गर्भस्थशिशुशास्त्रम्

अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।
गर्भस्थशिशुशास्त्रम्
[[लेखकः :|]]

<poem> प्राचीनभारतस्य वैद्यकीयशिक्षणे महत्त्वभूतं पात्रं वहति अनुवैद्यशास्त्रं गर्भस्थशिशुशास्त्रं च । एतेषां शास्त्राणां मूलाचार्या: सन्ति कश्यप:, वसिष्ठ:, अत्रि:, भृगुश्च । एतेषां शिक्षणनीते: सङ्ग्रह: कृत: वर्तते षष्ठे शतके वाग्भटेन ‘अष्टाङ्गसङ्ग्रह’ग्रन्थे । एतस्य ग्रन्थस्य सुपरिष्कृता अवृत्ति: सप्तमे शतके द्वितीयवाग्भटेन कृत: दृश्यते । एतस्य ग्रन्थस्य नाम अस्ति ‘अष्टाङ्गहृदयम्’ इति ।

गर्भस्थशिशुशास्त्रस्य विषये अथर्ववेदे क्रि.पू.अष्टमे शतके प्रणीतायां गर्भोपनिषदि अपि बहव: विषया: निरूपिता: दृश्यन्ते । प्राचीने संस्कृतसाहित्ये एतत् ज्ञानं द्विधा विभक्तं दृश्यते - 1) गर्भस्थशिशुशास्त्रम् 2) अनुवैद्यशास्त्रं चेति । अद्य एतस्मिन् क्षेत्रे ये केचन विचारा: दृश्यन्ते तेषु बहव: अंशा: अस्मत्पूर्वजै: बहो: कालात् पूर्वम् एव स्वीये ग्रन्थे निरूपिता: आसन् एव । उदाहरणरूपेण लेखेऽस्मिन् द्वित्रा: अंशा: निरूप्यन्ते ।

९-सप्ताहीयः गर्भस्थशिशुः

आदौ वयं भ्रूणस्य आहारसेवनविषयं पश्याम तावत् । भेलसंहिता वैदिककालीना कृति: । तस्यां शरीरस्थाने चतुर्थे अध्याये 31 तमे परिच्छेदे उच्यते - ‘‘....किन्तु गर्भो मातु: उदरे स्थित: अश्नाति न वेति । अत्रोच्यते - नाश्नातीति । यदि ह्यश्नीयात् स्यादस्य पुरीषमतीतकालं न चेदमस्ति । कथं तर्हि ? नाभ्यां नाडी प्रतिष्ठिता । तस्यामपरा मातुर्हृदयमाश्रिता मातुरन्नं समभिवहन् गर्भं प्रीणयत्यभिवर्द्धयति तद्यथा कुल्या: केदारमभिसंश्रयन्त्यो भावयन्ति तद्वत् ॥ एतस्य तात्पर्यं सुस्पष्टम् एव अस्ति । अत: नात्र विव्रियते अधिकम् । पाश्चात्त्यै: अयम् एव अंश: 1604 तमे वर्षे ज्ञात: !! इटलीदेशीय: शरीरशास्त्रज्ञ: हिरोनिमस् फ्याब्रिकस: ‘डिफोर्नटा फोटु’ इत्येतं ग्रन्थम् अरचयत् । गर्भस्थशिशुशास्त्रविषये लभ्यमाना प्रथमा पाश्चात्त्या कृति: एषा एव । भ्रूणस्य उपचय-विकासयो: विषये अपि एषा एव स्थिति: दृश्यते । स च विषय: क्रिस्तपूर्वीयायां षष्ठशतकीयायां सुश्रुतसंहितायां शरीरस्थाने तृतीयाध्याये अष्टादशे परिच्छेदे निरूपित: दृश्यते । स च इत्थम् -

‘चतुर्थे सर्वाङ्गप्रत्यङ्गविभाग: प्रव्यक्तो भवति । गर्भहृदयप्रव्यक्तिभावाच्चेतनाधातुरभिव्यक्तो भवति । कस्मात् ? तत्स्थानत्वात् । तस्माद् गर्भचतुर्थे मास्यभिप्रायमिन्द्रियार्थेषु करोति । द्विहृदयां च नारीं दौहृदिनीमाचक्षते । दौहृदविमाननात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं जनयति । तस्मात् सा यद्यदिच्छेत्तत्तत्तस्यै दापयेत् । लब्धदौहृदा हि वीर्यवन्तं चिरायुषं च पुत्रं जनयति ।’

अयमेव अंश: प्रकारान्तरेण यथा -

इन्द्रियार्थांस्तु यान् यान् सा भोक्तुम् इच्छति गर्भिणी ।
गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत् ॥
सा प्राप्तदौहृदा पुत्रं जनयेत गुणान्वितम् ।
अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम् ॥
येषु येष्विन्द्रियार्थेषु दौहृदे वै विमानना ।
प्रजायेत सुतस्यार्ति: तस्मिंस्तस्मिंस्तथेन्द्रिये ॥
- सुश्रुत शारीर - 3.19.21

गर्भविकासविषय: भागवते (3.31) यथा -

कललम् एकरात्रेण पञ्चरात्रेण बुद्बुदम् ।
दशाहेन तु कर्कन्धू: पेश्यण्डं वा तत: परम् ॥
मासेन तु शिरो द्वाभ्यां बाह्वङ्गाद्यङ्गविग्रह: ।
नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभि: ॥
चतुर्भि: धातव: सप्त पञ्चभि: क्षुत्तृडुद्भव: ।
षड्भि: जरायुणा वीत: कुक्षौ भ्राम्यति दक्षिणे ॥
मातुर्जग्धान्नपानाद्यैरेधद्धातु:....

अस्मदीये पुराणसाहित्ये कथाद्वयं श्रूयते, यत्र च गर्भस्थशिशु: ज्ञानार्जनं कृतवान् दृश्यते । 1) प्रह्लाद: महर्षे: नारदात् विष्णो: विषयं यत् ज्ञातवान्, 2) अभिमन्यु: पितु: अर्जुनात् चक्रव्यूहभेदनं ज्ञातवान् यत् तदुभयं वयं जानीम: एव । भारते ग्रामीणा अपि महिला जानाति यत् गर्भस्थशिशो: सौख्यं मातु: द्वारा एव भवति, शिशो: व्यक्तित्वस्य वर्धने माता महत्तमं पात्रम् आवहति इति । अत: एव, विकृताङ्गशिशो: जननं न भवेत् इत्येतदर्थम् एव, आपन्नसत्त्वा सदापि सुखेन स्थापनीया इत्येतम् अंशं ज्ञापयन्ति वृद्धा: विशेषत: ।

पाश्चात्त्यै: अयम् अंश: गतस्य शतकस्य आरम्भे ज्ञात: । ल्यूयीस: (क्रि.श.1901-1902) वदति - ‘अङ्गकलिका: चतुर्थे पञ्चमे वा सप्ताहे गोचरतां प्राप्नुवन्ति । सप्तमे सप्ताहे बाह्वो: स्नायुवर्धनं प्राय: पूर्णतां प्राप्नोति’ इति । ‘सप्तमसप्ताहावसरे एव शिशो: लिङ्गनिर्णयाङ्गानां (14-16 मि.मी.स्तर:) वर्धनं गोचरत्वं प्राप्नोति’ इति वदति गिल्मन: (क्रि.श.1948) ‘षोडषे सप्ताहे गर्भस्थशिशो: हृदयस्पन्द: अवगन्तुं शक्य: भवति’ इति वदति रैड: । (क्रि.श.1962) नवजातशिशो: वैरूप्यम् अधिकृत्य चरकसंहितायां (क्रि.पू.प्रथमे शतके) शरीरस्थाने चतुर्थे अध्याये त्रिंशत्तमे परिच्छदे उच्यते -

‘यदा ह्यस्या:, शोणिते गर्भाशयबीजभाग: प्रदोषमापद्यते, तदा वन्ध्यां जनयति, यदा पुनरस्या: शोणिते गर्भाशयबीज -भागावयव: प्रदोषमापद्यते तदा पूतिप्रजां जनयति, यदा त्वस्या: शोणिते गर्भाशयबीजभागावयव: स्त्रीकराणां च शरीरबीजभागानामेकदेश: प्रदोषमापद्यते, तदा स्त्र्याकृति-भूयिष्ठाम् अस्त्रियं वार्तां नाम जनयति, तं स्त्रीव्यापदमाचक्षते’ इति ।

अत्र गर्भाशयं प्राप्तवतो: गर्भबीजरेतसो: दुष्परिणामानां विषय: विवृत: अस्ति । बीजस्य हानि: स्तरत्रये भवितुं शक्या -1. बीजे 2. बीजभागे 3. बीजभागावयवे चेति ।

एतम् एव अंशम् आधुनिका: एवं वदन्ति - 1. रेतसि गर्भबीजे वा, 2. एतयो: क्रोमोसोम् (Chromosome) मध्ये वा, 3. गुणाणो: (Gene) वा हानि: भवितुम् अर्हति इति । त्रिसहस्रात् वर्षेभ्य: पूर्वम् एव सहजातवैकल्यानां हेतु: बीजभागावयव: (Gene), न तु मानवातीतशक्ति: इति यत् निरूपितं दृश्यते तत् तु नितराम् आश्चर्यं जनयति ! तेषाम् अवगमनसामर्थ्यम् अतिविशिष्टम् आसीत् इति एतस्मात् अवगन्तुं शक्नुम: वयम् ।

('Pride of India' पुस्तकस्य साहाय्येन)

'सम्भाषणसन्देशः' - जून् २००९
लेखिका - शुभा