गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १६

← गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १५ गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १६
गर्गमुनि
गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १७ →

 द्वारकाखण्डः - षोडशोऽध्यायः

सिद्धाश्रमप्रभावे गोपीगणानां राधारूपदर्शनम् -

श्रीनारद उवाच -
सिद्धाश्रमस्य माहात्म्यं श्रुणु राजन् महामते ।
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ १ ॥
यत्स्पर्शनाद्धरेः साक्षात् न वियोगो भवेत्क्वचित् ।
तं च सिद्धाश्रमं नाम वदन्तीह पुराविदः ॥ २ ॥
दर्शनाद्यस्य सालोक्यं सामीप्यं स्पर्शनात्तथा ।
सारूप्यं स्नानतो याति सायुज्यं तन्निवासतः ॥ ३ ॥
तत्तीर्थस्यापि माहात्म्यं श्रुत्वा चंद्राननामुखात् ।
राधा स्नातु मनश्चक्रे कृष्णविक्षेपविह्वला ॥ ४ ॥
श्रीसिद्धाश्रमयात्रायां सूर्यपर्वणि माधवे ।
राधा स्नातुं मनश्चक्रे उत्थाय कदलीवनात् ॥ ५ ॥
गोपीनां शतयूथेन सर्वगोपगणैः सह ।
शतवर्षे व्यतीते तु श्रीदाम्नः शापकारणात् ॥ ६ ॥
श्रीराधा शिबिकारूढा छत्रचामरवीजिता ।
आनर्तेषु महातीर्थं ययौ सिद्धाश्रमं सती ॥ ७ ॥
तत्रैव भगवान् साक्षाद्‌यादवैः परिमंडितः ।
स्त्रीणां षोडशसाहस्रैर्यात्रार्थं चाययौ नृप ॥ ८ ॥
बलिष्ठा ये च गोपालाः कोटिशः शस्त्रपाणयः ।
सिद्धाश्रमं ते जुगुपुः सर्वतो राधिकाज्ञया ॥ ९ ॥
शतयूथास्तथा गोप्यो वेत्रहस्ता महाबलाः ।
सिद्धाश्रमे च विधिवत्स्नान्तीं राधां सिषेविरे ॥ १० ॥
द्वारकावासिनां तेषां स्थितानां स्नानमिच्छताम् ।
शस्त्रवेत्रैस्ताडितानां विविशुर्भगवत्स्त्रियः ॥ ११ ॥
केयं स्नातीति पप्रच्छुर्यस्या वैभवमद्धुतम् ।
यद्‌गौरवात्त्रसन्तीह सर्वे यादवपुंगवा ॥ १२ ॥
अहो कस्य प्रिया चेयं का नाम कुत्र वासिनी ।
त्वम् सर्वज्ञो हि भगवान् वद नो देवकीसुत ॥ १३ ॥
श्रीभगवानुवाच -
बृषभानुसुता साक्षाद्‌राधेयं कीर्तिनन्दिनी ।
व्रजेश्वरी मद्दयिता गोपिकाधीश्वरी वरा ॥ १४ ॥
स्नातुं सिद्धाश्रमं प्राप्ता व्रजाद्‌गोपीगणैः सह ।
यद्‌गौरवात्त्रसन्त्येते तस्या वैभवमद्‌भुतम् ॥ १५ ॥
श्रीकृष्णस्य वचः श्रुत्वा सत्यभामाऽथ भामिनी ।
शनैः प्राह सपत्‍नीनां रूपयौवनगर्विता ॥ १६ ॥
किं नु राधा रूपवती नाहं रूपवती किमु ।
बहुभिर्याचिता पूर्वं रूपौदार्यगुणार्चिता ॥ १७ ॥
मद्‌रूपकारणात्सख्यः शतधन्वा मृतोऽभवत् ।
अक्रूरः कृतवर्मा च पुरा तौ द्वौ पलायितौ ॥ १८ ॥
दिने दिने स्वर्णभारानष्टौ स सृजति स्वतः ।
दुर्भिक्षमार्यरिष्टानि सर्वाधिव्याधयोऽशुभाः ॥ १९ ॥
न संति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणिः ।
मत्पित्रा पारिबर्हेऽपि दत्तः साक्षात्स्यमंतकः ॥ २० ॥
तेन जातं मद्‌गृहेऽपि सर्वं वैभवमद्‌भुतम् ।
प्रेम्णा परेण श्रीकृष्ण-गरुडोपरिगामिनी ॥ २१ ॥
भौमासुरमहायुद्धं दृष्टं प्राग्ज्योतिषं पुरम् ।
ममापि कृपया यूयं तत्पुराच्च समागताः ॥ २२ ॥
प्राप्ताः श्रीकृष्णपत्‍नीत्वं सर्वा एव न संशयः ।
मद्‌गौरवाच्च शक्राय छत्रं दत्तमनेन वै ॥ २३ ॥
कुंडले देवमात्रे च दत्ते वै मत्प्रियेच्छया ।
ऐरावतभवा नागा भौमासुरसमृद्धयः ॥ २४ ॥
मदिच्छया समानीताः श्रीकृष्णेन महात्मना ।
मत्कारणान्महावैरं शक्रेऽपि कृतवान् हरिः ॥ २५ ॥
मद्द्वारे वर्तते नित्यं वृक्षेंद्रः पारिजातकः ।
पातिव्रत्येनैव मया श्रीकृष्णोऽयं वशीकृतः ॥ २६ ॥
सर्वोपस्करसंयुक्तो नारदाय समर्पितः ।
मत्समानं न कस्यास्तु गौरवं वैभवं तथा ॥ २७ ॥
रूपौदार्यं न कस्यास्तु राधयाः किमु वर्णनम् ।
यद्‌रूपोपरि चैद्याद्या अनेन युयुधुर्युधि ॥ २८ ॥
हे सुभ्रु रुक्मिणी सा त्वं कथं रूपवती न हि ।
सा गोपकन्यका सख्यो यूयं वै राजकन्यकाः ।
धन्या मान्याश्च सर्वा वै यूयं मानवतीवराः ॥ २९ ॥
एवं तु सत्यभामायां वदंत्यां मैथिलेश्वर ।
भूत्वा मानवती सर्वा रुक्मिण्याद्याः स्त्रियो वराः ॥ ३० ॥
कुलकौशलशीलार्थ-रूपयौवनगर्विताः ।
श्रीकृष्णं मानदं प्राहुरष्ट पट्टमहास्त्रियः ॥ ३१ ॥
राज्ञ्य ऊचुः -
श्रुतं तव मुखात्पूर्वं राधारूपं परं स्मृतम् ।
यस्यां रक्तः सदा त्वं वै त्वयि रक्ता च या सदा ॥ ३२ ॥
तां राधां द्र्ष्टुमिच्छामस्त्वत्प्रियां व्रजवासिनीम् ।
त्वद्वियोगेन संखिन्नां स्नातुं चात्र समागताम् ॥ ३३ ॥
श्रीनारद उवाच -
तथाऽस्तु चोक्त्वा श्रीकृष्णः पट्टस्त्रीपरिवेष्टितः ।
षोडशस्त्रीसहस्राढ्यो द्रष्टुं राधां जगाम ह ॥ ३४ ॥
श्रीहेमशिबिरे रम्ये पताकाध्वजमंडिते ।
चंद्रमंडलशोभाढ्ये वितानतनिते शुभे ॥ ३५ ॥
मुक्ताजवनिका यत्र वस्त्रैरास्तरणं शुभम् ।
मालतीमकरंदाढ्यं सर्वतो गंधसंकुलम् ॥ ३६ ॥
तेन श्रृंगावली चक्रे कलं कोलाहलं परम् ।
तत्र राधा पट्टराज्ञी श्रीकृष्णहृतमानसा ॥ ३७ ॥
हंसाभैर्व्यजनैर्दिव्यैर्वीज्यमाना सखीजनैः ।
छत्रदोलाधरैस्तत्र व्रजद्‌भिस्तामितस्ततः ॥ ३८ ॥
बालार्ककुण्डलधरा विद्युद्दाममनोहरा ।
कोटिचन्द्रप्रतीकाशा तन्वी कोमलविग्रहा ॥ ३९ ॥
अंगुल्यग्रैः शोभनैः स्वैः पुष्पभूमिं मनोहरम् ।
शनैः शनैः पादपद्मं धारयन्त्यतिकोमलम् ॥ ४० ॥
दूरात् तां राधिकां प्रेक्ष्य कृष्णपत्‍न्यः सहस्रशः ।
जग्मुर्मूर्छां महाराज तद्‌रूपेणातिमोहिताः ॥ ४१ ॥
तत्तेजसा हतरुचः सूर्यात्तारागणा यथा ।
गतरूपाभिमानास्ता ऊचुः सर्वाः परस्परम् ॥ ४२ ॥
अहो एतादृशं रूपं त्रिलोक्यां न हि चाद्‌भुतम् ।
श्रुतं यथा तथा दृष्टमद्वितीयं मनोहरम् ॥ ४३ ॥
एवं वदत्यस्तां प्राप्ताः श्रीकृष्णस्य पुरःसराः ।
गोपीनां राजपुत्रीणां नेत्राणि परिरेभिरे ॥ ४४ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
राधारूपदर्शनं नाम षोडशोऽध्यायः ॥ १६ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥