गर्गसंहिता/खण्डः १ (गोलोकखण्डः)/अध्यायः १२

श्रीनंदमहोत्सववर्णनं

श्रीनारद उवाच -
अथ पुत्रोत्सवं जातं श्रुत्वा नन्द उषःक्षणे ।
ब्राह्मणांश्च समाहूय कारयामास मंगलम् ॥ १ ॥
सविधिं जातकं कृत्वा नन्दराजो महामनाः ।
विप्रेभ्यो दक्षिणाभिश्च मुदा लक्षं गवां ददौ ॥ २ ॥
क्रोशमात्रं रत्‍नसानून्सुवर्णखिखरान् गिरीन् ।
सरसान्सप्तधान्यानां ददौ विप्रेभ्य आनतः ॥ ३ ॥
मृदंगवीणाशंखाद्या नेदुर्दुंदुभयो मुहुः ।
गायकाश्च जगुर्द्वारे ननृतुर्वारयोषितः ॥ ४ ॥
पताकैर्हेमकलशैर्वितानैस्तोरणैः शुभैः ।
अनेकवर्णैश्चित्रैश्च बभौ श्रीनन्दमन्दिरम् ॥ ५ ॥
रथ्या वीथ्यश्च देहल्यो भित्तिप्रांगणवेदिकाः ।
तोलिकामंडपसभा रेजुर्गन्धिजलांबरैः ॥ ६ ॥
गावः सुवर्णशृङ्ग्यश्च हेममालालसद्‌गलाः ।
घंटामंजीरझंकारा रक्तकंबलमंडिताः ॥ ७ ॥
पीतपुच्छाः सवत्साश्च तरुणीकरचिह्निताः ।
हरिद्राकुंकुमैर्युक्ताः चित्रधातुविचित्रिताः ॥ ८ ॥
बर्हिपुच्छैर्गन्धजलैर्वृषा धर्मदुरंधराः ।
इतस्ततो विरेजुः श्रीनन्दद्वारि मनोहराः ॥ ९ ॥
गोवत्सा हेममालाढ्या मुक्ताहारविराजिताः ।
इतस्ततो विलंघन्तो मंजीरचरणां सिताः ॥ १० ॥
श्रुत्वा पुत्रोत्सवं तस्य वृषभानुवरस्तथा ।
कलावत्या गजारूढो नन्दमंदिरमाययौ ॥ ११ ॥
नन्दा नवोपनन्दाश्च तथा षड्वृषभानवः ।
नानोपायनसंयुक्ताः सर्वे तेऽपि समाययुः ॥ १२ ॥
उष्णीषोपरि मालाढ्याः पीतकंचुकशोभिताः ।
बर्हगुंजाबद्धकेशा वनमालाविभूषणाः ॥ १३ ॥
वंशीधरा वेत्रहस्ताः सुपत्रतिलकार्चिताः ।
बद्धवर्णाः परिकरा गोपास्तेऽपि समाययुः ॥ १४ ॥
नृत्यन्तः परिगायंतो धुन्वंतो वसनानि च ।
नानोपायनसंयुक्ताः श्मश्रुलाः शिशवः परे ॥ १५ ॥
हैयंगवीनदुग्धानां दध्याज्यानां बलीन्बहून् ।
नीत्वा वृद्धा यष्टिहस्ता नन्दमंदिरमाययुः ॥ १६ ॥
पुत्रोत्सवं व्रजेशस्य कथयन्तः परस्परम् ।
प्रेमविह्वलभावैः स्वैरानन्दाश्रुसमाकुलाः ॥ १७ ॥
जाते पुत्रोत्सवे नन्दः स्वानंदाश्रुकुलेक्षणः ।
पूजयामास तान् सर्वांस्तिलकाद्यैर्विधानतः ॥ १८ ॥
गोपा ऊचुः -
हे व्रजेश्वर हे नन्द जातः पुत्रोत्सवस्तथा ।
अनपत्यस्येच्छतोऽलमतः किं मंगलं परम् ॥ १९ ॥
दैवेन दर्शितं चेदं दिनं वो बहुभिर्दिनैः ।
कृतकृत्याश्च भूताः स्मो दृष्ट्वा श्रीनन्दनन्दनम् ॥ २० ॥
हे मोहनेति दुरात्तमंकं नीत्व गदिष्यसि ।
यदा लालनभावेब भविता नस्तदा सुखम् ॥ २१ ॥
श्रीनन्द उवाच -
भवतामाशिषः पुण्याज्जातं सौख्यमिदं शुभम् ।
आज्ञावर्ती ह्यहं गोपा गोपानां व्रजवासिनाम् ॥ २२ ॥
श्रीनन्दराजसुतसंभवमद्‌भुतं च
     श्रुत्वा विसृज्य गृहकर्म तदैव गोप्यः ।
तूर्णं ययुः सबलयो व्रजराजगेहा-
     नुद्यत्प्रमोदपरिपूरितहृन्महोऽङ्‌गाः ॥ २३ ॥
आनन्दमंदिरपुरात्स्वगृहोन् व्रजन्त्यः
     सर्वा इतस्तत उत त्वरमाव्रजन्त्यः ।
यानश्लथद्‌वसनभूषणकेशबन्धा
     रेजुर्नरेन्द्र पथि भूपरिमुक्तमुक्ताः ॥ २४ ॥
झंकारनूपुरनवांगदहेमचीर-
     मञ्जीरहारमणिकुंडलमेखलाभिः ।
श्रीकंठसूत्रभुजकंकणबिंदुकाभिः
     पूर्णेन्दुमंडलनवद्युतिभिर्विरेजुः ॥ २५ ॥
श्रीराजिकालवणरात्रिविशेषचूर्णै-
     र्गोधूमसर्षपयवैः करलालनैश्च ।
उत्तार्य बालकमुखोपरि चाशिषस्ताः
     सर्वा ददुर्नृप जगुर्जगदुर्यशोदाम् ॥ २६ ॥
गोप्य ऊचुः -
साधु साधु यशोदे ते दिष्ट्या दिष्ट्या व्रजेश्वरि ।
धन्या धन्या परा कुक्षिर्ययाऽयं जनितः सुतः ॥ २७ ॥
इच्छा युक्तं कृतं ते वै देवेन बहुकालतः ।
रक्ष बालं पद्मनेत्रं सुस्मितं श्यामसुन्दरम् ॥ २८ ॥
श्रीयशोदा उवाच -
भवदीयदयाशीर्भिर्जातः सौख्यं परं च मे ।
भवतीनामपि परं दिष्ट्या भूयादतः परम् ॥ २९ ॥
हे रोहिणि महाबुद्धे पूजनं तु व्रजौकसाम् ।
आगतानां सत्कुलानां यथेष्टं हीप्सितं कुरु ॥ ३० ॥
श्रीनारद उवाच -
रोहिणी राजकन्याऽपि तत्करौ दानशीलिनौ ।
तत्रापि नोदिता दाने ददावतिमहामनाः ॥ ३१ ॥
गौरवर्णा दिव्यवासा रत्‍नाभरणभूषिता ।
व्यचरद्रोहिणी साक्षात्पूजयंती व्रजौकसः ॥ ३२ ॥
परिपूर्णतमे साक्षाच्छ्रीकृष्णे व्रजमागते ।
नदत्सु नरतूर्येषु जयध्वनिरभून्महान् ॥ ३३ ॥
दधिक्षीरघृतैर्गोपा गोप्यो हैयंगवैर्नवैः ।
सिषिचुर्हर्षितास्तत्र जगुरुच्चैः परस्परम् ॥ ३४ ॥
बहिरन्तपुरेः जाते सर्वतो दधिकर्दमे ।
वृद्धाश्च स्थूलदेहाश्च पेतुर्हास्यं कृतं परैः ॥ ३५ ॥
सूताः पौराणिकाः प्रोक्ता मागधा वंशशंसकाः ।
वन्दिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तयः ॥ ३६ ॥
तेभ्यो नंदो महाराजः सहस्रं गाः पृथक् पृथक् ।
वासोऽलंकाररत्‍नानि हयेभानखिलान्ददौ ॥ ३७ ॥
वन्दिभ्यो मागधेभ्यश्च सर्वेभ्यो बहुलं धनम् ।
ववर्ष घनवद्‌गोपो नंदराजो व्रजेश्वरः ॥ ३८ ॥
निधिः सिद्धिश्च वृद्धिश्च भुक्तिर्मुक्तिर्गृहे गृहे ।
वीथ्यां वीथ्यां लुठन्तीव तदिच्छा कस्यचिन्न हि ॥ ३९ ॥
सनत्कुमारः कपिलः शुकव्यासादिभिः सह ।
हंसदत्तपुलस्त्याद्यैर्मया ब्रह्मा जगाम ह ॥ ४० ॥
हंसारूढो हेमवर्णो मुकुटी कुण्डली स्फुरन् ।
चतुर्मुखो वेदकर्ता द्योतयन्मंडलं दिशाम् ॥ ४१ ॥
तथा तमनु भुताढ्यो वृषारूढो महेश्वरः ।
रथारूढो रविः साक्षात्‌गजारूढः पुरंदरः ॥ ४२ ॥
वायुश्च खंजनारूढो यमो महिषवाहनः ।
धनदः पुष्पकारूढो मृगारूढः क्षपेश्वरः ॥ ४३ ॥
अजारूढो वीतिहोत्रो वरुणो मकरस्थितः ।
मयूरस्थः कार्तिकेयो भारती हंसवाहिनी ॥ ४४ ॥
लक्ष्मी च गरुडारूढा दुर्गाख्या सिंहवाहिनी ।
गोरूपधारिणी पृथ्वी विमानस्था समाययौ ॥ ४५ ॥
दोलारूढा दिव्यवर्णा मुख्याः षोडशमातृकाः ।
षष्ठी च शिबिकारूढा खड्‌गिनी यष्टिधारिणी ॥ ४६ ॥
मंगलो वानरारूढो भासारूढो बुधः स्मृतः ।
गीष्पतिः कृष्णसारस्थः शुक्रो गवयवाहनः ॥ ४७ ॥
शनिश्च मकरारूढ उष्ट्रस्थः सिंहिकासुतः ।
कोटिबालार्कसंकाश आययौ नन्दमन्दिरम् ॥ ४८ ॥
कोलाहलसमायुक्तं गोपगोपीगणाकुलम् ।
नन्दमन्दिरमभ्येत्य क्षणं स्थित्वा ययुः सुराः ॥ ४९ ॥
परिपूर्णतमं साक्षाच्छ्रीकृष्णं बालरूपिणम् ।
नत्वा दृष्ट्वा तदा देवाश्चक्रुस्तस्य स्तुतिं पराम् ॥ ५० ॥
वीक्ष्य कृष्णं तदा देवा ब्रह्माद्या ऋषिभिः सह ।
स्वधामानि ययुः सर्वे हर्षिताः प्रेमविह्वलाः ॥ ५१ ॥

इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे श्रीनंदमहोत्सववर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥