गर्गसंहिता/खण्डः ५ (मथुराखण्डः)/अध्यायः ०६

मालाकारगृहगमनं कुब्जा-विकुब्जीकरणं कंसधनुर्भङ्गं च

श्रीनारद उवाच -
अथ गोपालकैः सार्द्धं श्रीकृष्णो नंदनंदनः ।
गृहं जगाम सबलः सुदाम्नो दाममालिनः ॥ १ ॥
दृष्ट्वा तौ स समुत्थाय नमस्कृत्य कृताञ्जलिः ।
पुष्पसिंहासने स्थाप्य प्राह गद्‌गदया गिरा ॥ २ ॥
सुदामोवाच -
धन्यं कुलं मे भवनं च जन्म
     त्वयय्यागते देवकुलानि सप्त ।
मातुः पितुः सप्त प्रियया
     वैकुण्ठलोकं गतवंति मन्ये ॥ ३ ॥
भूभारमाहर्तुमलं यदोः कुले
     जातौ युवां पूर्णतमौ परेश्वरौ ।
नमो युवाभ्यां मम दीनदीनं
     गृहं गताभ्यां जगदीश्वरौ परौ ॥ ४ ॥
श्रीनारद उवाच -
इत्युक्त्वा पुष्परचनालंकारान् मधुपध्वनीन् ।
निवेद्य मकरंदांश्च मालाकारो ननाम ह ॥ ५ ॥
धृत्वा तत्पुष्पनिचयं सबलो भगवान् हरिः ।
दत्त्वा गोपेभ्य आरात्तं प्राह प्रहसिताननः ॥ ६ ॥
गरीयसी मत्पदाब्जे भक्तिर्भूयात्सदा तव ।
मद्‌भक्तानां तु संगः स्यान्मत्स्वरूपमिहैव हि ॥ ७ ॥
बलदेवो ददौ तस्मै श्रियं चान्वयवर्धिनीम् ।
उत्थाय तौ ततो राजन्नन्यां वीथीं प्रजग्मतुः ॥ ८ ॥
यांतीं स्त्रियं पद्मनेत्रां पाटीरालेपभाजनम् ।
विभ्रतीं युवतीं कुब्जां पथि पप्रच्छ माधवः ॥ ९ ॥
श्रीभगवानुवाच -
का त्वं कस्य प्रिया सुभ्रु कस्यार्थं चंदनं त्विदम् ।
देह्यावयोर्येन तव चिरं श्रेयो भविष्यति ॥ १० ॥
सैरंध्र्युवाच -
दास्यस्मि सुन्दरवर कुब्जानाम महामते ।
मद्धस्तोत्थं च पाटीरं जातं भोजपतेः प्रियम् ॥ ११ ॥
अद्यापि कंसदास्यस्मि सांप्रतं तव चाग्रतः ।
हस्तिशुण्डादण्डसमे भुजदण्डेऽस्ति मे मनः ॥ १२ ॥
युवां विना कोऽन्यतमोऽनुलेपं कर्तुमर्हति ।
युवयोस्तु समं रूपं त्रैलोक्ये न हि विद्यते ॥ १३ ॥
श्रीनारद उवाच -
उभाभ्यां सा ददौ सांद्रं हर्षिता ह्यनुलेपनम् ।
अथ तावंगरागेण रामकृष्णौ विरेजतुः ॥ १४ ॥
जगृहुश्चन्दनं दिव्यं किंचित्किंचिद्‌व्रजार्भकाः ।
त्रिवक्रामथ तां कृष्णो ऋज्वीं कर्तुं मनो दधे ॥ १५ ॥
आक्रम्य पद्‌भ्यां प्रपदेऽङ्गुलिद्वयं
     प्रोत्तानहस्तेन विभुः परेश्वरः ।
प्रगृह्य नॄणां चुबुके प्रपश्यतां
     वक्रां तनुं तामुदनीनमद्धरिः ॥ १६ ॥
तदैव सा यष्टिसमानविग्रहा
     दीप्त्या च रंभां क्षिपतीव रूपिणी ।
भूत्वा गृहीत्वाऽऽह हरिं तु वाससि
     शुचिस्मिता जातमनोजविह्वला ॥ १७ ॥
सैरंध्र्युवाच -
गच्छाशु हे सुन्दरवर्य मद्‍गृहं
     त्यक्तुं भवंतं किल नोत्सहेऽहम् ।
प्रसीद सर्वज्ञ रसज्ञ मानद
     त्वया भृशं प्रोन्मथितं मनो मम ॥ १८ ॥
श्रीनारद उवाच -
तदैव गोपा जहसुः परस्पर-
     महो किमेतत्करतालनिःस्वनैः ।
प्रहस्य रामस्य हरिः प्रपश्यत-
     स्तद्याच्यमानो ह्यवदत्परं वचः ॥ १९ ॥
श्रीभगवानुवाच -
अहोऽतिधन्या मथुरा पुरीयं
     वसंति यत्रैव जनास्तु सौम्याः ।
येऽज्ञातपान्थान्स्वगृहं नयंति
     दृष्ट्वा पुरीं धाम तवागमिष्ये ॥ २० ॥
श्रीनारद उवाच -
एवमुक्त्वोत्तरीयांतं समाकृष्य गिरार्द्रया ।
राजमार्गं व्रजन्कृष्णो वैश्यानाढ्यान्ददर्श ह ॥ २१ ॥
पुष्पताम्बूलगंधाढ्यैः फलैर्दुग्धफलैर्हरिम् ।
सम्पूज्य स्वासने स्थाप्य नेमुरग्र्यधियो विशः ॥ २२ ॥
वैश्या उचुः -
भवेच्चेदत्र ते राज्यं तावकान्सरतात्तदा ।
वयं तव प्रजा देव राज्ये प्राप्ते न कः स्मरेत् ॥ २३ ॥
श्रीनारद उवाच -
पप्रच्छ सुस्मितो वैश्यान्कोदण्डस्थानमच्युतः ।
न ते तमूचुः सुधियः कोदण्डे भंगशंकया ॥ २४ ॥
तद्‌रूपगुणमाधुर्यमोहिता ये च माथुराः ।
कुमार पश्यैहि धनुरित्यूचुस्तद्दिदृक्षवः ॥ २५ ॥
तैर्दृष्टेन पथा कृष्णः प्रविष्टो धनुषः स्थलम् ।
मैत्रीं कुर्वन् वयस्यैश्च माथुरैः पुरबालकैः ॥ २६ ॥
यथैद्रं हेमचित्राढ्यं कोदण्डं सप्ततालकम् ।
पुरुषैः पञ्चसाहस्रैर्नेतुं योग्यं बृहृद्‌भरम् ॥ २७ ॥
अष्टधातुमयं क्लिष्टं लक्षभारसमं परम् ।
चतुर्दश्यां पौरजनैरर्चितं यज्ञमण्डपे ॥ २८ ॥
भार्गवेण पुरा दत्तं यदुराजाय माधवः ।
ददर्श कुण्डलीभूतं साक्षाच्छेषमिव स्थितम् ॥ २९ ॥
वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे ।
पश्यतां तत्र पौराणां सज्जं कृत्वाऽथ लीलया ॥ ३० ॥
आकृष्य कर्णपर्यंतं दोर्दंडाभ्यां हरिर्धनुः ।
बभंज मध्यतो राजन्निक्षुदंडं गजो यथा ॥ ३१ ॥
भज्यमानस्य धनुषष्टङ्कारोऽभूत्तडित्स्वनः ।
ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥ ३२ ॥
विचेलुर्दिग्गजास्तारा राजद्‍भूखण्डमंडलम् ।
तदैव बधिरीभूता पृथिव्यां जनमंडली ॥ ३३ ॥
कंसस्य हृदयं शब्दो विददार घटीद्वयम् ।
तद्‌रक्षिणः प्रकुपिता उत्थिता आततायिनः ॥ ३४ ॥
गृहीतुकामाः श्रीकृष्णं प्रत्यूचुर्बध्यतामिति ।
अथ तानागतान् वीक्ष्य सशस्त्रान्बलकेशवौ ॥ ३५ ॥
कोदण्दशकले नीत्वा जघ्नतुर्दुर्मदान्भृशम् ।
शकलातिप्रहारेण केचिद्‌वीरास्तु मूर्छिताः ॥ ३६ ॥
भिन्नपादा भिन्ननखाः केचिच्छिन्नांसबाहवः ।
वीराः पञ्च सहस्राणि निपेतुर्भूमिमण्डले ॥ ३७ ॥
विचेलुर्माथुराः सर्वे दुद्रुवुस्तद्दिदृक्षवः ।
पुर्यां कोलाहले जाते नृणां जातं महद्‌भयम् ॥ ३८ ॥
भोजराजसभाछत्रमकस्मान्निपपात ह ।
गोपालैः सबलः कृष्णो धावञ्चापस्थलान्नृप ।
आययौ नन्दनिकटे सन्ध्याकालेऽतिभीतवत् ॥ ३९ ॥
निरीक्ष्य गोविंदसुरूपमद्‌भुतं
     विमोहिता वै मथुरापुरांगनाः ।
विस्रस्तवासःकबराः स्मराधयः
     परस्परं प्राहुरिदं सखीजनम् ॥ ४० ॥
पुरंध्र्य ऊचुः -
कंदर्पकोटिद्युतिमाहरंस्त्वरं
     स्वैरं चरन्वै मथुरापुरे हरिः ।
निरीक्ष्यते याभिरतीव साक्षा-
     दङ्गेषु सर्वेष्वपि नः समाविशत् ॥ ४१ ॥
कुशला ऊचुः -
क्रूराः स्त्रियः किं न हि संति पत्तने
     निरीक्ष्यते याभिरनंगमोहनः ।
अंगेषु सर्वेष्वपि सर्वसुन्दरो
     नास्माभिरानन्दमयो निरीक्ष्यते ॥ ४२ ॥
कस्यैकदेशे मधुरत्वमीक्ष्यते
     तत्रास्ति नेत्रं प्रपतत्पतंगवत् ।
यस्त्वेव सर्वांगमनोहरः सखि
     स एव नेत्रेण कथं समीक्ष्यते ॥ ४३ ॥
अंगे ह्यंगे सुन्दरे नंदसूनोः
     प्राप्तं प्राप्तं यत्र यत्रापि नेत्रम् ।
तस्मात्तस्मान्नामवल्लब्धसौख्यं
     लावण्याब्धौ मग्नवल्लग्नचित्तम् ॥ ४४ ॥
श्रीनारद उवाच -
दृष्ट्वा दिने यं व्रजराजनन्दनं
     स्वप्नेऽपि तद्‌ददृशुः पुरस्त्रियः ।
गोप्यः कथं तं मधुरं न सस्मरु-
     र्याभिः कृतं मैथिल रासमंडलम् ॥ ४५ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे श्रीमथुरादर्शनं नाम षष्ठोऽध्यायः ॥ ६ ॥