गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०८

← गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०७ गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०८
गर्गमुनि
गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः ०९ →


श्रीनारद उवाच ।।
अन्यासां कृष्णपत्नीनां मंगलं शृणु मैथिल ।।
सर्वपापहरं पुण्यमायुर्वर्द्धनमुत्तमम् ।। १ ।।
सत्राजिताय सूर्येण दत्तः साक्षात्स्यमंतकः ।।
उग्रसेनाय स मणिः श्रीकृष्णेनाभियाचितः ।। २ ।।
सत्राजितस्तं न ददौ द्रव्यलोभेन मैथिल ।।
दिनेदिने स्वर्णभारानष्टौ यः सृजति स्वतः ।। ३ ।।
अथ प्रसेनस्तद्भ्राता मणिं कण्ठे निधाय सः ।।
सैंधवं हयमारुह्य मृगयां व्यचरद्वने ।।४।।
सिंहेन मारितः सोपि सिंहो जांबवता हतः ।।
गृहीत्वा तं मणिं सद्यो जांबवान्स्वगुहां गतः ।। ५।।
कृष्णेन निहतो भ्राता मणिग्रीवो वनं गतः ।।
नायातः स्वसभा मध्ये इति सत्रा- जितोऽब्रवीत् ।। ६ ।।
भगवान्दुर्यशो लिप्तो नागरैस्तु वनं गतः ।।
प्रसेनमश्वं सिंहं च हंत प्रेक्ष्य महामते ।। ७ ।।
ऋक्षराजबिलं गत्वा मणिं हर्तुं स्वयं हरिः ।।
युद्धं कृत्वाष्टविंशाहमजयदृक्षनायकम् ।।८।।
तेन दत्ता जांबवती हरये कन्यका शुभा ।।
मणिना सह राजेंद्र द्वारकामाययौ हरिः ।। ९ ।।
सत्राजिताय प्रददौ मणिं निर्लांछनः प्रभुः।।
व्रीडितोवाङ्मुखो भीतो राजा सत्राजितो मणिम्।।१०।।
गृहीत्वापि पुनस्तस्मै श्रीकृष्णाय महात्मने।।
सत्यभामां सुतां प्रादाच्छांत्यर्थं मैथिलेश्वर।।११।।
पांडवानां सहायार्थमिंद्रप्रस्थं गतो हरिः।।
तत्र वै वार्षिकान्मासान्न्यवात्सीद्बंधुवत्सलः।।१२।।
एकदा रथमारुह्य हरिर्गांडीविना सह।।
सुनीरे यमुनातीरे मृगयार्थी विनिर्ययौ।।१३।।
तपश्चरंती कालिंदी श्रीकृष्णं वरमिच्छती।
दर्शिता पांडवेनापि तां गृहीत्वा जगाम ह।।१४।।
द्वारकामेत्य कालिंदीं सूर्यकन्यां मनोहराम्।।
उपयेमे विधानेन वितन्वन्मंगलं परम्।।१५
आवंत्यराजतनुजां मित्रविन्दां मनोहराम् ।।
स्वयंवरे तां जहार भगवान्रुक्मिणीं यथा ।।१६।।
नग्नजित्कन्यकां सत्यां दमित्वा सप्त गोवृषान् ।।
पश्य तां सर्वलोकानामुपयेमे हरिः स्वयम् ।। १७ ।।
कैकेयराजतनुजां भद्रां तु भगवान्हरिः ।।
कालिंदीमिव तां शश्वदुपयेमे विधानतः ।। १८ ।।
बृहत्सेन सुता राजन्लक्ष्मणां लक्षणैर्युताम् ।।
छित्त्वा मत्स्यमरीञ्जित्वा जग्राह भगवन्हरिः।।।१९।।
तथा षोडशसाहस्रं शतं च नृपकन्यकाः ।।
भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः ।। 6.8.२० ।।
तासां मुहूर्त एकस्मिनाना गारेषु योषिताम् ।।
सविधं जगृहे पाणीन्नानारूपः स्वमायया ।। २१ ।।
एकैकशस्ताः कृष्णस्य पुत्रान्दशदशा बलाः ।।
अजीजनन्न नवमान्पितुः सर्वात्मसंपदा।।२२।।
रुक्मिण्यां भीमकन्यायां प्रद्युम्नः प्रथमोभवत् ।।
कामदेवावतारोयं पितृवत्सर्वलक्षणः ।। २३ ।।
शबरो निर्दयस्तोकं हत्वाब्धौ तं समाक्षिपत् ।।
मत्स्योदरेगतः सोपि न ममार हरेः सुतः ।। २४ ।।
मत्स्योदरान्निर्गतोसौ भार्यया परिपालितः ।।
ज्ञात्वा शत्रुकृतां वार्तां स कार्ष्णीं रूढयौवनः ।।२५।।
हत्वा तं शंबरं शत्रुं भार्यया वरयायुतः ।।
द्वारकामाययौ राजंश्चित्रं कर्म च तस्य तत् ।।२६।।
सरुक्मिणो दुहितरं हृत्वा भोजकटात्पुरात् ।।
स्वयंवरस्थलाद्राजन्नुपयेमे महारथः ।।२७।।
तस्मात्सुतो निरुद्धोभून्नागायुतबलान्वितः ।।
सुरज्येष्ठावतारोयं शारदेंदीवरप्रभः ।। २८ ।।
चतुर्व्यूहावतारस्य परिपूर्णतमस्य हि ।।
एवं विचित्रं चरितं विवाहानां सुमंगलम् ।। २९ ।।
सर्वपापहरं पुण्यमायुर्वर्द्धनमुत्तमम् ।।
मया ते कथितं राजन्किं भूयः श्रोतुमिच्छसि।।३०।।
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे सर्वमहिष्युद्वाहोनामाष्टमोध्यायः ।। ८ ।।