गर्गसंहिता/खण्डः २ (वृन्दावनखण्डः)/अध्यायः २६

← गर्ग संहिता/खण्डः २ (वृन्दावन खण्ड)/अध्यायः २५ गर्गसंहिता/खण्डः २ (वृन्दावनखण्डः)/अध्यायः २६
गर्गमुनि
गर्ग संहिता/खण्डः २ (वृन्दावन खण्ड) →


शंखचूडोपाख्यानम् -

<poem> श्रीबहुलाश्व उवाच -
अघासुरादिदैत्यानां ज्योतिः कृष्णे समाविशत् ।
श्रीदाम्नि शंखचूडस्य कस्माल्लीनं बभूव ह ॥ १ ॥
एतद्‌वद महाबुद्धे त्वं परावरवित्तम ।
अहो श्रीकृष्णचंद्रस्य चरितं परमाद्‌भुतम् ॥ २ ॥
पुरा गोलोकवृत्तान्तं नारायणमुखाच्छ्रुतम् ।
सर्वपापहरं पुण्यं शृणु राजन् महामते ॥ ३ ॥
राधा श्रीर्विरजा भूश्च तिस्रः पत्‍न्योऽभवन्हरेः ।
तासां राधा प्रियाऽतीव श्रीकृष्णस्य महात्मनः ॥ ४ ॥
राधिकासमया राजन् कोटिचंद्रप्रकाशया ।
कुंजे विरजया रेमे एकान्ते चैकदा प्रभुः ॥ ५ ॥
सपत्‍नीसहितं कृष्णं राधा श्रुत्वा सखीमुखात् ।
अतीव विमना जाता सपत्‍नीसौख्यदुःखिता ॥ ६ ॥
शतयोजनविस्तारं शतयोजनमूर्ध्वगम् ।
कोट्यश्विनीसमायुक्तं कोटिसूर्यसमप्रभम् ॥ ७ ॥
विचित्रवर्णसौवर्णमुक्तादामविलंबितम् ।
पताकाहेमकलशैः कोटिभिर्मंडितं रथम् ॥ ८ ॥
समारुह्य सखीनां सा वेत्रहस्तैर्दशार्बुदैः ।
हरिं द्रष्टुं जगामाशु श्रीराधा भगवत्प्रिया ॥ ९ ॥
तन्निकुंजे द्वारपालं श्रीदामानं महाबलम् ।
हरिन्यस्तं समालोक्य तं निर्भर्त्स्य सखीजनैः ॥ १० ॥
वेत्रैः सन्ताड्य सहसा द्वारि गन्तुं समुद्यता ।
सखीकोलाहलं श्रुत्वा हरिरंतरधीयत ॥ ११ ॥
राधाभयाच्च विरजा नदी भूत्वाऽवहत्तदा ।
कोटियोजनमायामं गोलोकं सहसा नदी ॥ १२ ॥
सहसा कुण्डलीकृत्वा शुशुभेऽब्धिरिवावनिम् ।
रत्‍नपुष्पैर्विचित्रांगा यथोष्णिङ्‌मुद्रिता तथा ॥ १३ ॥
हरिं गतं तं विज्ञाय नदीभूतां च तां तथा ।
आलोक्य तन्निकुञ्जं च स्वकुञ्जं राधिका ययौ ॥ १४ ॥
अथ कृष्णो नदीभूतां विरजां विरजांबराम् ।
सविग्रहां चकाराशु स्ववरेण नृपेश्वर ॥ १५ ॥
पुनर्विरजया सार्धं विरजातीरजे वने ।
निकुंजवृंदकारण्ये चक्रे रासं हरिः स्वयम् ॥ १६ ॥
विरजायां सप्त सुता बभूवुः कृष्णतेजसा ।
निकुंजं ते ह्यलंचक्रुः शिशवो बाललीलया ॥ १७ ॥
एकदा तैः कलिरभूल्लघुर्ज्येष्ठश्च ताडितः ।
पलायमानो भयभृन्मातुः क्रोडे जगाम ह ॥ १८ ॥
तल्लालनं समारेभे समाश्वास्य सुतं सती ।
तदा वै भगवान् साक्षात्तत्रैवान्तरधीयत ॥ १९ ॥
रुषा सुतं शशापेयं श्रीकृष्णविरहातुरा ।
त्वं जलं भव दुर्बुद्धे कृष्णविच्छेदकारकः ॥ २० ॥
कदापि त्वं जलं मर्त्या न पिबंतु कदाचन ।
ज्येष्ठान् शशाप व्रजत मेदिनीं कलिकारकाः ॥ २१ ॥
जलरूपा पृथग्याना न समेता भविष्यथ ।
नैमित्तिकं च भवतां मेलनं स्यात्सदा लये ॥ २२ ॥
श्रीनारद उवाच -
इत्थं ते मातृशापेन धरणीं वै समागताः ।
प्रियव्रतरथांगानां परिखासु समास्थिताः ॥ २३ ॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवाः ।
बभूवुः सप्त ते राजन्नक्षोभ्याश्च दुरत्ययाः ॥ २४ ॥
दुर्विगाह्याश्च गंभीरा आयामं लक्षयोजनात् ।
द्विगुणं द्विगुणं जातं द्वीपे द्वीपे पृथक् पृथक ॥ २५ ॥
अथ पुत्रेषु यातेषु पुत्रस्नेहातिविह्वला ।
स्वप्रियां तां विरहिणीमेत्य कृष्णो वरं ददौ ॥ २६ ॥
कदा न ते मे विच्छेदो मयि भीरु भविष्यति ।
स्वतेजसा स्वपुत्राणां सदा रक्षां करिष्यसि ॥ २७ ॥
अथ राधां विरहिणीं ज्ञात्वा कृष्णो हरिः स्वयम् ।
श्रीदाम्ना सह वैदेह तन्निकुंजं समाययौ ॥ २८ ॥
निकुञ्जद्वारि संप्राप्तं ससखं प्राणवल्लभम् ।
वीक्ष्य मानवती भूत्वा राधा प्राह हरिं वचः ॥ २९ ॥
तत्रैव गच्छ यत्राभूत्स्नेहस्ते नूतनो हरे ।
नदीभूता हि विरजा नदो भवितुमर्हसि ॥ ३० ॥
कुरु वासं तन्निकुंजे मया ते किं प्रयोजनम् ।
श्रीनारद उवाच -
इति श्त्वाऽथ भगवान् तन्निकुंजं जगाम ह ॥ ३१ ॥
श्रीकृष्ण मित्रं श्रीदामा राधां प्राह रुषा वचः ।
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ॥ ३२ ॥
असंख्यब्रह्मांडपतिर्गोलोकेषु विराजते ।
त्वादृशीः कोटिशः शक्तीः कर्तुं शक्तः परात्परः ॥ ३३ ॥
तं विनिंदसि राधे त्वं
     मानं मा कुरु मा कुरु ।
राधोवाच -
हे मूढ पितरं स्तुत्वा
     मातरं मां विनिन्दसि ॥ ३४ ॥
राक्षसो भव दुर्बुद्धे गोलोकाच्च बहिर्भव ।
श्रीदामोवाच -
अनुकूलेन कृष्णेन जातं मानं शुभे तव ॥ ३५ ॥
तस्माद्‌भुवि परात्कृष्णात् परिपूर्णतमात्प्रभो ।
शतवर्षं ते वियोगो भविष्यति न संशयः ॥ ३६ ॥
श्रीनारद उवाच -
एवं परस्परं शापात् स्वकृताद्‌भयभीतयोः ।
अतीव चिन्तां गतयोराविरासीत्स्वयं प्रभुः ॥ ३७ ॥
श्रीभगवानुवाच -
वचनं वै स्वनिगमं दूरीकृर्तुं क्षमोऽस्म्यहम् ।
भक्तानां वचनं राधे दूरीकर्तुं न च क्षमः ॥ ३८ ॥
मा शोचं कुरु कल्याणि वरं मे शृणु राधिके ।
मासं मासं वियोगांते दर्शनं मे भविष्यति ॥ ३९ ॥
भुवो भारावताराय कल्पे वाराहसंज्ञके ।
भक्तानां दर्शनं दातुं गमिष्यामि त्वया सह ॥ ४० ॥

श्रीदमन् शृणु मे वाक्यमंशेन त्वसुरो भव ।
वैवस्वतान्तरे रासे हेलनं मे करिष्यसि ॥ ४१ ॥
मद्धस्तेन च ते मृत्युर्भविष्यति न संशयः ।
पुनः स्वविरहं पूर्वं प्राप्स्यसि त्वं वरान्मम ॥ ४२ ॥
श्रीनारद उवाच -
एवं शापेन श्रीदामा पुरा पुण्यजनालये ।
सुधनस्य गृहे जन्म लेभे राजन् महातपाः ॥ ४३ ॥
शंखचूड इति ख्यातो धनदानुचरोऽभवत् ।
तस्माच्छ्रीदाम्नि तज्ज्योतिः लीनं जातं विदेहराट् ॥ ४४ ॥
स्वात्मारमो लीलया सर्वकार्यं
     स्वस्मिन् धाम्नि ह्यद्वितीयः करोति ।
यः सर्वेशः सर्वरूपो महात्मा
     चित्रं नेदं नौमि कृष्णाय तस्मै ॥ ४५ ॥
इदं मया ते कथितं मनोहरं
     वैदेह वृंदावनखंडमग्रतः ।
श्रृणोति चैतच्चरितं नरो वरः
     परंपदं पुण्यतमं प्रयाति सः ॥ ४६ ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे शंखचूडोपाख्यानं नाम षड्‌विंशोऽध्यायः ॥ २६ ॥ समाप्तोऽयं वृंदावनखण्डः


</poem>