गर्गसंहिता/खण्डः ७ (विश्वजित्खण्डः)/अध्यायः ०७

गुर्जराष्ट्र तथा चेदिदेश जयम्

श्रीनारद उवाच -
प्रद्युम्नोऽथ महावीर्यो जित्वा माहिष्मतीपतिम् ॥
विकर्षन्महतीं सेनां गुर्जराजं समाययौ ॥१॥
गुर्जरस्याधिपं वीरमृष्यं नाम महाबलम् ॥
जग्राह सेनया कार्ष्णिस्तुंडयाहिं यथाविरट् ॥२॥
सद्यस्तस्माद्‌बलिं नीत्वा यादवेंद्रो महाबलः ॥
विकर्षन्महतीं सेनां चेदिदेशांस्ततो ययौ ॥३॥
दमघोषश्चेदिराजो वसुदेवस्वसुः पतिः ॥
शिशुपालस्तस्य पुत्रः कृष्णशत्रुः प्रकीर्तितः ॥४॥
आभीयाय महाबुद्धिर्दमघोषं महाबलम् ॥
नत्वा प्राह महाबुद्धिमुद्धवो बुद्धिसत्तमः ॥५॥
उद्धव उवाच -
राजन्देहि बलिं तस्मा उग्रसेनाय भूभृते ॥
विजित्य नृपतीन् योऽसौ राजसूयं करिष्यति ॥६॥
श्रीनाराद उवाच -
इत्थं निशम्य वचनं दमघोषसुतः खलः ॥
स्फुरदोष्ठो मन्युपरः प्राहेदं सदसि त्वरम् ॥७॥
शिशुपाल उवाच -
दुरत्यया कालगतिरहो चित्रमिदं जगत् ॥
विधेः कालात्मकस्यापि प्राजापत्ये भवेत्कलिः ॥८॥
क्व राजहंसः काकः क्व क्व मूर्खः क्व च पंडितः ॥
भृत्या विजेष्यन्ति नृपं चक्रवर्तिनमीश्वरम् ॥९॥
ययातिशापाद्यदवो भ्रष्टराज्यपदाः स्मृताः ॥
राज्यं स्वल्पं जलं प्राप्य प्रोच्छलंत्यापगा इव ॥१०॥
अवंशसंभवो राजा मूर्खपुत्रो हि पंडितः ॥
निर्धनश्च धनं प्राप्य तृणवन्मन्यते जगत् ॥११॥
उग्रसेनः कतिदिनै राजत्वं समुपागतः ॥
मंत्रिणा वासुदेवेन पूजितः स बलान्नृपः ॥१२॥
तस्य मंत्री वासुदेवो जरासंधभयाद्‍द्रुतम् ॥
मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः ॥१३॥
आभीरस्यापि नन्दस्य पूर्वं पुत्रः प्रकीर्तितः ॥
वसुदेवो मन्यते तं मत्पुत्रोऽयं गतत्रपः ॥१४॥
वसुदेवाद्‌गौरवर्णादयं श्यामः कुतोऽभवत् ॥
पितामहोऽपि गौरश्च दुःखहास्यमिदं वचः ॥१५॥
प्रद्युम्नं तत्सुतं जित्वा सबलं यादवैः सह ॥
कुशस्थलीं गमिष्यामि महीं कर्तुमयादवीम् ॥१६॥
श्रीनारद उवाच -
इत्युक्त्वा धनुरादाय तूणौ चाक्षयसायकौ ॥
गंतुमभ्युद्यतं वीक्ष्य चेदिराजस्तमब्रवीत् ॥१७॥
दमघोष उवाच -
शृणु पुत्र प्रवक्ष्यामि क्रोधं मा कुरु मा कुरु ॥
अकस्मादाचरेत्कार्यं न सिद्धिं विंदते ह्यसौ ॥१८॥
धर्मार्थकाममोक्षाणां साधनं न क्षमासमम् ॥
तस्मात्साम प्रकर्तव्यं साम्नो न सदृशं सुखम् ॥१९॥
दानेन राजते साम दानं सत्क्रियया पुनः ॥
सत्क्रियापि तथा योग्यं गुणं संप्रेक्ष्य राजते ॥२०॥
यादवाश्चेदिपाश्चैव ज्ञातिसंबंधिनः स्मृताः ॥
चेदिपानां च वृष्णीनां कलिं नेच्छामि तत्वतः ॥२१॥
श्रीनारद उवाच -
शिशुपालो बोधितोऽपि दमघोषेण धीमता ॥
नोवाच किञ्चिद्विमनास्तूष्णिंभूतो महाखलः ॥२२॥
श्रुतिश्रवाश्चेदिपराजराज्ञी
     स्वसा शुभा शूरसुतस्य राजन् ॥
समेत्य पुत्रं शिशुपालसंज्ञं
     प्रत्याह सम्यग्विनयान्विता सा ॥२३॥
श्रुतिश्रवा उवाच -
मा पुत्र खेदं कुरुतात्कदाचि-
     न्माभूत्कलिश्चेदिपयादवानाम् ॥
ते मातुलोऽयं किल शूरसूनु-
     र्भ्राता च ते तत्सुत एव कृष्णः ॥॥२४॥
तस्यात्मजा येऽत्र समागतास्ते
     प्रद्युम्नमुख्याः शतशो महांतः ॥
संपूजनीयाश्च मया भवद्‌भिः
     संलालनीया न हि युद्धयोग्याः ॥२५॥
अहं गमिष्यामि सहार्द्रचित्ता
     नेतुं त्वया तात समागतांस्तान् ॥
द्र्ष्टुं चिरोत्कण्ठमना महोत्सवै-
     र्नैतादृशोऽयं समयः कदाचित् ॥२६॥
शिशुपाल उवाच -
मम शत्रू रामकृष्णौ यदवः शत्रवश्च मे ॥
घातयिष्यामि तान्सर्वान् यैरहं तु तिरस्कृतः ॥२७॥
पुरा वै कुंडिनपुरे याभ्यां मे हेलनं कृतम् ॥
विवाहो वरितो मे वै रामकृष्णावरी मम ॥२८॥
यदि तेषां यादवानां युवां पक्षं करिष्यथः ॥
तदा त्वां सह पित्रा च निगृह्य निगडैर्दृढैः ॥२९॥
कारागारे कारयामि कंसः स्वपितरौ यथा ॥
अन्यथा चेद्‌वधिष्यामि शपथो मे तु दुर्घटः ॥३०॥
श्रीनारद उवाच -
तद्वचः परुषं श्रुत्वा तूष्णीं यातेऽथ चेदिपे ॥
तद्वचः स्वबलं प्राप्य प्राह सर्वं यथोदितम् ॥३१॥
वाहिनी ध्वजिनी चैव प्रतिमाक्षौहिणीयुता ॥
चतुर्धा शिशुपालस्य सेना युक्ता बभूव ह ॥३२॥
बहुलाश्व उवाच -
वाहिन्याद्याश्च या सेनास्तत्संख्यां वद मे प्रभो ॥
ऋषयो हि प्रजानंति भूतं भव्यं भवत्परम् ॥३३॥
श्रीनारद उवाच -
शतं द्विपानां रथिनां सहस्रं शतसंयुतम् ॥
अयुतं तुरगाणां च पत्तीनां लक्षमेव च ॥३४॥
सेनाया लक्षणं स्वल्पं द्विगुणं चतुरंगिणी ॥
चतुःशतं द्विपानां च रथानामयुतं तथा ॥३५॥
चतुर्लक्षं हयानां च पत्तीनामेककोटयः ॥
लोहकंचुकसंयुक्ताः समर्थबलवाहनाः ॥३६॥
शस्त्रास्त्रज्ञा यत्र शूरा वाहिनी सा बुधैः स्मृता ॥
वाहिन्या द्विगुणीभुता ध्वजिनी सा प्रकीर्तिता ॥३७॥
ध्वजिन्या द्विगुणी ज्ञेया पृतनां कथिता पुरा ॥
ससाहसोऽपि शूरः स्यात्सामंतः शतशूरभृत् ॥३८॥
सामन्तानां शतं बिभ्रत्स गजी कथितो मृधे ॥
समरे सारथिं चाश्वान् रथं रक्षेद्‌रथी च यः ॥३९॥
सेनां रक्षिति यो बाणैः कथ्यते स महारथी ॥
स्वसेनां रक्षयञ्शत्रून्सूदयन् रणमंडले ॥४०॥
योऽक्षौहिण्या समं युद्ध्येत्सदा सोऽतिरथी स्मृतः ॥४१॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे गुर्जरराष्ट्राचेदिदेशगमनं नाम सप्तमोऽध्यायः ॥७॥