गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०४

← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०३ गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०४
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०५ →

माधुर्यखण्डः - चतुर्थोऽध्यायः

कौशला गोपीगणानामुपाख्यानम् -

श्रीनारद उवाच -
कौशलानां गोपिकानां वर्णनं शृणु मैथिल ।
 सर्वपापहरं पुण्यं श्रीकृष्णचरितामृतम् ॥ १ ॥
 नवोपनन्दगेहेषु जाता रामवराद्‌व्रजे ।
 परिणीता गोपजनै रत्नरभूषणभूषिताः ॥ २ ॥
 पूर्णचन्द्रप्रतीकाशा नवयौवनसंयुताः ।
 पद्मिन्यो हंसगमनाः पद्मपत्रविलोचनाः ॥ ३ ॥
 जारधर्मेण सुस्नेहं सुदृढं सर्वतोऽधिकम् ।
 चक्रुः कृष्णे नन्दसुते कमनीये महात्मनि ॥ ४ ॥
 ताभिः सार्द्धं सदा हास्यं व्रजवीथीषु माधवः ।
 स्मितैः पीतपटादानैः कर्षणैः स चकार ह ॥ ५ ॥
 दधिविक्रयार्थं यान्त्यस्ताः कृष्ण कृष्णेति चाब्रुवन् ।
 कृष्णे हि प्रेमसंयुक्ता भ्रमंत्यः कुंजमडले ॥ ६ ॥
 खे वायौ चाग्निजलयोर्मह्यां ज्योतिर्दिशासु च ।
 द्रुमेषु जनवृन्देषु तासां कृष्णो हि लक्ष्यते ॥ ७ ॥
 प्रेमलक्षणसंयुक्ताः श्रीकृष्णहृतमानसाः ।
 अष्टभिः सात्त्विकैर्भावैः संपन्नास्ताश्च योषितः ॥ ८ ॥
 प्रेम्णा परमहंसानां पदवीं समुपागताः ।
 कृष्णनन्दाः प्रधावन्त्यो व्रजवीथीषु ता नृप ॥ ९ ॥
 जडा जडं न जानंत्यो जडोन्मत्तपिशाचवत् ।
 अब्रुवन्त्यो ब्रुवन्त्यो वा गतलज्जा गतव्यथाः ॥ १० ॥
 एवं कृतार्थतां प्राप्प्तास्तन्मया याश्च गोपिकाः ।
 बलादाकृष्य कृष्णस्य चुचुंबुर्मुखपंकजम् ॥ ११ ॥
 तासां तपः किं कथयामि राजन्
     पूर्णे परे ब्रह्मणि वासुदेवे ।
 याश्चक्रिरे प्रेम हृदिंद्रियाद्यै-
     र्विसृज्य लोकव्यवहारमार्गम् ॥ १२ ॥
 या रासरंगे विनिधाय बाहुं
     कृष्णांसयोः प्रेमविभिन्नचित्ताः ।
 चक्रुर्वशे कृष्णमलं तपस्त-
     द्‌वक्तुं न शक्तो वदनैः फणीन्द्रः ॥ १३ ॥
 योगेन सांख्येन शुभेन कर्मणा
     न्यायादिवैशेषिकतत्त्ववित्तमैः ।
 यत्प्राप्यते तच्च पदं वेदेहराट्
     संप्राप्यते केवलभक्तिभावतः ॥ १४ ॥
 भक्त्यैव वश्यो हरिरादिदेवः
     सदा प्रमाणं किल चात्र गोप्यः ।
 सांख्यं च योगं न कृतं कदापि
     प्रेम्णैव यस्य प्रकृतिं गताः स्युः ॥ १५ ॥


इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
कौशलोपाख्यानं नाम चतुर्थोऽध्यायः ॥ ४ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥