गर्गसंहिता/खण्डः १ (गोलोकखण्डः)/अध्यायः ०५
विविधगोपीजन्मकथा
रमावैकुण्ठवासिन्यः श्वेतद्वीपसखीजनाः ।
ऊर्ध्वं वैकुण्ठवासिन्यस्तथाजितपदाश्रिताः ॥ १ ॥
श्रीलोकाचलवासिन्यः श्रीसख्योऽपि समुद्रजाः ।
ता गोप्योऽभिभविष्यन्ति लक्ष्मीपतिवराद्व्रजे ॥ २ ॥
काश्चिद्दिव्या अदिव्याश्च तथा त्रिगुणवृत्तयः ।
भूमिगोप्यो भविष्यन्ति पुण्यैर्नानाविधैः कृतैः ॥ ३ ॥
यज्ञावतारं रुचिरं रुचिपुत्रं दिवस्पतिम् ।
मोहिताः प्रीतिभावेन वीक्ष्य देवजनस्त्रियः ॥ ४ ॥
ताश्च देवलवाक्येन तपस्तेपुर्हिमाचले ।
भक्त्या परमया ता मे गोप्यो भाव्या व्रजे विधे ॥ ५ ॥
अन्तर्हिते भगवति देवे धन्वन्तरौ भुवि ।
ओषध्यो दुःखमापन्ना निष्फला भारतेऽभवन् ॥ ६ ॥
सिद्ध्यर्थं तास्तपस्तेपुः स्त्रियो भूत्वा मनोहराः ।
चतुर्युगे व्यतीते तु प्रसन्नोऽभूद्धरिः परम् ॥ ७ ॥
वरं वृणीत चेत्यृक्तं श्रुत्वा नार्यो महावने ।
तं दृष्ट्वा मोहमापन्ना ऊचुर्भर्ता भवात्र नः ॥ ८ ॥
वृन्दावने द्वापरान्ते लता भूत्वा मनोहराः ।
भविष्यथ स्त्रियो रासे करिष्यामि वचश्च वः ॥ ९ ॥
श्रीभगवानुवाच -
भक्तिभावसमायुक्ता भूरिभाग्या वरांगनाः ।
लतागोप्यो भविष्यन्ति वृन्दारण्ये पितामह ॥ १० ॥
जालन्धर्य्यश्च या नार्यो वीक्ष्य वृन्दापतिं हरिम् ।
ऊचुर्वायं हरिः साक्षादस्माकं तु वरो भवेत् ॥ ११ ॥
आकाशवागभूत्तासां भजताशु रमापतिम् ।
यथा वृन्दा तथा यूयं वृन्दारण्ये भविष्यथ ॥ १२ ॥
समुद्रकन्याः श्रीमत्स्यं हरिं दृष्ट्वा च मोहिताः ।
ता हि गोप्यो भविष्यन्ति श्रीमत्स्यस्य वराद्व्रजे ॥ १३ ॥
आसीद्राजा पृथुः साक्षान्ममांशश्चण्डविक्रमः ।
जित्वा शत्रून्नृपश्रेष्ठो धरां कामान्दुदोह ह ॥ १४ ॥
बर्हिष्मतीभवास्तत्र पृथुं दृष्ट्वा पुरस्त्रियः ।
अत्रेः समीपमागत्य ता ऊचुर्मोहविह्वलाः ॥ १५ ॥
अयं तु राजराजेन्द्रः पृथुः पृथुलविक्रमः ।
कथं वरो भवेन्नो वै तद्वद त्वं महामुने ॥ १६ ॥
अत्रिरुवाच -
गोदोहं कुरुताश्वद्य पृथ्वीयं धारणामयी ।
सर्वं दास्यति वो दुर्गं मनोरथमहार्णवम् ॥ १७ ॥
मनोरथं प्रदुदुहुर्मनःपात्रेण ताश्च गाम् ।
तस्माद्गोप्यो भविष्यन्ति वृन्दारण्ये पितामह ॥ १८ ॥
कामसेनामोहनार्थं दिव्या अप्सरसो वराः ।
नारायणस्य सहसा बभूवुर्गन्धमादने ॥ १९ ॥
भर्तुकामाश्च ता आह सिद्धो नारायणो मुनिः ।
मनोरथो वो भविता व्रजोगोप्यो भविष्यथ ॥ २० ॥
स्त्रियः सुतलवासिन्यो वामनं वीक्ष्य मोहिताः ।
तपस्तप्ता भविष्यन्ति गोप्यो वृन्दावने विधे ॥ २१ ॥
नागेन्द्रकन्या याः शेषं भेजुर्भक्त्या वरेच्छया ।
संकर्षणस्य रासार्थं भविष्यंति व्रजे च ताः ॥ २२ ॥
कश्यपो वसुदेवश्च देवकी चादितिः परा ।
शूरः प्राणो ध्रुवः सोऽपि देवकोऽवतरिष्यति ॥ २३ ॥
वसुश्चैवोद्धवः साक्षाद्दक्षोऽक्रूरो दयापरः ।
हृदीको धनदश्चैव कृतवर्मा त्वपांपतिः ॥ २४ ॥
गदः प्राचीनबर्हिश्च मरुतो ह्युग्रसेन उत् ।
तस्य रक्षां करिष्यामि राज्यं दत्त्वा विधानतः ॥ २५ ॥
युयुधानश्चाम्बरीषः प्रह्लादः सात्यकिस्तथा ।
क्षीराब्धिः शन्तनुः साक्षाद्भीष्मो द्रोणो वसूत्तमः ॥ २६ ॥
शलश्चैव दिवोदासो धृतराष्ट्रो भगो रविः ।
पाण्डुः पूषा सतां श्रेष्ठो धर्मो राजा युधिष्ठिरः ॥ २७ ॥
भीमो वायुर्बलिष्ठश्च मनुः स्वायंभुवोऽर्जुनः ।
शतरूपा सुभद्रा च सविता कर्ण एव हि ॥ २८ ॥
नकुलः सहदेवश्च स्मृतौ द्वावश्विनीसुतौ ।
धाता बाह्लीकवीरश्च वह्निर्द्रोणः प्रतापवान् ॥ २९ ॥
दुर्योधनः कलेरंशोऽभिमन्युः सोम एव च ।
द्रौणिः साक्षाच्छिवस्यापि रूपं भूमौ भविष्यति ॥ ३० ॥
इत्थं यदोः कौरवाणामन्येषां भूभुजां नृणाम् ।
कुले कुले च भवतः स्वांशैः स्त्रीभिर्मदाज्ञया ॥ ३१ ॥
ये येऽवतारा मे पूर्वं तेषां राज्ञ्यो रमांशकाः ।
भविष्या राजराज्ञीषु सहस्राणि च षोडश ॥ ३२ ॥
श्रीनारद उवाच -
इत्युक्त्वा श्रीहरिस्तत्र ब्रह्माणं कमलासनम् ।
दिव्यरूपां भगवतीं योगमायामुवाच ह ॥ ३३ ॥
देवक्याः सप्तमं गर्भं संनिकृष्य महामते ।
वसुदेवस्य भार्यायां कंसत्रासभयात्पुनः ॥ ३४ ॥
नन्दव्रजे स्थितायां च रोहिण्यां सन्निवेशय ।
नंदपत्न्यां भव त्वं वै कृत्वेदं कर्म चाद्भुतम् ॥ ३५ ॥
श्रीनारद उवाच -
श्रुत्वा ब्रह्मा देवगणैर्नत्वा कृष्णं परात्पराम् ।
भूमिमाश्वास्य वाणीभिः स्वधाम च समाययौ ॥ ३६ ॥
परिपूर्णतमं साक्षाच्छ्रीकृष्णं विद्धि मैथिल ।
कंसादीनां वधार्थाय प्राप्तोयं भूमिमण्डले ॥ ३७ ॥
रोममात्रतनौ जिव्हा भवंत्वित्थं यदा नृप ।
तदापि श्रीहरेस्तस्य वर्ण्यते न गुणो महान् ॥ ३८ ॥
नभः पतन्ति विहगा यथा ह्यात्मसमं नृप ।
तथा कृष्णगतिं दिव्यां वदन्तीह विपश्चितः ॥ ३९ ॥
इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे अवतारव्यवस्था नाम पंचमोऽध्यायः ॥ ५ ॥