गर्गसंहिता/खण्डः ५ (मथुराखण्डः)/अध्यायः १८

उद्धवस्य मथुरा-प्रत्यावर्तनम् -

बर्हिष्मतीभवा ऊचुः -
अहो लयाब्धौ कृपया हरिर्या-
     मुद्‍धृत्य वाराहतनुर्महात्मा ।
तामन्वधावद्‍धृतशिंजिनीशरो
     भूत्वा दयालुः पृथुरादिराजः ॥ १ ॥
लतागोप्य ऊचुः -
स्वयं सुधां वा न विभज्य पूर्वं
     धन्वन्तरिर्विश्वभिषङ्‍महात्मा ।
तद्‌बद्धवैरेषु सुरासुरेषु
     भूत्वाऽथ योषित्प्रददौ कलिप्रियः ॥ २ ॥
नागेंद्रकन्या ऊचुः -
अथेच्छतीमेनमहो वरं हरिः
     समागतां शूर्पणखां महावने ।
चकार सौमित्रिसखः कुरूपिणी-
     महो कृतं तस्य तया किमप्रियम् ॥ ३ ॥
समुद्रकन्या ऊचुः -
नित्यं गृहशतं यांती दात्री दुःखं सुखं जनान् ।
स्वीया कथं सुशीला च चंचलाऽस्मिन्कथं स्थिता ॥ ४ ॥
अप्सरस ऊचुः -
अस्य प्रीत्या कर्णनासे गते वै रावणस्वसुः ।
त्यजंतु वार्तां तेनापि भवतीनां कृपा कृता ॥ ५ ॥
दिव्या ऊचुः -
सर्वेश्वरो बलिं नीत्वा बलिं बद्ध्वा दयापरः ।
अधः क्षिपन्मुक्तिनाथश्चित्रं तत्कथयाऽभवत् ॥ ६ ॥
आदिव्या ऊचुः -
शतरूपायुतं शांतं तपस्यन्तं मनुं पुरा ।
दैत्यैर्बाधां गतं पश्चाद्‌ररक्षासौ दयानिधिः ॥ ७ ॥
सत्ववृत्तय ऊचुः -
पूर्वं कष्टगतं भक्तं ध्रुवं कायाधवं च वै ।
पश्चाद्‌ररक्ष कृपया न पूर्वं दीनवत्सलः ॥ ८ ॥
रजोवृत्तय ऊचुः -
रुक्मांगदहरिश्चन्द्रांबरीषाणां सतां हरिः ।
सत्यं परीक्षन् प्रददौ पुनर्भागवतीं श्रियम् ॥ ९ ॥
तमोवृत्तय ऊचुः -
वृंदा येन छलं प्राप्ता छलिना बलिना पुरा ।
छलमय्या बलिन्याऽद्य कुब्जया छलितो ह्ययम् ॥ १० ॥
कृपाणी ह्येकतो वक्रा घातयंती जनान्बहून् ।
किमु कुब्जा त्रिवक्रा च श्रीकृष्णेन त्रिभंगिना ॥ ११ ॥
पश्यंतीनां कृष्णमार्गं नेत्रे दुःखं गते भृशम् ।
अवधिः पादविक्षेपं वामनस्य करोति हि ॥ १२ ॥
पीतत्वं त्वग्गता पादौ शैथिल्यं प्रगतौ च नः ।
मनो विभ्रमतामुग्रां माधवे माधवं विना ॥ १३ ॥
सपत्‍नीहारचिह्नाढ्यमागतं तमुषःक्षणे ।
हा दैव कस्मिन्समये द्रक्ष्यामो नंदनंदनम् ॥ १४ ॥
श्रीनारद उवाच -
इति कृष्णं चिंतयन्त्यो गोपिका प्रेमविह्वलाः ।
उत्कण्ठितास्ता रुरुदुर्मूर्छिता धरणीं गताः ॥ १५ ॥
पृथक् पृथक् समाश्वास्य वचोभिर्नयनैपुणैः ।
संबोध्य गोपिकाः सर्वाः प्राह राधां तदोद्धवः ॥ १६ ॥
उद्धव उवाच -
परिपूर्णतमे कृष्णे वृषभानुवरात्मजे ।
गंतुमाज्ञा देहि मह्यं नमस्तुभ्यं व्रजेश्वरि ॥ १७ ॥
प्रतिपत्रं देहि शुभे श्रीकृष्णाय महात्मने ।
तेन तं च प्रणम्याशु समानेष्ये तवांतिकम् ॥ १८ ॥
श्रीनारद उवाच -
अथ राधा लेखनीं च नीत्वा पात्रं मषेस्त्वरम् ।
समाचारं चिंतयन्ती तावदश्रूणि सुस्रुवुः ॥ १९ ॥
यद्यत्पत्रं समानीतं राधया लेखनीयुतम् ।
तत्तदार्द्रीकृतं जातं नयनाम्बुजवारिभिः ॥ २० ॥
अश्रुप्रवाहं मुंचन्तीं कृष्णदर्शनलालसाम् ।
उद्धवो विस्मयन्प्राह राधां कमललोचनाम् ॥ २१ ॥
उद्धव उवाच -
कथं लिखसि राधे त्वं कथं दुःखं करोषि हि ।
सर्वां तस्मै वदिष्यामि व्यथां त्वल्लेखनं विना ॥ २२ ॥
श्रीनारद उवाच -
इति श्रुत्वा वचस्तस्य राधया गतबाधया ।
सर्वाभिर्गोपिकाभिश्व पूजितोऽभूत्तदोद्धवः ॥ २३ ॥
नत्वा प्रदक्षिणीकृत्य राधां रासेश्वरीं पराम् ।
गोपीगणमनुज्ञाप्य नत्वा नत्वा पुनः पुनः ॥ २४ ॥
रथमारुह्य दिव्याभं रत्‍नभूषणभूषितम् ।
गतभृत्याभिमानोऽसौ संध्यायां नंदमाययौ ॥ २५ ॥
मार्तंड उदयं प्राप्ते नत्वा गोपीं यशोमतीम् ।
नंदराजमनुज्ञाप्य नवनंदांस्तदोद्धवः ॥ २६ ॥
वृषभानूपनंदाश्च समनुज्ञाप्य लोकतः ।
तथा कृष्णसखीन् सर्वान् रथमारुह्य निर्गतः ॥ २७ ॥
दूरं तमनुगाः सर्वे गोपा गोपीगणास्तथा ।
स निवृत्याथ तान्स्नेहादुधवो मथुरां ययौ ॥ २८ ॥
एकांते चाक्षयवटे कृष्णातीरे मनोहरे ।
नत्वा कृष्णं परिक्रम्य प्रेमगद्‌गदया गिरा ।
प्राह स्रवन्नेत्रपद्म उद्धवो बुद्धिसत्तमः ॥ २९ ॥
उद्धव उवाच -
किं देव कथनीयं मे भवतोऽशेषसाक्षिणः ।
विधत्स्व शं राधिकाया गोपीनां देहि दर्शनम् ॥ ३० ॥
श्रीकृष्णं देवदेवेशं समानेष्ये तवान्तिकम् ।
इत्थं वाक्यं च मे भूतं रक्ष रक्ष कृपानिधे ॥ ३१ ॥
प्रह्लादरुक्मांगदयोः प्रतिज्ञां
     बलेश्च खट्वांगनृपस्य साक्षात् ।
यथांबरीषध्रुवयोस्तथा मे
     कृता च भक्तेश्वर रक्ष रक्ष ॥ ३२ ॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे गोपीवाक्ये उद्धवागमनं नामाष्टादशोऽध्यायः ॥ १८ ॥