गर्गसंहिता/खण्डः २ (वृन्दावनखण्डः)/अध्यायः २१

रासक्रीडा वर्णनम् -

श्रीनारद उवाच -
इत्थं कुंदवने रम्ये मालतीनां वने शुभे ।
आम्राणां नागरंगाणां निंबूनां सघने वने ॥ १ ॥
दाडिमीनां च द्राक्षाणां बदामानां वने नृप ।
कदम्बानां श्रीफलानां कुटजानां तथैव च ॥ २ ॥
वटानां पनसानां च पिप्पलानां वने शुभे ।
तुलसीकोविदाराणां केतकीकदलीवने ॥ ३ ॥
करिल्लकुञ्जबकुलमन्दाराणां वने हरिः ।
चरन्कामवनं प्रागाद्‌राजन् व्रजवधूवृतः ॥ ४ ॥
तत्रैव पर्वते कृष्णो ननाद मुरली कलम् ।
मूर्च्छिता विह्वला जातास्तन्नादेन व्रजांगनाः ॥ ५ ॥
मनोजबाणभिन्नांगाः श्लथन्नीव्यः सुरैः सह ।
कश्मलं प्रययू राजन् विमानेष्वमरांगनाः ॥ ६ ॥
चतुर्विधा जीवसंघाः स्थावरैर्मोहमास्थिताः ।
नद्यो नदाः स्थिरीभूताः पर्वता द्रवतां गताः ॥ ७ ॥
तत्पादचिह्नसंयुक्तो गिरिः कामवनेऽभवत् ।
तस्य दर्शनमात्रेण नरो याति कृतार्थताम् ॥ ८ ॥
अथ गोपीगणैः साकं श्रीकृष्णो राधिकापतिः ।
नंदीश्वरबृहत्सानुतटे रासं चकार ह ।
तत्र गोप्योऽतिमानिन्यो बभूवुर्मैथिलेश्वर ।
तास्त्यक्त्वा राधया सार्धं तत्रैवान्तर्दधे हरिः ॥ १० ॥
गोप्यश्च सर्वा विरहातुरा भृशं
     कृष्णं विना मैथिल निर्जने वने ।
ता बभ्रमुश्चाश्रुकलाकुलाक्ष्यो
     यथा हरिण्यश्चकिता इतस्ततः ॥ ११ ॥
कृष्णं ह्यपश्यन्त्य इति व्यथां गता
     यथा करिण्यः करिणं वने वने ।
यथा कुरर्यः कुररं व्रजांगनाः
     सर्वा रुदन्त्यो विरहातुरा भृशम् ॥ १२ ॥
उन्मत्तवद्‌वृक्षलताकदम्बकं
     सर्वा मिलित्वा च पृथग्वने वने ।
पप्रच्छुरारान्नृप नंदनंदनं
     कुत्र स्थितं तं वदताशु भूरुहाः ॥ १३ ॥
श्रीकृष्ण कृष्णेति गिरा वदन्त्यः
     श्रीकृष्णपादांबुजलग्नमानसाः ।
श्रीकृष्णरूपास्तु बभूवुरंगनाः
     चित्रं न पेशस्कृतमेत्य कीटवत् ॥ १४ ॥
श्रीपादुकाधःस्थलगोपिगोप्यः
     श्रीपादुकाब्जं शरनं प्रपन्नाः ॥ १५ ॥
ततस्तु तत्प्रसादेन तत्पदार्चनदर्शनात् ।
ददृशुर्गां तदा गोप्यो भगवत्पाद चिह्निताम् ॥ १६ ॥
श्रीबहुलाश्व उवाच -
राधेशो राधया सार्धं संकेतवटमाविशत् ।
प्रियायाः कबरीपुष्परचनां स चकार ह ॥ १७ ॥
श्रीनारद उवाच -
श्रीकृष्णो राधया सार्धं संकेतवटमाविशत् ।
चित्रपत्रावलीः कृष्ण पूर्णेन्दुमुखमंडले ॥ १९ ॥
एवं कृष्णो भद्रवनं खदिराणां वनं महत् ।
बिल्वानां च वनं पश्यन् कोकिलाख्यं वनं गतः ॥ २० ॥
गोप्यः कृष्णं विचिन्वन्त्यो ददृशुस्तत्पदानि च ।
यवचक्रध्वजच्छत्रैः स्वस्तिकाङ्कुशबिन्दुभिः ॥ २१ ॥
अष्टकोणेन वज्रेण पद्मेनाभियुतानि च ।
नीलशङ्खघटैर्मत्स्यत्रिकोणेषूर्ध्वधारकैः ॥ २२ ॥
धनुर्गोखुरचन्द्रार्द्धशोभितानि महात्मनः ।
तत्पदान्यनुसारेण व्रजन्त्यो गोपिकास्ततः ॥ २३ ॥
तद्‌रजः सततं नीत्वा धृत्वा मूर्ध्नि व्रजांगनाः ।
पदान्यन्यानि ददृशुरन्यचिह्नान्वितानि च ॥ २४ ॥
केतुपद्मातपत्रैश्च यवेनाथोर्ध्वरेखया ।
चक्रचंद्रार्धांकुशकैर्बिंदुभिः शोभितानि च ॥ २५ ॥
लवंगलतिकाभिश्च विचित्राणि विदेहराट् ।
गदापाठीनशंखैश्च गिरिराजेन शक्तिभिः ॥ २६ ॥
सिंहासनरथाभ्यां च बिंदुद्वययुतानि च ।
वीक्ष्य प्राहू राधिकया गतोऽसौ नंदनंदनः ॥ २७ ॥
पश्यत्यस्तत्पादपद्मं कोकिलाख्यं वनं गताः ।
गोपीकोलाहलं श्रुत्वा राधिकां प्राह माधवः ॥ २८ ॥
कोटिचंद्रप्रतीकाशे राधे सर्प त्वरं प्रिये ।
आगता गोपिकाः सर्वास्त्वां नेष्यन्ति हि सर्वतः ॥ २९ ॥
तदा मानवती राधा भूत्वा प्राह रमापतिम् ।
रूपयौवनकौशल्यशीलगर्वसमन्विता ॥ ३० ॥
राधोवाच -
चलितुं न समर्थाऽहं मन्दिरान्ना विनिर्गता ।
सुकुमारी स्वेदयुक्ता कथं मां नयसि प्रिय ॥ ३१ ॥
नारच उवाच -
इति वाक्यं ततः श्रुत्वा श्रीकृष्णो राधिकेश्वरः ।
पीतांबरेण दिव्येन वायुं तस्यै चकार ह ॥ ३२ ॥
हस्तं गृहीत्वा तामाह गच्छ राधे यथासुखम् ।
कृष्णेनापि तदा प्रोक्ता न ययौ तेन वै पुनः ॥ ३३ ॥
पृष्ठं दत्त्वाऽथ हरये तूष्णींभूता स्थिता पुनः ।
प्रियां मानवतीं राधां प्राह कृष्णः सतां प्रियः ॥ ३४ ॥
श्रीभगवानुवाच -
विहाय गोपीरिह कामयाना
     भजाम्यहं मानिनि चेतसा त्वाम् ।
यत्ते प्रियं तत्प्रकरोमि राधे
     मे स्कंधमारुह्य सुखं व्रजाशु ॥ ३५ ॥
श्रीनारद उवाच -
एवं प्रियां प्रियतमः स्कंधयानेप्सितां नृप ।
विहायान्तर्दधे कृष्णो स्वच्छन्दगतिरीश्वरः ॥ ३६ ॥
गतमाना कीर्तिसुता भगवद्‌विरहातुरा ।
उच्चै रुरोद राजेन्द्र कोकिलाख्ये वने परे ॥ ३७ ॥
तदैव यूथाः संप्राप्ता गोपीनां मैथिलेश्वर ।
तद् रोदनं दुःखतरं श्रुत्वा जग्मुस्त्रपातुराः ॥ ३८ ॥
काश्चित्तां मकरंदैश्च स्नापयांचक्रुरीश्वरीम् ।
चंदनागुरु कस्तूरी कुङ्कुमद्रवसीकरैः ॥ ३९ ॥
वायुं चक्रुस्तदंगेषु व्यजनान्दोलचामरैः ।
आश्वास्य वाग्भिः परमां नानाऽनुनयकोविदैः ॥ ४० ॥
तन्मुखान्मानिनो मानं श्रुत्वा कृष्णस्य गोपिकाः ।
मानवंत्यो मैथिलेन्द्र विस्मयं परमं ययुः ॥ ४१ ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे रासक्रीडावर्णनं नामैकविंशोऽध्यायः ॥ २१ ॥