गर्गसंहिता/खण्डः ७ (विश्वजित्खण्डः)/अध्यायः ३५

कालनाभदैत्यवधम्

बहुलाश्व उवाच -
अहो अत्यद्‌भुतं युद्धं मुने प्राद्युम्निना कृतम् ॥
वृके हते महादैत्ये किं बभूव रणे पुनः ॥१॥
श्रीनारद उवाच -
वृकदैत्यं हतं वीक्ष्य कालनाभो महासुरः ॥
क्रोडारूढो रणं प्रागद्धनुष्टंकारयन्मुहुः ॥२॥
अक्रूरं बाणविंशत्या गदं च दशभिः शरैः ॥
अर्जुनं दशभिर्बाणैर्युयुधानं च पञ्चभिः ॥३॥
दशभिः कृतवर्माणं कार्ष्णिं बाणशतेन वै ॥
अनिरुद्धं च विंशत्या दीप्तिमंतं च पञ्चभिः ॥४॥
सांबं च शतबाणैश्च विव्याध समरेऽसुरः ॥
तद्‌बाणैर्व्याकुला वीरा बभूवुर्घटिकाद्वयम् ॥५॥
हयाश्च पञ्चतां प्राप्ताश्चूर्णीभूता रणांगणे ॥
तद्धस्तलाघवं दृष्ट्वा प्रसन्नो रुक्मिणीसुतः ॥६॥
कालनाभं साधुपदैः पूजयामास संगरे ॥
प्रद्युम्नः स्वं धनुर्नीत्वा बाणमेकं समादधे ॥७॥
कोदण्डमुक्तो विशिखस्तत्क्रोडं दीर्घरूपिणम् ॥
समुन्नीय भ्रामयित्वा स्वर्लोके लक्षयोजनम् ॥८॥
आकाशात्पातयामास समुद्रे भीमनादिनि ॥
प्रद्युम्नो भगवान्साक्षाद्‌द्वितीयं बाणमादधे ॥९॥
सोऽपि बाणः समुन्नीय कालनाभं महाबलम् ॥
भ्रामयन्पातयामास चंद्रावत्यां बलात्पुरि ॥१०॥
कालनाभः प्रपतितः किंचिद्‍व्याकुलमानसः ॥
गृहीत्वाऽथ गदां गुर्वीं लक्षभारविनिर्मिताम् ॥११॥
रणं प्राप्तो यदुबलं पोथयामास दैत्यराट् ॥
गजान् रथान्हयान् वीरान् गदया वज्रकल्पया ॥१२॥
पातयामास वेगेन महावातो यथा तरून् ॥
कांश्चित्कराभ्यां प्रोन्नीय चिक्षेप गगने बलात् ॥१३॥
अंबरात्ते निपेतुः कौ राजन् वर्षोपला इव ॥
तदा गदां समादाय सांबो जांबवतीसुतः ॥१४॥
तताड मूर्ध्नि तं दैत्यं कालनाभं महासुरम् ॥
तयोर्युद्धमभूद्घोरं गदाभ्यां रणमण्डले ॥१५॥
विस्फुलिंगान्क्षरंत्यौ द्वे गदे चूर्णीबभूवतुः ॥
अन्ये गदे समादाय तस्थतुः संगरे च तौ ॥१६॥
कालनाभस्तदा प्राह सांबं जांबवतीसुतम् ॥
एकेनापि प्रहारेण हन्मि त्वां नात्र संशयः ॥१७॥
पूर्वं प्रहार कुरु मे इति साम्बोऽवदद्‌रणे ॥
कालनाभोऽथ गदया सांबमूर्ध्नि तताड ह ॥१८॥
गदोपरि गदां नीत्वा सांबो जांबवतीसुतः ॥
जघान गदया दैत्यं कालनाभमुरःस्थले ॥१९॥
गदया भिन्नहृदय उद्वमन् रुधिरं मुखात् ॥
व्यसुः पपात भूपृष्ठे वज्राहत इवाचलः ॥२०॥
अभूज्जयजयारावः साधुवादः सतां नृप ॥
देवदुन्दुभयो नेदुर्नरदुन्दुभयस्तथा ॥२१॥
सांबसेनोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥
विद्याधर्यश्च गंधर्वा ननृतुश्च जगुर्मुदा ॥२२॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे कालनाभदैत्यवधो नाम पंचस्त्रिंशोऽध्यायः ॥३५॥