ॥
न काष्ठे विद्यते देवो न शिलायां न कांचने ।
यत्र भावस्तत्र हरिस्तस्माद्भावं हि कारयेत् ॥ ३८ ॥
सकृदुच्चरितं येन कृष्ण इत्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ ३९ ॥
सरोगता साधुजनेषु वैरं
परोपतापो द्विजवेदनिंदा ।
अत्यन्तकोपः कटुका च वाणी
नरस्य चिह्नं नरके गतस्य ॥ ४० ॥
स्वर्गागतानामिह जीवलोके
चत्वारि चिह्नानि सदा वसन्ति ।
दानप्रसंगो मधुरा च वाणी
देवार्चनं ब्राह्मणपूजनं च ॥ ४१ ॥
राजोवाच -
व्रतेषु किं वरं ब्रह्मन्सत्सु तीर्थेषु किं महत् ।
देवेषु पूजनीयेषु को मुख्यः कथयस्व नः ॥ ४२ ॥
गर्ग उवाच -
एकादशी वरा ह्यस्ति व्रतेषु यदुनन्दन ।
भागीरथी च तीर्थेषु देवभक्तेषु वैष्णवः ॥ ४३ ॥
सुरेषु विष्णुर्भगवान्पूजनीयेषु श्रीगुरुः ।
इमां वार्तां न मन्यन्ते कुंभिपाके पतन्ति ते ॥ ४४ ॥
राजोवाच -
एकादश्यास्तु महात्म्यमन्येषां चैव मे मुने ।
कथयस्व प्रसादेन गुरुदेव नमोऽस्तु ते ॥ ४५ ॥
गर्ग उवाच -
कथयिष्याम्यहं सर्वं शृणुष्व यदुनन्दन ।
एकादश्यां न भोक्तव्यमन्नं चैव फलं तथा ॥ ४६ ॥
यथोक्तविधिना कुर्य्यादेकादशीं मुदा नरः ।
तदा सा तस्य फलदा भवेत नृपसत्तम ॥ ४७ ॥
व्रजनाभिरुवाच -
फलाहारं च कुर्वन्ति ये नरा हरिवासरे ।
तेषां गतिः का भवति तन्नो वर्णय विस्तरात् ॥ ४८ ॥
ऋषिरुवाच -
समस्तं चोपवासेन यथोक्तं लभते फलम् ।
फलाहारेण चार्द्धं स्यात्किंचिन्न्यूनं जलेन च ॥ ४९ ॥
अन्नान्सर्वान्वर्जयित्वा गोधूमाद्यान्नृपेश्वर ।
एकादश्यां प्रकुर्वीत फलाहारं मुदा नरः ॥ ५० ॥
अन्नं भुनक्ति यो राजन्नेकादश्यां नराधमः ।
इह लोके स चांडालो मृतः प्राप्नोति दुर्गतिम् ॥ ५१ ॥
दधि दुग्धं तथा मिष्टं कूटं कर्कटिकां तथा ।
वास्तूकं पद्ममूलं च रसालं जानकीफलम् ॥ ५२ ॥
गंगाफलं पत्रनिंबून्दाडिमञ्च विशेषतः ।
शृङ्गाटकं नागरंगं सैंधवं कदलीफलम् ॥ ५३ ॥
आम्रातकमार्द्रकं च तूलं च बदरीफलम् ।
जंबूफलमामलकं पटोलं त्रिकुशं तथा ॥ ५४ ॥
रतालूं शर्कराकंदमिक्षुदंडं तथैव च ।
द्राक्षादीनि हि चान्यानि पवित्रं च फलं तथा ॥ ५५ ॥
एकवारं च राजेन्द्र भोक्तव्यं हरिवासरे ।
तृतीये प्रहरेऽतीते प्रस्थस्य च पलस्य च ॥ ५६ ॥
द्विजाय चार्द्धंदातव्य-मर्द्धमात्मनि भोजनम् ।
द्विवारं जलमश्नीयादेकवारं फलं तथा ॥ ५७ ॥
समाचरेज्जागरणं पूजयित्वा जनार्दनम् ।
द्विवारं वा त्रिवारं वा यो नरो हरिवासरे ॥ ५८ ॥
करोति च फलाहारं तस्य किंचित्फलं न हि ।
अन्नभुक्तेन यत्पापं जातं पंचदशैर्दिनैः ॥ ५९ ॥
एकादश्युपवासेन तत्सर्वं विलयं भवेत् ।
भोजनं ब्राह्मणे दत्त्वा ह्युपवासं समाचरेत् ॥ ६० ॥
श्रुत्वा तस्याश्च माहात्म्यं सर्वपापैः प्रमुच्यते ।
द्रव्यार्थी लभते द्रव्यं सुतार्थी लभते सुतम् ।
मोक्षार्थी लभते मोक्षमेकादश्या व्रतेन वै ॥ ६१ ॥
इति श्रीमद्गर्गसंहितायामश्वमेधखण्डे
एकादशीमाहात्म्यं नामैकषष्टितमोऽध्यायः ॥ ६१ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥