गर्गसंहिता/खण्डः २ (वृन्दावनखण्डः)/अध्यायः १३

शेषोपाख्यानवर्णनम् -

वैदेह उवाच -
यद्‌रजो दुर्लभं लोके योगिनां बहुजन्मभिः ।
तत्पादाब्जं हरेः साक्षाद्‌बभौ कालियमूर्द्धसु ॥ १ ॥
कोऽयं पूर्वं कुशलकृत्कालियो फणिनां वरः ।
एनं वेदितुमिच्छामि ब्रूहि देवर्षिसत्तम ॥ २ ॥
श्रीनारद उवाच -
स्वायंभुवान्तरे पूर्वं नाम्ना वेदशिरा मुनिः ।
विंध्याचले तपोऽकार्षीद्‌भृगुवंशसमुद्‌भवः ॥ ३ ॥
तदाश्रमे तपः कर्तुं प्राप्तो ह्यश्वशिरा मुनिः ।
तं वीक्ष्य रक्तनयनः प्राह वेदशिरा रुषा ॥ ४ ॥
वेदशिरा उवाच -
ममाश्रमे तपो विप्र मा कुर्याः सुखदं न हि ।
अन्यत्र ते तपोयोग्या भूमिर्नास्ति तपोधन ॥ ५ ॥
श्रीनारद उवाच -
श्रुत्वाऽथ वेदशिरसो वाक्यं ह्यश्वशिरा मुनिः ।
क्रोधयुक्तो रक्तनेत्रः प्राह तं मुनिपुंगवम् ॥ ६ ॥
अश्वशिरा उवाच -
महाविष्णोरियं भूमिः न ते मे मुनिसत्तम ।
कतिभिर्मुनिभिश्चात्र न कृतं तप उत्तमम् ॥ ७ ॥
श्वसन् सर्प इव त्वं भो वृथा क्रोधं करोषि हि ।
तदा सर्पो भव त्वं हि भूयात्ते गरुडाद्‌भयम् ॥ ८ ॥
वेदशिरा उवाच -
त्वं महादुरभिप्रायो लघुद्रोहे महोद्यमः ।
कार्यार्थी काम इव कौ त्वं काको भव दुर्मते ॥ ९ ॥
आविरासीत्ततो विष्णुरित्थं च शपतोस्तयोः ।
स्वस्वशापाद्दुःखितयोः सांत्वयामास तौ गिरा ॥ १० ॥
श्रीभगवानुवाच -
युवां तु मे समौ भक्तौ भुजाविव तनौ मुनी ।
स्ववाक्यं तु मृषा कर्तुं समर्थोऽहं मुनीश्वरौ ॥ ११ ॥
भक्तवाक्यं मृषा कर्तुं नेच्छामि शपथो मम ।
ते मूर्ध्नि हे वेदशिरः चरणौ मे भविष्यतः ॥ १२ ॥
तदा ते गरुडाद्‌भीतिः न भविष्यति कर्हिचित् ।
शृणु मेऽश्वशिरो वाक्यं शोचं मा कुरु मा कुरु ॥ १३ ॥
काकरूपेऽपि सुज्ञानं ते भविष्यति निश्चितम् ।
परं त्रैकालिकं ज्ञानं संयुतं योगसिद्धिभिः ॥ १४ ॥
श्रीनारद उवाच -
उत्युक्त्वाथ गते विष्णौ मुनिरश्वशिरा नृप ।
साक्षात्काकभुषंडोऽभूद्‌योगींद्रो नीलपर्वते ॥ १५ ॥
रामभक्तो महातेजाः सर्वशास्त्रार्थदीपकः ।
रामायणं जगौ यो वै गरुडाय महात्मने ॥ १६ ॥
चाक्षुषे ह्यन्तरे प्राप्ते दक्षः प्राचेतसो नृप ।
कश्यपाय ददौ कन्या एकादश मनोहराः ॥ १७ ॥
तासां कद्रूश्च या श्रेष्ठा साऽद्यैव रोहिणी स्मृता ।
वसुदेवप्रिया यस्यां बलदेवोऽभवत्सुतः ॥ १८ ॥
सा कद्रूश्च महासर्पान् जनयामास कोटिशः ।
महोद्‌भटान् विषबलानुग्रान् पंचशताननान् ॥ १९ ॥
महाफणिधरान् कांश्चिद्दुःसहांश्च शताननान् ।
तेषां वेदशिरा नाम कालियोऽभून्महाफणी ॥ २० ॥
तेषामादौ फणीन्द्रोऽभूच्छेषोऽनन्तः परात्परः ।
सोऽद्यैव बलदेवोऽस्ति रामोऽनन्तोऽच्युताग्रजः ॥ २१ ॥
एकदा श्रीहरिः साक्षाद्‌भगवान् प्रकृतेः परः ।
शेषं प्राह प्रसन्नात्मा मेघगंभीरया गिरा ॥ २२ ॥
श्रीभगवानुवाच - भूमंडलं समाधातुं सामर्थ्यं कस्यचिन्न हि ।
तस्मादेनं महीगोलं मूर्ध्नि तं हि समुद्धर ॥ २३ ॥
अनंतविक्रमस्त्वं वै यतोऽनन्त इति स्मृतः ।
इदं कार्यं प्रकर्तव्यं जनकल्याणहेतवे ॥ २४ ॥
शेष उवाच -
अवधिं कुरु यावत्त्वं धरोद्धारस्य मे प्रभो ।
भूभारं धारयिष्यामि तावत्ते वचनादिह ॥ २५ ॥
श्रीभगवानुवाच -
नित्यं सहस्रवदनैरुच्चारं च पृथक् पृथक् ।
मद्‌गुणस्फुरतां नाम्नां कुरु सर्पेंद्र सर्वतः ॥ २६ ॥
मन्नामानि च दिव्यानि यदा यांत्यवसानताम् ।
तदा भूभारमुत्तार्य फणिस्त्वं सुसुखी भव ॥ २७ ॥
शेष उवाच -
आधारोऽहं भविष्यामि मदाधारश्च को भवेत् ।
निराधारः कथं तोये तिष्ठामि कथय प्रभो ॥ २८ ॥
श्रीभगवानुवाच -
अहं च कमठो भूत्वा धारयिष्यामि ते तनुम् ।
महाभारमयीं दीर्घां मा शोचं क्रु मत्सखे ॥ २९ ॥
श्रीनारद उवाच -
तदा शेषः समुत्थाय नत्वा श्रीगरुडध्वजम् ।
जगाम नृप पातालादधो वै लक्षयोजनम् ॥ ३० ॥
गृहीत्वा स्वकरेणेदं गरिष्ठं भूमिमंडलम् ।
दधार स्वफणे शेषोऽप्येकस्मिंश्चंडविक्रमः ॥ ३१ ॥
संकर्षणेऽथ पाताले गतेऽनन्तपरात्परे ।
अन्ये फणीन्द्रास्तमनु विविशुर्ब्रह्मणोदिताः ॥ ३२ ॥
अतले वितले केचित्सुतले च महातले ।
तलातले तथा केचित्संप्राप्तास्ते रसातले ॥ ३३ ॥
तेभ्यस्तु ब्रह्मणा दत्तं द्वीपं रमणकं भुवि ।
कालियप्रमुखास्तस्मिन् अवसन्सुखसंवृताः ॥ ३४ ॥
इति ते कथितं राजन् कालियस्य कथानकम् ।
भुक्तिदं मुक्तिदं सारं किं भूयः श्रोतुमिच्छसि ॥ ३५ ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे शेषोपाख्यानवर्णनं नाम त्रयोशोऽध्यायः ॥ १३ ॥