गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १८

← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १७ गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १८
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः १९ →

यमुनापूजापद्धतिः

मांधातोवाच -
कृष्णायाः पटलं पुण्यं कामदं पद्धतिं तथा ।
वद मां मुनिशार्दूल त्वं साक्षात् ज्ञानशेवधिः ॥ १ ॥
सौभरिरुवाच -
पटलं पद्धतिं वक्ष्ये यमुनाया महामते ।
कृत्वा श्रुत्वाऽथ जप्त्वा वा जीवन्मुक्तो भवेन्नरः ॥ २ ॥
प्रणवं पूर्वमुद्‍धृत्य मायाबीजं ततः परम् ।
रमाबीजं ततः कृत्वा कामबीजं विधानतः ॥ ३ ॥
कालिन्दीति चतुर्थ्यंते देवीपदमतः परम् ।
नमः पश्चात्संविधार्य जपेन्मन्त्रमिमं नरः ॥ ४ ॥
जप्त्वैकादशलक्षाणि मंत्रसिद्धिर्भवेद्‌भुवि ।
जनैः प्रार्थ्याश्च ये कामाः सर्वे प्राप्याः स्वतश्च ते ॥ ५ ॥
विधाय षोडशदलं पद्मं सिंहासने शुभे ।
कर्णिकायां च कालिंदीं न्यसेच्छ्रीकृष्णसंयुताम् ॥ ६ ॥
जाह्नवीं विरजां कृष्णां चन्द्रभागां सरस्वतीम् ।
गोमतीं कौशिकीं वेणीं सिंधुं गोदावरीं तथा ॥ ७ ॥
वेदस्मृतिं वेत्रवतीं शतद्रुं सरयूं तथा ।
पूजयेन् मानवश्रेष्ठ ऋषिकुल्यां ककुद्मिनीम् ॥ ८ ॥
पृथक्पृथक् तद्दलेषु नामोच्चार्य विधानतः ।
वृन्दावनं गोवर्द्धनं वृन्दां च तुलसीं तथा ।
चतुर्दिक्षु विधायाशु पूजयेन्नामभिः पृथक् ॥ ९ ॥
ॐनमो भगवत्यै कलिन्दनन्दिन्यै सूर्यकन्यकायै
यमभगिन्यै श्रीकृष्णप्रियायै यूथीभूतायै स्वाहा ।
अनेन मंत्रेण आवाहनादि षोडशोपचारान् समाहित उपाहरेत् ॥ १० ॥
इत्येव पटलं विद्धि तुभ्यं वक्ष्यामि पद्धतिम् ।
यावत्संपूर्णतां याति पुरश्चरणमेव हि ॥ ११ ॥
तावद्‌ भवेद् ब्रह्मचारी जपेन्मौनव्रती द्विजः ।
यवभोजी भूमिशायी पत्रभुग् जितमानसः ॥ १२ ॥
कामं क्रोधं तथा लोभं मोहं द्वेषं विसृज्य सः ।
भक्त्या परमया राजन् वर्तमानस्तु देशकः ॥ १३ ॥
ब्राह्मे मुहूर्ते उत्थाय ध्यात्वा देवीं कलिंदजाम् ।
अरुणोदयवेलायां नद्यां स्नानं समाचरेत् ॥ १४ ॥
माध्याह्ने चापि संध्यायां संध्यावन्दनतत्परः ।
सप्तमे नियमे राजन् कालिन्दीतीरमास्थितः ॥ १५ ॥
दशलक्षं ब्राह्मणानां सपुत्राणां महात्मनाम् ।
पूजयित्वा गन्धपुष्पैर्दत्वा तेभ्यः सुभोजनम् ॥ १६ ॥
वस्त्रभूषणसौवर्णपात्राणि प्रस्फुरंति च ।
दक्षिणाश्च शुभा दद्यात्ततः सिद्धिर्भवेत् खलु ॥ १७ ॥
इति ते पद्धतिः प्रोक्ता मया राजन् महमते ।
कुरु त्वं नियमं सर्वं किं भूयः श्रोतुमिच्छसि ॥ १८ ॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
श्रीसौभरिमांधातृसंवादे पटलपद्धतिवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥