← अध्यायः ९ गीताभाष्यतात्पर्यचन्द्रिका
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →

श्रीः अथ दशमोऽध्यायः

10.01.01

दशमसङ्गतिं वक्तुं नवमार्थं सप्तमप्रभृत्यध्यायत्रयार्थं वा संगृह्राह --भक्तियोग इति। स्वकल्याणगुणानन्त्य-- कृत्स्नस्वाधीनतामतिः । भक्त्युत्पत्तिविवृद्धयर्था विस्तीर्णा दशमोदिता(14) इति संग्रहश्लोकं व्याकुर्वन् सङ्गतिमाह इदानीमिति । पूर्वत्र सपरिकरभक्तियोगस्वरूप

प्रपञ्चनपरञ्चनपरतया स्वकल्याणगुणादेः संग्रहेण कथनम्, इह तु तत्प्रपञ्चनमित्यवसरप्राप्तिरपौन

रुक्त्यं च विस्तीर्णैत्यनेन विवक्षितमिति दर्शयितुम् इदानीमिति । पूर्वत्र सपरिकरभक्तियोग

स्वरूपप्रपञ्चनपरतया स्वकल्याणहगुणादेः संग्रहेण कथनम्, इह तु तत्प्रपञ्चनमित्यवसर

प्राप्तिपौनरुक्त्यं च विस्तीर्णैत्यनेन विवक्षितमिति दर्शयितुम् इदानीं प्रपञ्चयत इति पदद्वयम् । अर्जुनस्य वक्ष्यमाणार्थश्रवणयोग्यत्वं तस्यार्थस्य च (?)परमहितसाधनत्वादिकं च वदन् सोपच्छन्दनं सावधान

यति भूय एवेति श्लोकेन । प्रश्नमन्तरेणापि स्वयमेव प्रतिपादेन हेतुः प्रीयमाणयेत्यनेनोच्यत इत्यभिप्रयन् तादृशप्रीतेर्विषयं दर्शयति मम माहात्म्यं श्रुत्वेति । बाहुशालिनां हि परोत्कर्षकथनमसूयाव

हम्; भवतस्तु शिशुपालादिव्याकुले जुगति भाग्यवशादीदृशी प्रीतिः सञ्चातेति महाबाहो, प्रीयमाणाय

इत्यनोर्भावः । यद्वा बाहुबलात् यथा ते बाह्रशत्रुविजयः, तथा मद्विषयप्रीतिबलादान्तरशत्रवोऽपि त्वया

जिता इति भावः । प्रकरणादर्थस्वभावच्च हितं विनष्टि मद्भक्तुत्पत्तिविवृद्धिरूपेति । सर्वपापैः प्रमुच्

यते (3) ""सोऽविकम्प्येन योगेन युज्यते (7) इति हि वक्ष्यत इति भावः । उक्तमात्रस्य पुनरभिधाने

प्रयोजनाभावात् भूय एवेत्यनेन प्रकान्तगुह्रतमानुवन्ध्यर्थप्रपञ्चनरूपत्वं विवक्षितमित्यभिप्रायेण भूयो

मनमाहात्म्यप्रपञ्चविषयमेवेत्युक्तम् । एतेनैव वचसः परमत्वे हेतुरपि दर्शितः । शृण्वत एवार्जुनस्य

पुनः शृण्विति विधानं विशिष्टश्रावणार्थमित्यभिप्रायेणाह तदवहितमना इति । पूर्वमनसूयवे दोषनिवृ

त्त्या गहनमात्रमुक्तम्; इदानीमुच्माने प्रीयमाणाय गुणसंपत्त्याऽतिगहनमुच्यते; अतस्त्वयाऽत्यन्तावहितेन

भवितव्यमिति भावः ।।1।।

10.02-02

वक्ष्यमास्य ज्ञानस्यातिदुर्लभत्वमादरणीयतरत्वायोच्यते न मे विदुरिति श्लोकेन। सुरगणाः

महर्षयः इत्याभ्यां प्रतिषेधौपयिकप्रतिषेध्यसंभावनास्थलभिप्रायेणोक्तम्

अतीन्द्रियार्थदर्शिनोऽधिकतरज्ञा

ना अपीति ।प्रभवगोचरवेदमत्र निषिध्यते; न तु प्रभवः, विशिष्टनिषेधे गौरवात्, कर्मधीनोत्पत्तेरभावादेव

तद्वेदनस्य निषेद्धमयुक्तत्वात् । अनन्तरं च यो माम् (3) इति प्रभावज्ञानमेवोच्यते,न तु जन्मज्ञानम्,

अत एवावताररहस्यविषयत्वमपि नात्रन्वितम् । प्रपञ्चितम् इति प्रभावज्ञानमेवोच्यते, न तु जन्मज्ञानम्

,अजमित्येव वचनात् । अत एवावताररहस्यविषयत्वमपि नात्रान्वितम् । प्रपञ्चितं च तत्प्रागेव; इह

त्वन्यत् प्रपञ्चयते; ततश्चात्र देवर्षिभिरप्यवेद्यः ईश्वरे विद्यमानश्च प्रभवः प्रकर्षेण सत्ता---प्रभाव एव

भवितुमर्हतीत्यभिप्रायेण प्रभावमित्युक्तम् । प्रभावं विविच्याह मम नामेति । जन्मविषयत्वे हेतुरनन्वित

इत्यभिप्रायेंण (?) 1 यत इत्यनेन हिशब्दस्य हेतुपरता दर्शिता । सर्वशः इति न देवादीनां कात्स्र्यन्य

मात्रं विवक्षितम्, तस्य बहुवचनासङ्कोचादपि सिद्धेः ;अतस्तदभिप्रेतं व्यञ्जयति तेषां स्वरूपस्येत्या

दिना । कथमसौ प्रभावापरिज्ञानहेतुरिति शङ्कायामभिप्रेतं अतस्तदभिप्रेतं हेतुत्वप्रकारं विशदयति तेषां

देवेत्वेति । वैषम्यनैर्धृण्यपरिहाराय परिमितत्वसिद्धये च पुण्यानुगुणत्वकथनम् । ""को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनाय । अथा को वेदा यत

आबभूव । इयं विसृष्टिर्यत आबभूव । यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् ।

"" सोअङ्ग वेद यदि वा न वेद (अष्ट 2.89.76) इत्यादिश्रुत्यभिप्रायेणाह अत इति । "यन्न देवा

न मुनयो न चाहं न च शङ्करः । जानन्ति परमेशस्य तद्विष्णोः परमं पदम् (वि.1.9.55) इत्यादि

स्मृतिश्च द्रष्टव्या ।।

10.03-03

देवादिभिरप्यवेदनीयत्वकथनस्य वक्ष्यमाणोपयोगं व्यञ्जयन् योमामिति श्लोकाभिप्रेतमाह

तदेतदिति । यो वेत्तीत्यनुवादरूपत्वप्रतीतावप्यर्थः फलानुवादेनोपायविधाने तात्पर्यमित्यभिप्रायेण

उपाय

माहेत्युक्तम् । अजशब्दस्य व्यवच्छेद्यप्रदर्शनाय व्युत्पतिं्त तावदाह न जायत इत्यज इति । विशेषण

सामर्थफलितात् तदुचितात् व्यवच्छेद्यात् व्यावृत्तिमाह अनेनेति । विकारिद्रव्यात् तत्संसृष्टादित्युभाभ्यां

व्यवच्छेदयोग्यत्वं दर्शितम् । "अजो नित्यशशाश्वतः ' श्वे.6.19) इत्यादिभिर्नित्यस्य जीवस्य कथमचित्

संसर्गमात्रेणाजशब्दव्यवच्छेद्यत्वमित्यत्राह संसारिचेतनस्येति । ईश्वरस्यापि सर्वशरीरतया तत्तदचित्संस

र्गस्य विद्यमानत्वात् तद्वयुदासाय कर्मकृतेत्युक्तम् । मुक्तस्यापि स्वरूपानादित्वमस्ति ; ततः कथं व्यवच्

छेद्यत्वमित्याह मुक्तात्मनो ह्रजत्वमादिमदिति । अजत्ववेषणानादित्वमिह विवक्षितम् । स्वरूपानादित्व

विवक्षायां तु पौनरुक्त्यमिति भावः । मुक्तदशायामचित्संसर्गो नास्ति, प्राचीनसंसर्गविवक्षायां बद्धादेव्र्यवच्

छेदः स्यात् ; अतस्तदानींतनस्वरूपात् व्यावृत्तिः कथमुक्ता स्यादित्यत्राह तस्येति।1.सहकारिसन्निधौ

कुर्वत्स्वभावत्वं, सहकार्यभावप्रयुक्तकार्यभाववत्त्वमपि हि योग्यतेत्यभिप्रायः । कालविशेषावच्छेदरहित

निरद्यत्वविधायकश्रुत्या च अयमर्थस्सिद्ध इत्याह निरवद्यमिति । अन्वयार्थमाह एवमिति । देवैर्महर्षिभिश्च दुर्लभं ज्ञानं मन्दप्रज्ञेषु मत्र्येषु भाग्यवशात् कस्यचिज्जायत इति निर्धारणार्थत्वमुचितम् ।

उत्तरार्धे च फलनिर्देशेनासंमूढमत्र्यशब्दयोः समुचितान्वयो नास्ति ; ""यो मामेवमसंमूढो जानाति पुरुषो

त्तमम (15.19) इति च अप्रतिपन्ने च न संमोहप्रसङ्गः ; येन तन्निषेधस्स्यात् । कथं च मम यो वेत्ति

तत्त्वतः । सोऽविकम्प्येन योगेन युज्यते नात्र संशयः (7) इत्यनन्तरमेव वक्ष्यमानच्छायाऽत्र युक्तेत्यभि

प्रायेण मत्र्येष्वसंमूढो यो वेत्तीत्युक्तम् । असंमूढशब्दार्थं वक्तुमुपसर्गाभिप्रेतमर्थं व्यञ्जयति इतरेति ।

""एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्प्येन योगेन युज्यते नात्र संशयः (7)

इत्यनन्तरमेव वक्ष्यमाणत्वात् अत्रापि तदुपयुक्तपापविमोक्ष एवाभिप्रेत इत्यभिप्रायेण मद्भवक्त्युत्पत्तिविरो

धिभिरित्युक्तम् । लोकमहेश्वरे परस्मिन् प्रतिपन्ने च अप्रतिपन्ने च न संमोहप्रसङ्गः ; येन तन्निषेधस्यात् । कथं च ब्राहृरुद्रसनकादिषु जीवत्सु परमपुरुषस्यैव लोकमहेश्वरत्वम् ; वा

बद्धमुक्तविल

क्षणत्वेऽपि नित्यसूरिवर्गात् व्यवच्छेद इत्यादिशङ्कायां संमोहोदयतभावप्रकारौ विवृणोति एतदुक्तमिति। तत्तदधिपतीनामपि लोके तत्तत्सजातिदर्शनादत्रापि सामान्यतोऽवगते शङ्कावकाशः ।

मनुष्यदेवाधिपतिप्रभृतिवत् अण्डाधिपतिप्रभृतेरपि कर्मविशेषमूलपरिमितदेशकालविषयभगवत्संकल्पाधीनैश्व

र्ययोगितया भगवत एव उत्तरावधिरहितमैश्वर्यम् । श्लोकमहेश्वरशब्देन सर्वगोचरश्वर्यस्य विवक्षितत्वादेव

नित्यानामपि व्यवच्छेदसिद्धरिति भावः । सजातीयस्य कथमधिकत्वसिद्धिरित्यत्रोक्तं केनदित्कर्मणेति ।

कथमण्डाधिपतेः तदधीनस्वरूपस्थितिप्रवृत्तिभिरतरसंसारिभिस्साजात्यमित्यत्राह तस्यापीति । कर्मभावना,ब्राहृभावना, उभयभावनेति भावनात्रयम् । तेषामपि भावनात्रयोगादिकं भगवत्पराशरशौनका

दिभिः प्रपञ्चितम् । यथा हिरण्यगर्भादीनुपक्रम्य, ""अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः (वि.67.77) इति , ""आब्राहृस्तम्बपर्यन्ता जगदन्तव्र्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशविर्तिनः । यत

स्ततो न ते ध्याने ध्यानिनामुपकारकाः (वि.ध.104.22) इति । प्रतिबुद्धैरनुपास्यत्वं भगवदधीनत्वं च

पञ्चम एव वेदे सुव्यक्तम् , ""ब्रााहृाणं शितिलकण्ठं च याश्चान्या देवताः स्मृताः । प्रतिबुद्धा न सेवन्ते

यस्मात्परिमितं फलम् , ""एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोजौ स्मृतौ । तदादर्शितपन्थानौ सृष्टिसंहार

कारकौ ।। (भा.मो 350 19) इत्यादिभिः । भावत्रयान्वयेन सह हिरण्यगर्भस्य कार्यत्वादिसमुच्चयार्

थः चशब्दः । सनकसनत्कुमाररुद्रादिब्राम्हकुमारवर्गमभिप्रेत्याह तथाऽन्येऽपीति । अणिमादीति । ""

अणिमा महिमा च तथा लघिमा गरिमा वशित्वमैश्वर्यस्य क्वचिदकृत्रिमत्वोक्तिरपि जन्मप्रभृतिसिद्धतामाह

। अन्यथा, ""महादेवः सर्वमेघे महात्मा हुत्वाऽऽत्मानं देवदेवो बभूव (भा रा.20 12) इत्यादिभिर्विरोधात् । लोकशब्दो लोक्यत इति व्युद्पत्त्या सर्वसंग्राहक इत्यभिप्रायेणाह कार्येति ।

निखिलेत्यादिकं महच्छब्दस्याभिप्रेतविवरणम् ; नियमनैकस्वभावतयेति ईश्वरशब्दस्य ।।

10.04-05

भक्त्त्युत्पत्तिविवृद्धयर्था इत्यत्र विवक्षितं ववृण्वन्नुक्तेन तत्फलितेन च वक्ष्यमाणप्रकरणस्य

च सङ्गतिमाह एवमिति । बुद्धिज्ञानशब्दयोः पौनरुक्त्यपरिहाराय बुद्धिमत्त्वाज्जानातीति

प्रयोगानुसारेण शक्तिलक्षणया, बुद्धयतेऽनयेति व्युत्पत्या वा हेतुकार्यपरतया व्याख्याति

बुद्धिर्मनसो निरूपणसामथ्र्यमिति । असंमोहासत्त्या तद्धेतुभूतं ज्ञानमिह विवक्षितमित्यभिप्रायेणाह

ज्ञानं चिदचिद्वस्तुविशेषविषयो निश्चय इति । बुद्धिज्ञानशब्दोरध्यवसायमोक्षधीविषयत्वेन व्याख्यानं

शब्दद्वयसङ्कोचादिप्रसङ्गादनादृतम् । विजातीये सजातीयताबुद्धिः संमोहः ; तदुदाहरति पूर्वेति ।

पूर्वगृहीतात् आपण्णादिनिष्ठतयाऽनुभूतादित्यर्थः । इदं च स्यर्यमाणाध्वासादाहरणम् । न कोपाख्यविका

राभावमात्रेण सुषुप्त्यादिषु क्षमाशब्दः, अपितु कोपहेतुषु सत्सु तदभावे तत्प्रयोग इत्यभिप्रायेणाह मनोवि

कारेति । क्रोधपहेतावाक्रोशताडनादौ सत्यपीत्यर्थः । ननु कथं हेतौ सति तत्कार्यनिवृत्तिः ; तथात्वे

तस्य हेतुत्वमेव हीयते । उच्यते । न ह्रवश्यं हतौ सति कार्येण भवितव्यमिति नियमः अपितु प्रतिबन्ध

करहितनत्वसार्वत्रिकत्वप्रसङ्गात् नित्यविभोश्च कारणस्य सद्भावात् ; तर्हि कः क्षमाया विस्मय(?)

इति चेत्, यथा मणिमन्त्रादिभिः स्फोटसामग्री स्तम्भते, तथा प्रबलविवेकाख्यप्रतिबन्धकेन कोपसामग्रया

दुर्निवारायाः स्तम्भनादिति भावः । वस्तुसत्यत्वस्य यथार्थ (सत्यत्वस्य वस्तुयथार्थ ?) दर्शनमप्यपेक्षितम्

, तथाऽपि यधादृष्टवचनमात्रे वक्तुर्नापराधः, भ्रमस्य दैवागतत्वादित्यभिप्रायेण यथादृष्टविषयमित्येताव

दुक्तम् । परानर्थहेतोः ""सत्यं भूतहितं प्रोक्तम् (व्या.स्मृ) इत्यादिभिः सत्यत्वप्रतिक्षेपात् भूतहितरूप

मिति विशेषितम् । भावशब्दस्य मनोवृत्तौ प्रसिद्धप्रकर्षबलम् अग्रयप्रायनयं चाभिप्रेत्य सत्यशब्दस्यात्र

लाक्षणिकत्वमाह तदनुगुणेति । शमदमशब्दयोरेकैकस्योभयनियमनाभिधान1. सामथ्र्येऽपि पौनरुक्त्यपरि

हाराय विषयभेदे वक्तव्ये नियमनक्रमेण दमशमयोर्बाह्रान्तरकरणविषयत्वोक्तिः । शास्त्रीभ्यो नियमनस्य

निषिद्धत्वत् अनर्थविषयेभ्य इत्युक्तम् । तथेति । अनर्थविषयेभ्य एव । अनुकूलत्वमात्रं प्रतिकूलत्वमात्र

मेव च सुखदुःखोयोर्लक्षणम् ; तथाऽपि मनोवृत्तिरूपत्वसिद्धयर्थमनुभवशब्दः । सुखदुःखभयाभयमध्यपठि

तत्वात् भवोऽभावः इत्यत्रापि परस्परविरुद्धार्थविषयत्वं संभवत् अपरित्याज्यम् ; ततश्च

भवभावशब्दयोः

प्रत्ययभेदमात्रमेव, न त्वर्थभेदः तत्र चाभाव इत्येव पदच्छेदः । तयोरपि मनोवृत्तिरूपत्वं वक्तव्यम् ।

प्रस्तुतयोरेव च सुखदुःखयोस्तद्धेतुत्वमुचितम् ; एव भवोऽभिप्रायः इत्यादि परव्याख्यानं मन्दम् । तदेत

जखिलमभिप्रेत्याह अनुकूलेति । भवनमिति उद्धर्षोऽत्र विवक्षितः, अवसादप्रतियोगित्वात् । अनवसादानु

द्धर्षो हि सहोक्तौ 1.वाक्यकारेण, ""तल्लब्धिर्विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षेभ्यः (छा

व्या.) इति । सुखदुःखशब्दाभ्यां पौनरुक्त्यव्युदासाय भयाभय शब्दयोस्तद्विशेषविषयतां दर्शयति आगमि

न इति । आगामिप्रत्ययवायोत्प्रेक्षा भयमिति लक्षणेऽपि तस्यैव ज्ञानविशेषस्य प्रतिकूलरूपत्वाद्दुःखत्वम् ।

न ह्रन्यो दुःखाख्यो गुणोऽस्मद्दर्शने । परदुःखाहेतुत्वमित्यत्र दुःखशब्देनाहितं विवक्षितम्; चिकित्सादौ

हितरूपदुःखकरणस्य हिंसात्वाभावात् । प्रपञ्चितं चैतत् प्रागेव (2.32) । अभयाहिंसानिषेधप्रसङ्गात्

हिंसाविषयभूतशत्रुस्मृतिर्जाता ; ततश्च द्वेषाद्यभावेन शत्रुमित्रादिसाम्यं प्रदेशान्तरप्रपञ्चितमिह विवक्षित

मित्यभिप्रायेणाह आत्मनीति । "सममतिरात्मसह्मद्विपक्षपक्षे ' (वि 3.7.20) इति भगवत्पराशरवचनमिह

तत्तत्पदैः स्मारितम् । अर्थानर्थयोरिति । आत्मार्थपरार्थयोरात्मानर्थरपरानर्थयोश्चेत्यादि भाव्यम् ।

तुष्टेस्समतासहपाठात् शत्रूणां समृद्धिमतामपि संग्रहाय सर्वशब्दः । सर्वत्र सन्तोष एव ह्रात्मनः स्वारसिकः प्राप्तः, प्रातिकूल्यभावनाद्युपाध्यधीनं हि वैरादिकमित्यभिप्रायेण तोषस्वभावत्वमित्युक्तम्

,इदं च मैत्र्यादिषु 2. चतुर्षु मुदिताख्यचित्तपरिकर्म । बाह्रागमादिंमूलक्लेशस्य तपस्त्वव्यवच्छेदायोक्तं

शास्त्रीय इति । शास्त्रीयस्यैव भोगसङ्कोचस्य व्याध्यादिवशात् अक्लेशात्मकत्वे तपस्त्वं नास्तीति

व्यञ्जनाय कायक्लेश इत्युक्तम् । दाने परकीयानाम्, स्वकीयानामपि हेयभूतानां व्यवच्छेदाय स्वकीय

भोग्यानामित्युक्तम् । परस्मै प्रतिपादनं परस्वत्वापादनमित्यर्थः । प्रथात्वमात्रमुभयसाधारणम् ; अतो

गुणवत्त्वनैर्गुण्याभ्यां विशेषणम् । एतच्चेत्यादिकं पूर्ववत् । सिंहावलोकितकेनाह तपोदाने च तथेति ।

मनोवृत्तिविशेषावित्यर्थः । उक्तमात्रव्युदासायोपलक्षणतामभिप्रेत्याह एवमाद्या इति । अभिप्रायऽपि

भाव

शब्दप्रयोगादत्र भावशब्दस्य मनोवृत्तिविषयता । सर्वेषां कर्तृकरणादीनां प्रवृत्तेः स्वाधीनत्वे कैमुत्यार्थमाह

प्रवृत्तिनिवृत्तिहेतव इति । मत्त एवेत्यत्र परोक्तसन्निधमात्रादिव्युदासाय पञ्चम्यवगतं हेतुत्वं व्यापारमुखेने

त्याह मत्सङ्कल्पेति । पृथग्विधानां परस्परविरूद्धानामप्यहमेको हेतुरिति एवकारीभिप्रायः ।।

10.06-06

सृष्टिस्थितिहेतुतया प्रसिद्धेषु महत्स्वपि हेतुहेतुभूतेषु स्वतन्त्रत्वशङ्का न कार्या, अन्यसङ्कल्पप्रसूतेप्

ष्वपि मत्सङ्कल्पमूलत्वमनुमसन्धेयमित्यस्योदाहारणतया महर्षयः इत्युच्यत इत्यभिप्रायेणाह सर्वस्येति ।

येषां लोक इमाः प्रजा इत्येतदभिप्रेतकथनं सर्वस्य भूतजातस्येत्यादि । सृष्टिस्थितित्योरिति महर्षिषु

मनुषु च क्रमादन्वेतव्यम् । सप्तर्षीणां पूर्ववत्विशेषणविवक्षितमिह अतीतमनवन्तर इति । भृग्वादय इति

"महर्षीणां भृगुरहम् ' (24) इति तत्प्रधानत्वं हि वक्ष्यते । "सप्त ब्रााहृण इत्येते पुराणे निश्चयं गताः '

(वि.1.7.6) इत्यादिस्मारणाय सप्तशब्दः । आर्षैवरणे वरणीयानां गोत्राणां प्रवर्तयितार इत्यभिप्रायेणाह

नित्यसृष्टिप्रवर्तनायेति । नैमित्तिकसृष्टयादिव्यवच्छेदाय नित्यशब्दः । ब्राहृणोमनस्संभवा इति ।

सैबाले (1.) "स मानसान् सप्त पुत्रानसृजत् ' इत्यादि । ननु ब्राहृदिवसे चतुर्दश मनवः क्रमादधिकुर्व

न्ति, एकस्मिन् मन्वन्तरे एक एव; तत् कथं चत्वार इति । अत्राह ये च सावर्णिकानामेति । ब्राहृासाव

र्णो रुद्रसावर्णो धर्मसावर्णो दक्षसावर्णः इति दक्षस्य दुहितरि तैश्चतुर्भिर्मानसा जनिताः । मद्भावाः

इत्येतावदत्र विधेयम् ; अन्यत् सर्वं पुराणादिझ्र्प्रटसिद्धमनूद्यते इति ज्ञापनाय यच्छब्दः । सन्तानमय इति । "जनो लोकः प्रोक्तः ' इति पाठाल्लोकोऽत्र सन्तानः । येषां लोके जाताः यत्पुत्रपौत्रादिभ्यो जाता इत्यर्थः । इमाः इति निर्देशः कालान्तरवर्तिनित्यसृष्टेरपि संग्राहकः; न तु व्युदासकः, ईश्वरस्य

तत्राप्यापरोक्ष्यादित्यभिप्रायेणाह प्रतिक्षणमाप्रलयादिति । उत्पादकाः पालकाश्चेति महर्षीणां मनूनां च

यथाक्रमं निर्देशः । उत्पादिकाः इत्यादिस्त्रीलिङ्गपाठे तु तत्तत्प्रजाभिर्यथासंभवमन्वयः । मम यो भाव

स्य एव येषां भाव इति । भावसामानाधिकरण्यफलितोक्तिरियम्, मध्यमपदलोपी वा समासः ।राज्ञो भाव एव किङ्करस्य भाव इतवत् अभिप्रायसाम्यापेक्षयाऽयं व्यपदेश इति दर्शयति मन्मते स्थिता इति । स्वाच्छन्द्यादभिप्रायसाम्यं भृत्यादिवद्बुद्धिपूर्वानुवर्तमानमात्रं च व्युदस्यति मत्सङ्कल्पानवर्तिन इति ।।

10.07-07

एतां विभूतिं योगं चेति पूर्वोक्तार्थस्य 1. बुद्धिक्रमेणानुवादः । स्वकल्याणेत्यादिसंग्रहश्लोके (14)

त्वयमेवार्थो यथाक्रममुक्तः ; तदनुसारेण पदार्थवाक्यार्थवाह विभूतिरैश्वर्यमित्यादिना । सर्वस्य सदायत्तो

त्पत्तिस्थितिप्रवृत्तिता रूपां विभूतिमिति । तन्निरूप्यत्वात् तत्तत्सामानाधिकरण्यम् । उत्पत्ति स्थित्योरपि

सङ्कल्पाधीनत्वान्नियमनविषयत्वम् ; । प्रवृत्तिरिह स्वकार्यार्थव्यापारः, स्पन्दादेरसार्वत्रिकत्वात् । 'विभू

तिर्भूतिरैश्वर्यम् ' (नाम.1.स्व) इति नैघण्टुकाः । विभुशब्दश्च नियन्तरि प्रयुक्तचरः । अतो विभवनमिह

नियमनमेव वक्ति, तस्य भावार्थतास्वारस्यात्, अनपवादाच्च । वस्त्वन्तरसामानाधिकरण्यवद्विभूतिशब्देषु

तु नियन्तव्यविषयता वक्ष्यते । युज्यत इति व्युत्पत्त्या उभयलिङ्गत्वमिह योग उक्तः । ईश्वरेऽनीश्वरस्

भावभूतपाहतन्त्र्यदुःखाज्ञानाद्यारोपम्, अनीश्वरे चेश्वराधीनस्वातन्त्र्यादेस्स्वतस्सिद्धत्वाद्यारोपं च परित्यज्

दर्शयितुम् अप्रकम्येनेत्युक्तम् । पूर्वापरपरामर्शादुपासकान्वितयोगशब्दस्य योगविशेष निष्ठतामाह भक्ति

योगेनेति । शास्त्रसिद्धस्याप्यर्थस्य साक्षात्कारे सत्येव ह्रत्यन्तवैशद्यमित्यभिप्रायेण नात्र संशयः इत्यस्याशयं विशदयतिल

मद्विभूतीति ।।

10.08-08

उक्तार्थस्यानन्तरमुदापहरणप्रदर्शणप्रदर्शनमुखेन प्रपञ्चनं क्रियत इत्यभिप्रायेणाह विभूतिज्ञानेति ।

तदेव हि ज्ञानं भक्तिरूपेण परिणमत इत्यभिप्रायेण विभूतिज्ञानविपाकरूपत्वोक्तिः । असकोचात् कार्य

भूतब्राहृादिसमस्तगोचरः सर्वशब्द इत्यभिप्रायेण विचित्रेत्यादिकमुक्तम् । प्रभवशब्दस्यात्रोत्पत्तिक्रियादिमा

त्रपरत्वव्युदासायाह उत्पत्तिकारणमिति । अत्र वक्ष्यमाणप्राकारेण सृष्ट¬ुपायुक्तकल्याणगुणयोगोऽपि

गर्भितः । ब्राहृादेरपि स्वप्रवृत्तिसामथ्र्यं मदधीनमिति मत्तस्सर्वमित्यनेन विवक्षितमित्यभिप्रायेणाह

सर्वं

मत्त एवेति । पूर्वेक्तविभूत्याद्यनुवादरूपतां दर्शयति इतीदमित्यादिना । स्वाभाविकनिरङ्कशशब्दाभ्या

म् अर्वाचीनेश्वरव्यवच्छेदाय श्रुतिसिद्धाहेतुसाध्यत्वानवधिकत्वोक्तिः । वक्तृरूपावतारसौलभ्यपरास्मच्छब्दा

भिप्रेतं मां भजन्ते इत्युच्यमानभजनस्यात्यन्तोपयुक्तं योगशब्दार्थमाह सौशील्येत्यादिना । सौशील्यवात्

सल्येति दिव्यात्मगुणवर्गस्य प्रदर्शनार्थम् ; सौन्दर्येत्याकर्षकतमदिव्यमङ्गलविग्रहगुणवर्गस्य । बुध

शब्दैनात्र प्रकृतज्ञानविशेषवन्तः प्रागुक्ता महात्मानो विवक्षिता इत्यभिप्रायेण ज्ञानिन इत्युक्तम् । मत्वा

भावमन्विता इत्यन्वयः ; एवंविधज्ञानस्य भक्तिसाधन्वे तात्पर्यात् मामित्यनेनात्र भजनदशानुसन्धेयगुण

गणमर्थमाह भावो मनोवृत्तिवेशेष इति । तमेव विशेषं विशदयति मयि स्पृहयालव इति ।।

10.09-09

भावमसमन्वितत्वप्रपञ्चनमेवानन्तरं क्रियत इत्यभिप्रायेण तदाकाङ्क्षां दर्शयति कथमिति । भक्ति

परिपाकक्रमविशेषसिद्धाकारप्रदर्शनं मच्चित्ताः इत्यादिभिश्चतुर्भिर्विशेषणैः क्रियत इत्यभिप्रायेण मयि निविष्टमनस इत्यादिकमुक्तम् । मद्गतप्राणा इत्यस्य तात्पर्यप्रदर्शनाय पर्यायं तावदाह मद्गतजीविता

इति । भक्तगतस्य जीवितस्य कथं तद्गतत्वमित्यत्राह मया विनेति । बोधनकथनशब्दयोरेकविषयत्वे

पौनरुक्त्यात् विषयभेदो वाच्यः ; तत्र च बोधयन्तः इत्यनेन अज्ञातार्थज्ञापनं कथयन्तः इत्यनेन च इति

वृत्तवर्णनं च (?) स्वसतः प्रतीयत इत्यभिप्रायेण स्वैःस्वैरित्यादिकमुक्तम् । दिव्यानीति अतिमानुषत्व

प्रयुक्ताद्भुतत्वं विवक्षितम् । तस्यैव भोग्यत्वं रमणीयानीत्यनेनोक्तम् । तुष्यन्ति च रमन्ति चेत्यनयोद्र्वयो

रपि कथकविषयत्वेऽनतिभिन्नार्थतया मन्दप्रयोजनत्वात् कस्यचित् कखकविषयत्वमन्यस्य कथनाक्षिप्त

श्रोतृविषयत्वं च युक्तम् ; तत्र च-स्वप्रयोजनान्तरसाधकपरप्रीत्यर्थं हि लोके कथाप्रयोगो दृष्टः, तोष

शब्दश्चाधिस्पृहानिवृत्त्यर्थः, ततोऽत्र तुष्यन्तीत्यनन्यप्रयोजनकथकविषयम् ; पारिशेष्यात् रमन्तित्यस्य

श्रवणमूलत्वं लब्धम् । तुष्यन्ति च रमन्ति चेत्यनयोः मच्चित्ताः इत्याद्युक्तैककर्तृकत्वं कथनकश्रवणयोरे

कस्मिन्नेव कालभेदेन 1. संभवान्न परित्याज्यम् । तदेतखिलमभिप्रेत्याह वक्तार इत्यादि रमन्त इत्यन्तम्।।

10.10-10

भगवद्गुणविभूतिज्ञानस्य भक्त्युत्पत्तिविवृद्धिहेतुत्वमुक्तम् ; तथाविधविवृद्धभक्तेर्भगवत्प्राप्तिपूर्वभावि

विशदतम 1. साक्षात्काररूपावस्थाविशेषहेतुत्वं भगवत्प्रसादावान्तरव्यापारकमुच्यते तेषामिति । मयि

सततयोगमाशंसमानानामिति । न हि सततं समाधानरुपो योगः शक्यः ; सततशब्देन प्रतिदिवसविव

क्षा च न स्वारसिकी ; न च प्राप्तिरूपसततयोग इदानीं वृत्तः ; अत आशंसार्थत्वमेव युक्तमिति भावः ।

तमेवेति । आशंसाविषयान्तर्गतमेवेत्यर्थः । सततयोगाशंसयैव भजने प्रीतिरूपत्वस्य फलितत्वात् प्रीति

पूर्वकमित्यस्य भजनान्वये प्रयोजनं मन्दम् ; ददामीत्यनेनान्वये तु भजनावान्तरव्यापारकथनेन 2.

परमोदारत्वादिभगवद्गुणगणप्रकाशनेन च महत् प्रयोजनमित्यभिप्रायेण प्रीतिपूर्वकं ददामीत्यन्वय उक्तः

। मामुपयान्तीत्यत्रापरामृष्टपदपदार्थैर्मूढैरैक्यापत्तिव्र्याख्याता ।।

10.11-11

उक्तबुद्धियोगोत्पत्तिप्रतिबन्धनिरसनं तेषामेवेति श्लोकतोच्यत इत्यभिप्रायेणाह किंचेति । अनु

कम्पाशब्देनात्र अनिष्टविवृत्तिपूर्वकेष्टप्राप्तिहेतुः "मदनुग्रहाय (11.1) इति वक्ष्यमाणप्रसादविशेषो विवक्षि

तः, सहजकारुण्यमात्रपरत्वे अर्थशब्दस्य व्यर्थत्वादिपरत्वेऽधिकप्रयोजनं नास्ति ; मनोवृत्तिविषयत्वं तु

बुद्धि योगस्यात्यन्तोपयुक्तमिति भावः । व्याप्तस्येश्वरस्य कीदृशीयमपूर्वा स्थितिरित्यत्रोक्तं विषयतयेति ।

दीपतया रूपितस्य ज्ञानस्य भास्वत्त्वं परितः प्रकाशनम् ;तच्च प्रकारविशेषप्रकाशनं भवितुमर्हति । तथा

विधविशदानुभवादज्ञाननिपवृत्तिः शब्दादिप्राकृतगुणप्रावण्यनिवृत्तिश्चेत्यभिप्रायेणाह मदीयान् कल्याणगुण

गणांश्चाऽऽविष्कुर्वन्निति । हेतुकार्भावेन व्यपदेशादज्ञानतमश्शब्दयोरत्रार्थान्तरं वाच्यम् ; कर्मणि च

ज्ञानविरोधित्वेन अज्ञानशब्दः ; यथोक्तम् "अविद्या कर्मसंज्ञाऽन्या ' (वि.3.7.61) इति । कर्मजन्यं

भगवतसाक्षात्काररुपप्रकाशप्रतिबन्धकं च तमः अर्थस्वभावात् विषयान्तरप्रावण्यमेव । निरतिशयभोग्य

भगवज्ज्ञानस्य भोग्यान्तरप्रावण्यनिवर्तकत्वं युक्तम् ; "स्थितेऽरविन्दे ' (स्तो 27) इत्यादिन्यायात् ;

तदेतदभिप्रेत्योक्तं ज्ञानविरोधीत्यादि । तमश्शब्देन तमोवृत्तिलक्षणादिपक्षोऽप्यनेन निरस्तः । यद्यपि

विषयप्रावण्यनिवृत्तिपूर्वकं भजनम्, तथाऽपि संस्कारेशेषादनुवृत्तं सूक्ष्मं प्रावण्यमिह भजनविनाश्यतयोक्त

मिति नान्योन्याश्रयः ।।

10.12-13

परं ब्राहृेत्यादेः अमृतमित्यन्तस्यार्जुनवाक्यस्य पूर्वोत्तरसंगतिं दर्शयति एवमिति । यो मामजम्(3) इत्याद्यनुसन्धानेनोक्तं सकलेतरेत्यादि । "तुष्यन्ति च रमन्ति च ' (9) इत्यनेनोक्तमाह शृण्वतांनिरतिशयानन्दजनकमिति । "विस्तरेणात्मनो योगं ' (18) "विस्तस्य मे ' (19), इति प्रष्टृप्रतिवक्तृभ्यां विस्तरशब्दप्रयोगेऽपि वक्ष्यमाणस्यार्थप्रपञ्चरूपत्वात् शब्दप्रपञ्चोपलक्षितार्थप्रपञ्चे अत्रत्यविस्तर शब्दस्य तात्पर्यमिति दर्शयितुं तद्विस्तारं श्रोतुकाम इत्युक्तम् । विस्तरं श्रोतुकामश्चार्जुन संग्रहोक्तस्यार्थस्य प्रतिपन्नातां तस्य सत्यत्वाध्वसायेनानसूयुतां च दर्शयति परंब्राहृेत्यादिभिः । अत्र तावत् भवानितिप्रथमान्तत्वात् आहुरित्युत्तरत्र न संबन्धः, परं ब्राहृेत्यादीनां प्राथम्यादिनोद्देश्यत्वं भवानित्यस्य च विधेयत्व प्रतीतम् ; उद्देश्यस्य च पूर्वमेव सिद्धिरपेक्षिता ; तदाह यं श्रुतयो वदन्ति, स हि भवानिति ।त्रिष्वपि क्रमाच्छुतीरुदाहरति । तत्र "यतो वा ' इत्युपास्यब्राहृलक्षणवाक्यम् ; तत्पुरोवादेनोपास्यं ब्राहृैवप्राप्यमिति प्रदर्शनाय परशब्दविशेषणसिद्धये च ब्राहृविदिति वाक्यमुपात्तम् । उभयत्रातिस्फुटं वाक्यं सयो हेति । ब्राहृैव भवतीत्येतत् शारीरकभाष्ये (1.1.4) व्याख्यातम्, ""प्रकारैक्ये च तत्त्वव्यवहारो मुख्य एव, यथा सेयं गौः इति । ब्राह्रान्तसाम्यात् ब्राहृव्यपदेशो मुख्यप्राय इत्यर्थः । सेयं गौरितिदृष्टान्तोऽपि, साधम्र्यमूलव्यपदेशविषयः । यद्वाब्राहृैवभवतीत्यत्राप्येवकार इवशब्दार्थोऽपि स्यादिति केचित् ; "इववद्वैवमेव ' इति निघण्टुसद्भावात् ; ""वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमान्लोकानभिजयति (यजु.2.3. 16) इत्यादिप्रयोगसद्भावाच्च । न ह्रत्र पशुयागमात्रेण विष्णुरेवासौ जातः ; नापि स्पर्धमानस्य मोक्षाधिकारः ; न च विष्णुरेव भवतीति तावदेव फलं निर्दिष्टम् ; किंतु ;""इमान् लोकानभिजयति इति सांसारिकफलमुक्तम् । अतः पराक्रमादिगुणयोगेन विष्णुरिव भूत्वेमान्लोकानभिजयतीति वाक्यार्थ इति । अतः, "ब्राहृैव भवति ' इति साधम्र्यहेतुकं सामानाधइकरण्यम् ।""सामानाधिकरण्यम् । ""परमं साम्यमुपैति (मु.3.1.3) इति हि श्रुतिः । वक्ष्यति च, "मम साधम्र्यमागताः (14.2) इति । श्रुतिप्रदर्शनार्थं विषयमुपादय शोधयति तथेत्यादिना।सामानाधिकरण्यप्रयोगात्वस्त्वन्तरसामानाधिकरण्यसहपाठाभावात्भगवतस्ततत्तच्छØतिप्र

तिपादितपरत्वप्रकारव्यञ्जनेतात्पर्यान्वयमुखेनतत्प्रदर्शयतिपरंज्योतिरिति""अथयदतःइत्यादिव्यपदेशसिद्धपुरुषसूक्तप्रकरणैकाथ्र्याच्च समीहितमखिलं सिद्धम् ; "परंज्योतिरुपसंपद्य ' इति वाक्येन मुक्ताप्राप्यत्वादिकम्,परंज्योरिति विशिष्टप्रयोगाश्च सिद्धः ; तं देवा ज्योतिषां ज्योतिः ' इत्यादिना देवोपास्यत्वमुखेन ज्योतिषां ज्योतिष्वेन च परत्वमर्थलब्धम् । भगवदसाधारणं परमशब्दविशेषितं पावन

त्वं दर्शयितुं पवित्रशब्दस्यात्र संज्ञात्व्युदासायाह परमं पावनमिति । विनाशकरमित्यत्र कल्मषशब्दौ

लुप्तविभक्तिकौ ; तत्वं नारायणः परः ' इत्यादिसहपाठवशात् व्यस्तत्वं प्रथमान्तत्वं च प्राप्तम् । तथैव

सविभक्तितया श्रुत्यन्तरेऽधीयते, ""नारायणछ परं ब्राहृ (महो) इत्यादि । एतेन पञ्चमीसमासतां वदन् भगवदद्वेषी प्रत्युक्तः, सर्वश्रुतिस्मृतिसूत्रन्यायविरोधाच्च । इति हि श्रुतयो वदन्तीत्यत्र, ""यतो वा

इमानि (भृ.1) इत्यादिकमखिलमन्वेतव्यम् ; मध्ये तत्तदर्थवशद्यावान्तरवाक्यम् ।

एवं श्रुतिसिद्धोऽर्थः स्मृतीतिहासपुराणायमानमहर्षिवचनात् श्रुतिवदन्यानपेक्षसर्वज्ञवचनाच्च सिद्ध इत्याह

पुरुषमिति सार्धै । सर्वशब्देनाविगीतत्वं विवक्षितम् । परावरतत्त्वयाथात्म्यविद इति ऋषि शब्दाभिप्रेतो

क्तिः । तेन आप्तमत्वमुक्तं भवति । त्वामित्येतत् ब्राहृरुद्रादिविशेषान्तरव्युदासार्थमित्यभिप्रायेण त्वामेवेत्

युक्तम् ; यद्वा अवतीर्णं त्वामेवेत्यर्थ । शाश्वतं नित्यम्, दिव्यं परमव्योमनिलयम्, पुरुषं " परात्परं पुरि

शयं पुरुषमीक्षते ' (प्र.5 5) इत्यादिप्रतिपादितम् । शाश्वतं दिव्यं पुरुषमिति व्युत्क्रमोपादानं दिवि वर्त

मानस्य पुरुषस्य पुरुषसूक्तोदितामृतत्रिपाद्विभूतिविशिष्टवेषेण शाश्वतत्वमिह विवक्षितमिति व्यञ्जनार्थम् ।

आदिश्चासौ देवश्चेति आदिदेव - जगत्कारणभूतः क्रीडारूपजगद्व्यापारश्चेत्यर्थः। स्मरन्ति च, "क्रीडतो बालकस्येव ' (वि.1.2.28), "क्रीडा हरेरिदं सर्वम् ट (भा.मो. 206-58), "बालः क्रीडनकैरिव ' (भा.स.61.31) इति । सूत्रितं च, "लोकवत्तु लीलाकैवल्यम् ' (ब्रा 2. 1.33) इति ।

एतेन ब्राहृादीनामपि देवजात्यानुप्रविष्टानां परमपुरुषलीलोपकरणत्वं कार्यत्वं चोक्तं भवति । "नारायणा

द्ब्राहृा जायते नारायणात् रुद्रो जायते ' (ना.उ), "एको ह वै नारायण असीन्न ब्राहृा नेशानः ' (महो.1

श्रेष्ठौ प्रसादक्रोधजौ स्मृतौ (भा.शा.मा 350-19), "आवां तवाङ्गे संभूतौ ' (भा.मो.340.19132.48) इति प्रक्रियया वा निर्विकारत्वमुच्यते । विभुम् "आकाशवत्सर्वगतश्च नित्यः (ह.वि.132132.8)

प्रक्रियया व्याप्तम् ; नियन्तारमिति वा ; एतेन कारणत्वाद्यनुगुणव्याप्तिनियमनादिकमन्तर्यामिब्रााहृणादि

सिद्धं स्मारितम् । एतै पदैः, "एष सर्व भूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः (सु.7)

इति सूचिता । सर्व इति सामान्यतससंग्रहेऽप्याप्तमत्विवक्षया नारदादेः पृथगभिधानम् । देवर्षिशब्देन

जात्याऽपि सत्त्वोत्तरत्वं प्रकाश्यते । तत्राप्यसौ, ""देवर्षीणां च नारदः (गी.10.23) इति प्रकृष्टः ।

असितः । देवलश्च तस्य पिता । व्यासश्च भगवान् पाराशर्यः । ""आहुस्त्वामृषयस्सर्वे इत्यादिकं

संवादयति येचेति । वेदविदः कर्मभागवेदिनः, अध्यात्मविदः वेदान्तार्थवेदिनः कृष्णं महात्मानं सनातनं

धर्मं वदन्तीत्यन्वयः । महात्मशब्देन सर्वादिशायिपरमैश्वर्यादिकं विवशक्षितम् ; महान् आत्मेति परमात्म

त्वं वा । "स वा एष महानज आत्मा ' (बृ.6.4.22) इत्यादेः ; यागदानादयो हि देशकालादिपरिमित

फलदायिनः , स्वयं चानित्याः ; अयं तु नित्यनिरतिशयफलदायी, नित्यश्चेति सनातनशब्देन धर्मस्य

विशेषणम् । पवित्रशब्दोऽत्र पापनिबर्हणपरः । पुण्यशब्दोऽभिमतफलविशेषसाधनपरः । मङ्गल शब्दश्च स्वसन्निधिमात्रेणातिसमृद्धिहेतुभूतकल्याणवस्तुपरः । त्रैलोक्यं पुण्डरीकाक्ष (भा.व.86.28)

इति कार्यकारणभावेन शरीरात्वभावेन वा सामानाधिकरण्यम् । त्रयो लोकास्त्रैलोक्यम् ; बद्धमुक्तनित्या

इथ्यर्थः । यद्वा उपलक्षणतया भूम्यन्तरिक्षादिकमुच्यते । पुण्डरीकाक्षशब्देन अन्तरादित्यविद्याप्रतिपादित

विलक्षणविग्रहत्वं दर्शितम् । ""तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी (छा 1.6.7) इत्यस्य च वाक्

यस्य द्रमिडभाष्योदितेषु षट्स्वर्थेषु सिद्धान्तत्वेन भाष्यकारपरिगृहीताः त्रयोऽर्थाः । 5. तथा हि

वेदार्थ

संग्रहे दर्शितम् , ""गम्भीराम्भस्समुद्भूत-सुमृष्नाल-रविकरविकसितपुण्डरीकदलामलायतेक्षणः इति ।

इदं च वरदगुरुभिस्तत्त्वसारे (श्लो. 19-26) प्रपञ्चितम् । नारायणवशब्देन परतत्त्वनिर्णयैकपरनाराय

णानुवाकसूचनम् । श्रीमान् क्षीरार्णवनिकेतनः इत्यारभ्याम्, "" ह्यीश्च ते लक्ष्मीश्च पत्न्यौ (ना),

""अमभस्पारे (ना), ""यमन्तस्समुद्रे ' (ना) इत्यादिकं स्मारितम् । उत्सृज्यागतः इत्यवतारमात्रत्वं

विवक्षितम् ; कृष्णावतारदशायामपि क्षीरार्णवगतानागपर्यङ्कशायिविग्रहस्य तत्रैव स्थितत्वात् । साक्षादि

ति । न त्वौपचारिकः, आत्मान्तरव्यवहोतो वेत्यर्थः । तथेति 6. प्रकरणान्तरत्वव्यक्त्यर्थम् । देवर्षि

नारदस्तथा ' इति व्याख्येयविभागावगमात् उक्तवाक्योपादानमपि तथाविभागेन कुर्मह इति च दर्शितम् ।

तत्र कृत्स्नमित्यादि नारायणस्यैव सर्वाश्रयत्वात्, सर्वप्रकारातिशययोगित्वाद्वा । तत्पुण्यमित्यादिकं ब्राहृ

शब्दानुरोधेन नारायणविषयं वा, प्रकरणविशेषेण तदाश्रितस्थानप्रशंसनं वा । स्वयमेवेति ।स्वतस्सर्वज्ञो

ब्राहृादीनामपि गुरुस्त्वमेवेत्यर्थः । भूमिरापः (छ.4) इत्यादिषु सर्वशेषित्वं सर्वकारणत्वं सर्वशरीरित्वमित्

यादिकमुक्तम् ।।

10.14-14

सङ्गत्यर्थमाह अत इति । आप्तमैराम्नायैर्महर्षिभिः भवताऽपि चोक्तत्वादिति भावः । ऋतं मन्ये

इत्यस्याभिप्रेतमाह न प्रशंसाद्यभिप्रायमिति । अन्येशषु हि तद्गुणारोपेणेन प्रशंसेत्यभिप्रायः । मा मित्य

नेन "शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ' (गी 2 7) इत्यादिकमभिप्रेतम् । वदिरिह शिष्टमनुवदन् शास्

यर्थे वर्तमानो द्विकर्मकः । एवं शिष्टस्यानुभाषणं शासनविशेषप्रार्थनार्थम् । अनन्यसाधारणमनवधिकाति

शयमिति विशेषणाभ्यां समाधिकराहित्यम्, स्वभाविकमिति अनन्याधीनत्वं विवक्षितम् । अतो न विदुरित्

यन्वयः । "ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ।।

(वि.6.5.79) इति भगवत्पराशरवचनानुसारेण देवादिभिरवेद्यत्वाय भगवच्छब्दार्थे दर्शयति

निरतिशय

ज्ञानेत्यादिना । व्यक्तिशब्दोऽत्र ""किमात्मिकैवैषा भगवतो व्यक्तिः (र.ब्राा.) इत्यादिष्विव न विग्रहादि

परः, अप्रसक्तत्वात्, अनन्तरं च अपृच्छयमानत्वात् ; अतः, "वक्तुमर्हस्यशेषेण ' इत्यनन्तरं विवक्षोः,

"अन्ये त्वत्प्रतिपादनप्रकारमपि न जानन्ति, किं पुनः प्रत्यक्षादिवत् प्रकाशनमित्यर्थोऽपेक्षितत्वात् स्वीकार्यः ' इत्यभिप्रायेणाह व्यञ्जनप्रकारमिति । "अक्षरक्षरयोव्यक्तिम् इ(पृ)च्छाम्यरिनिषूदन ।

उपलब्धुम् ' (मो.ध.308.2) इतिवत् । परिमितज्ञाना इति हि शब्दतात्पर्योक्तिः ।।

10.15-15

देवादीनां भगवद्वैभवे वक्तृत्वयोग्यता प्रतिक्षिप्ता; अथ भगवत एव स्ववैभवचनयोग्यतामाह स्वयमेवेति

श्लोकेन । अत्र पुरुषोत्तमेति संज्ञा ; शेषं तु तत्संज्ञान्वयौपयिकगुणपरमिति विभजनाय पूर्वमेव हे पुरुषोत्तमेत्युक्तम् । अत्र "त्वमेव त्वां वेत्थ योऽसि "(काठ.1.3.1) इति श्रुतिस्मरणाद्यभिप्रायेण आत्मान

मित्यस्य त्वामिति प्रतिपदम् । 1.स्वयमेवेत्यनेन फलितोक्तिः स्वैनैव ज्ञानेनेति । आत्मना अन्यैरननु

गृहीत इत्यर्थः । यथाऽन्येषां, "मत्तस्समृतिज्र्ञानम् ' (गी.15.15) इति, न तथाऽस्त्येति भावः। यद्वा

आत्मनेत्यस्य व्याख्या ज्ञानेनेति; ""आत्मा जीवे इत्यारभ्य "यत्नेऽर्केऽग्नौ मतौ वायौ ' इति पाठात् ।

भावनशब्दस्य चिन्ताद्यर्थपरत्वव्युदासायाह उत्पादयितरिति । भूतेशजगत्पतिशब्दयोः पौनरुक्त्यशङ्का

व्युदासाय नियन्तृत्वमस्वामित्वकथनम् । रक्षणे व्युत्पन्नस्यापि पतिशब्दस्य शेषित्वे रूढिः । "स कारणं

करणाधिपाधिपः (श्वे,6,8), ""तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम् । पतिं पतीनां

परमं परस्तात् विदाम देवं भुवनेशमीड¬म् ।। (श्वे.6.7) इति श्रुतिसिद्धाश्चत्वारोऽर्थाः भूतभावनेत्या

दिभिश्चतुर्भिः प्रतिपाद्यन्त इति ज्ञापनाय दैवतानामपि परमदैवतेति श्रुतिगतैः पदैर्याख्यातम् । देवशब्दस्य जातिविशेषवाचकत्वेन प्रतिसंबन्धिशब्दत्वाभावात् द्वतीयो देवशब्द उत्कर्षविशेषविषयतया

औपचारिक इति मुख्यगौणानुगतमुपचारिनिमित्तं दर्शयति यथेति ।

अन्योन्यवैलक्षण्यस्याकिंचिकरत्वाय,

अत्यन्तवैलक्षण्यज्ञापनाय च मृगपक्षिमिसरीसृगृहणम् । यथा देवादीनां कीटः, तथा परमात्मनो देवा

अपि । ""कीटाः समस्ताः सुरा दृष्टे यत्र...(मुकुन्दमाला) इति ह्राहुः । सौन्दर्यसौशील्येति विग्रह

गुणानामात्मगुणानां चोपलक्षणम् ।।

10.16-16

आत्मशब्दोऽन्यविभूतित्वव्युदासार्थ इत्याह त्वदसाधारण्य इति । विभूतयः इति प्रथमान्तत्वेन

वक्तुमर्हसीत्यनेन अनवयायोगात् विभूतयो या इति यच्छब्दाध्याहारः । यद्वा दिव्या हि, अतोऽवश्यवक्त

व्याः; अतः ताः(त्वं) वक्तुमर्हसीति वाक्यावृत्तिज्ञापनार्थः । अर्हसीति योग्यत्वनिर्देशेन तत्प्रार्थनं विवक्षितम्

। ईश्वरेणाप्यशेषेण वक्तुम्, अर्जुनेन च श्रोतुम् अशक्यत्वात् वचनतः प्रसादतश्च प्रकाशनमात्रमिह प्राथ्र्य

ते ; "न हि ते भगवन् व्यक्तिम् ' (14) इति हि पूर्वमुक्तमित्यभिप्रायेणाह त्वमेव व्यञ्जयेत्यर्थ इति ।

बहुवचनासङ्कोचात् अशेषेणेति निर्देशाच्च आनन्त्यमिह विवक्षितम्, "नास्त्यन्तो विस्तरस्य '(19)

इत्याद्युत्तरवशाच्चेत्यभिप्रायेण अनन्ताभिरित्युक्तम् । विपूर्वो भवतिः भावप्रत्ययान्तो नियमनवाचीत्युक्तम् । न चात्रार्थान्तरं धटते, नियन्तव्यसामानाधिकरण्याद्यभावादित्यभिप्रायेण यैर्नियमनविशेषैरित्युक्तम् ।

प्रभूतनियमनविषये कौतुकातिरेकाद्योतनाय विशेशब्दः । तृतीयाया इह करणाद्यर्थत्वायोगात् इत्थमभूत

लक्षणार्थत्वं विवक्षितमित्यभिप्रायेण युक्त इत्युक्तम् । अत्र विभूतिशब्दस्य नियन्तव्यपरत्वे अश्वत्थादीनां न लोकव्याप्तिकारणत्वम् ; न च तद्विशिष्टस्य, तैस्सह वा तदितरव्याप्तिः ; न च व्याप्तौ नियन्तव्या

नामित्थंभूतलक्षणत्वम्, नैरर्थक्यात् ; नियमनविशेषाणां तु श्रुत्यनुसारात् आकाशादिव्याप्तिव्यवच्छेदार्थत्वा

च्च तदुपपत्तिरित्यभिप्रायेणाह नियन्तृत्वेन व्याप्येति । "अन्तःप्रविष्टश्शास्ता जनानाम् ' (य.आ.3.10),

"अन्तरो यमयति....अन्तर्याम्यमृतः ' (बृ.5.7) इत्यादि हि श्रूयते । व्याप्य तिष्ठसीत्यनेन, "व्याप्य

नारायणः स्थितः ' (ना) इति श्रुतिः स्मारिता ।।

10.17-17

योगिशब्दः प्रकरणविशेषात् त्वां सदा परिचिन्तयन्नित्यादेस्सामथ्र्याच्च योगिविशेषविषय इत्याह

भक्तियोगनिष्ठस्सन्निति । सन्नित्यनेन निष्पन्नयोगिपरत्वमपि व्यावर्तितम् । अत्र योगिन्निति परेषां

पाठोऽ

नार्षः । सदेति विशेषणमसामथ्र्यात् भक्तयेति सिद्धम् । वेदनात्पूर्वं चिन्तनाशक्तेः,कथं विद्यामित्यस्य चिन्तनहेतुत्वात्, ""लक्षणहेत्वोः क्रियायाः (अष्टा.3.2.126) इति शतुरनुशा सनाच्च चिन्तयितुं प्रवृत्त

इत्युक्तम् । त्वामिति धर्मिविशेषस्य प्रतिपन्नत्वात् प्रकारविशेषेषु बुभुत्सेति ज्ञापनायोक्तम् परिपूर्णेत्यादि ।

प्रश्नो ह्रज्ञातविशेषज्ञापनार्थ इत्यभिसन्धायोक्तं पूर्वोक्तेत्यादि । भावेष्विति सप्तम्यभिप्रेतोक्तिः प्रकृतानु

कर्षणं वा नियन्तृत्वेनेति ।।

10.18-18

प्रतिकूलजनानां नरसादिगमयितृत्वात् अनुकूलजनैः स्वाभिलषितं याच्यमानत्वाद्वा जनार्दनः । विस्तर

बुभुत्साहेतुज्ञापनार्थं योगशब्दविवक्षितव्यक्तयर्थं च भूयश्शब्दफलितमाह अहं सर्वस्येति । अमृतशब्दोऽत्रा

तृप्तिसमभिव्याहारात् माहात्म्ये भोग्यत्वपरः । भोग्यतमत्वायोक्तं त्वयोच्यमानमिति । त्वन्मुखचन्द्रनिस्सृ

तमिति भावः । हि शब्दाभिप्रेतं विवृणोति ममेति ।।

10.19-19

एवमतृप्त्या पृच्छन्तमर्जुनं प्रति अतिप्रसन्नो भगवांस्तस्याभिजनादिवर्णनमुखेन योग्यतां दर्शयन्

विभूतेर्विस्तरेण प्रत्येकं वक्तुं श्रोतुं च अशक्यत्वात् केनचिदुपाधिविशेंषेण संगृहीता विभूतीर्वक्ष्यामीत्याह

हन्तेति । ते अनसूयुत्वप्रीयमाणत्वातृप्तत्वादिगुणपूर्णायेति भावः । गुणत्वादिप्रतियोगिकशेषित्वादिप्राधान्य

विवक्षायां वक्ष्यमाणसमस्तोदाहरणव्याप्त्यभावात् गुणानां च प्राधान्येन व्यपदेक्ष्यमाणत्वात् संग्राहकमर्थविशेषमाह प्राधान्यशब्देनेति । तस्यैव विवक्षितत्वं वक्ष्यमाणेन संवादयति पुरोधसामिति ।

पिण्डितार्थमाह जगतीति । विस्तरेण कथयेति पृच्छन्तं प्रति प्राधान्यतः कथयिष्यामिति कथमुच्यत इति

शङ्कायां नास्त्यन्तो विस्तरस्य मे इत्युच्यते । विभूतीनामिति शेषः । "विभूतेर्विस्तरो मया ' (40) इति हि वक्ष्यते । नास्तिशब्दाभिप्रेतमशक्यत्वं दर्शयति विस्तरेण वक्तुमिति । नेदं

वकृश्रोत्रोरसामथ्र्य

निबन्धनमित्याह तासामानन्त्यादिति । तदेतदुक्तं नास्त्यन्त इति । वक्ष्यमाणेषु पदार्थेषु विभूतिशब्दप्रयो

निमित्तमाह विभूतित्वं नामेति । नियमन्तव्यस्त्वन्तरविषयो विभूतिशब्दो विभवनकर्मपरः। अन्यत्र च "

ब्राहृा दक्षादयः कालः ' (वि.1.22 31), "विष्णु2.र्मन्वादयः कालः ' (32), "रुद्रः कालान्तकाद्याश्च '(33) इत्यादिषु "जनार्दनविभूतयः ' इति नियन्तव्येषु विभूतिशब्दो दृष्ट इति भावः । कुत इत्यत्राह

सर्वेषामिति । प्रस्तुतं तादधीन्यं ह्रेतच्छब्देन परामृश्यत इति भावः । समनन्तरश्लोकेनापि तस्य श्लोकस्य तदर्थपरत्व दर्शयेति तथेति । नन्वस्य श्लोकस्य व्याख्याने पूर्वं, (4) "सौशील्यवात्सल्यसौन्दर्यादिकल्याणगुणगणयोगम् इत्युक्तम् 3; इह तु योगशब्दनिर्दिष्टं रुाष्टृत्वादिकमु

च्यते ; तत् कथं धटते ।। इत्थम् । उभयत्रोभयमपि आदिशब्देन संगृहीतमित्येकार्थत्वात् । अत एव

हि "एतां विभूतिं योगं च ' (7) इत्यत्र "हेयप्रत्यनीककल्याणगुणगणरूपं योगं विभूतिं च ' इत्यत्र तु

"याभिर्विभूतिभिः ' इति तत्पूर्वप्रश्नवाक्यस्थविभूतिशब्दैकाथ्र्यस्वारस्यान्नियमनार्थतोक्ता । अतः प्रश्नोत्तर

परयोरीषद्वैरूप्यं सह्रम् । ।।

10.20-20

विस्तरेणात्मनो योगं विभूतिं च ' इति पृष्टमर्थद्वयं विस्तरेण वक्तुं तस्योत्तरद्वयम् अहमात्मेति शलो

केन संगृह्रोच्यत इत्यभिप्रायेणाह तत्रेति । एतेन प्रागुक्तेषु वक्ष्यमाणेषु च सामानाधिकरण्य निर्देशेषु

यथासंभवं निमित्तद्वयमुक्तं भवति । आत्मतयाऽवस्थित इति फलितान्वयप्रदर्शनम् । अनेकार्थोऽप्यात्म

शब्दः शरीरप्रतिसंबन्धिनि प्रसिद्धिप्राचुर्यात् प्रतिसंबन्धिरूपं शरीरमपेक्षते; ततश्च वृत्यनतर्गतोऽपि भूत

शब्दो बुद्धया निष्कृष्यान्वेतव्य इत्यभिप्रायेण सर्वेषां भूतानां मम शरीरभूतानामित्युक्तम् । ईश्वरस्य

जीवशरीराणि भूतानि जीवांश्च प्रति कथमात्मत्वमित्यत्रात्मलक्षणं दर्शयति आत्मा हीति । त्रयमप्येकं

लक्षणमित्येके । तत्र श्रुत्याद्यनुसारेण जन्मादित्रयस्य ब्राहृलक्षणत्व इव शङ्कितमात्रव्यवच्छेदार्थतया

त्रयाणां ,साफल्यं भाव्यम् । लक्षणत्रयमिति चान्ये । तत्र त्वेवं विवेकः 1. (?)..."यस्य चेतनस्य

यत् द्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यम् (ःश्रीभाष्ये.2.1.9) इत्यादि

शरीरलक्षणवाक्

यमपि भाव्यम् । शरीरलक्षणान्तराणि च तत्रतत्र विस्तरेण प्रतिक्षिप्तानि । चैतन्यविशिष्टं प्रति अपृथक्

सिद्धविशेषणभूतद्रव्यं शरीरमिति भाष्याभिप्रेतोऽस्माकं 2.निष्कर्षः । अत्र सर्वभूतशब्देन 3. शरीरमात्र

निर्देशशङ्काव्युदासाय आशयशब्दस्य च ह्मदयविषयत्वव्यञ्जनाय आधारत्वनियन्तृत्वादेरात्मलक्षणत्व

सिद्धयर्थे च आह तथेति । "सर्वस्य चाहम् ' (गी.15.15) इत्यस्यानन्तरं "द्वाविमौ पुरुषौ ' (16) इत्यु

पक्रम्य, "क्षरस्सर्वाणि भूतानि ' इति वचनात् सर्वभूतशब्दोऽचिद्विशिष्टक्षेत्रज्ञपर इति निश्चीयते ;

तद्वदत्रापि । तथाऽस्मिन्नेव प्रकरणे, "उत्तम पुरुषस्तवन्यः परमात्मेत्युदाह्मतः ' इत्युत्तवा " यो लोकत्रय

माविश्य बिभत्र्यव्यय ईश्वरः ।। (17) इत्युक्तम् । अत्र बिभर्तीश्वर इत्यारभ्याम् आधारत्वनियन्तृत्वे

स्पष्टे; ईश्वरशब्दरूढ¬ा च स्वामित्वसिद्धिः ; न खलु गरूडादिषु भुजङ्गादीन्नियच्छत्सु तदीश्वरशब्दः । ईश्वरशब्दस्याहंशब्दस्य चात्रकविषयत्वं श्लोद्वयोपादानेन दर्शितम् । अत्र हि सर्वभूतशब्दो जीवपर

एव; "यन्त्रारूढानि मायया ' (गी.18.61) इत्यभिधानात् । भ्रामयन्नित्यनेन नियन्तृत्वादिसिद्धिः । ह्मदेश

स्थित्या च "मयि सर्वमिदं प्रोतम् ' (7.7) इत्याद्युक्तधारकत्वादि सूचितम् । एवं चिदचिदातमक समस्त

वस्तुशरीरत्वं सर्वभूतशब्दानवयेनैव वदन्तीं श्रुतिं दर्शयति यस्सर्वेषु भूतेष्विति । चिदंशं प्रति शरीरित्वं

प्रपञ्चयत् वाक्यमुपादत्ते य आत्मनीति । आत्मत्वेनावस्थानस्योपादनत्वनिमित्तत्वोपयोगात् पूर्वार्धेन संगमयन् उत्तरार्धं व्याख्याति एवमिति । एवमात्मतयाऽवस्थितेऽहमित्यनेन निर्विकारस्य स्वस्यैवोपादान

त्वस्थापनम् । देशतः कालतो वा आदिमध्यान्तत्वमात्रमनुचितमिति तदुपचरितामाह तेषामुत्पत्तीति ।।

10.21-21

आदित्यानामहं विष्णुरित्युपक्रम्य "यच्चापि सर्वभूतानां बीजं तदहमर्जुन' (39) इत्यन्तं सामानाधिकरण्य

प्रघट्टकम् अहमात्मा (20) इति श्लोकेन सङ्गमयन्नवतारयति एवं भगवत इति । एतेन

अहमात्मेत्या

दिकाः समस्ताश्चतरुाो विभूतयः इति मतान्तरं निरस्तम् । विभूतिविशेषानिति । प्राधान्यत इति ह्रुपक्रा

न्तम् । ननु शरीरवाचिनः शरीरादिशब्दा नात्मनि पर्यवस्यन्ति ; तद्वदत्रापि इति लक्षणास्वीकार एव न्याय्यः, न शक्तिकल्पना, लाधवाच्चेत्यत्राह भगवतीति । हिशब्दो हेत्वर्थः । अपृथक्सिद्धविशेषणवाचिनः शब्दास्तत्तद्द्वारा धर्मिंण्यपि मुख्यवृत्ता इति प्रयोजकरूपेण गुणादिष्वपि सिद्धत्वान्न शक्तिकल्पनागौरवमिति भावः । तदेतदुक्तं पर्यवस्यन्तीति । शरीरवाचिशब्दानां स्वरसतस्तत्त

दात्मनि पर्यवमानमपृथक्सिद्धयुपाधिकं दर्शयति यथेति । शरीरादिशब्दास्तु गुण इत्यादिशब्दवत् निष्कर्ष

कशब्दत्वान्न धर्मिणि पर्यवस्यन्ति । एतदभिप्रायेणोक्तं देवो मनुष्यः पक्षी वृक्ष इत्यादयः शब्दा इति ।

अध्यासादिहेतुकसामानाधिकरण्यशङ्कामपनयति भगवतस्तत्तदात्मतयेति । न ह्रुपक्रमोपसंहारविरुद्धोऽ

र्थो मध्ये स्वीकार्यः ; न च ब्राहृणः सर्वहेयमयत्वं भ्रमद्वा तत्तवतो वाऽङ्कीकर्तुं युक्तमिति भावः । अविनाभाववचनादिति । आत्मना विना हि शरीरभूतं न भवतीति भावः । अग्निना विना धूमो नास्ति,

गुणिना विना गुणा नास्ति इत्युक्ते अग्नयादिरेव परमार्थः, धूमादिस्तु मिथ्याभूत इति वा, अग्न्याद्यात्मक

इति वा प्रत्ययो हि न भवति ; तद्वदत्रापीति । ननु "यज्ञदत्तं विनाऽन्ये गृहे न सन्ति ', "रज्जुं विना

सर्पादिकं नास्ति ' इत्युक्ते यथैकस्यैव सत्त्वं तदतिरिक्तानां चासत्त्वं प्रतीयते, तद्वदत्रापि किं न स्यादित्

यत्राह अविनाभावश्चेति । असंजाविरोधि काल समुदितोपक्रमविरुद्धतया उपसंहारस्यनोदय इत्युपक्रमा

धिकरण (पू.मी.3.3.1) सिद्धमिति भावः । नियाम्यतयेत्यनेन धूमाग्निव्याप्तिवैषम्यमपि दर्शितम् । एव

मेतावता ग्रन्थेन, "अहमात्मा गुडाकेश सर्वभूताशयस्थितः ' (20) इति सर्वशरीरवर्तिनां जीवानां ब्राहृस्व

रूपैक्यमुच्यत इति कुदृष्टिमतमुन्मूलितम् ।

आदित्यानाम् आदित्यपत्यानाम् । ""अजघन्यो जघन्यजः (...) इत्यादिवचनानुसारेण द्वादशो



उत्कृष्ट इत्युक्तम् । अत्र च उत्तरेषु च निर्धारणार्थविशेषप्रदर्शनार्थ उत्कृष्टशब्दः । स च "पुरोधसां

मुख्यम् ' (24) इति वक्ष्यमाणमुख्यपर्यायतया अपेक्षितप्रदेशे सर्वत्र निहितः । अत्र चोद्ध्रियमाणानां पदार्थानां केषांचित्प्राधान्यं प्रत्यक्षम् ; केषांचिदागमिकम् । क्वचिदव्यहितं क्वचिज्जीवव्यवहितं च सामानाधिकरण्यम् । ज्योतिश्शब्देन तारकामात्रग्रहणे ततो बहिर्भूतस्य तत्संबन्धरहितस्य च रवेर्निर्धारणाद्ययोगात् प्रकाशकानामिति सामान्येनोक्तम् । जगत्कारणभूतपरज्योतिरपेक्षयारवेः खद्योतक

कल्पत्वात् तद्वयवच्छेदाय जगतीति विशेषितम् । अंशुमानिति निर्धारणौपयिकातिशयितप्रकाशयोगो मतुपा विवक्षितः, अन्यथा पौनरुक्त्यात् । रविशब्दस्य द्वाद्वादशादित्यसाधारणत्वादेकवचनं समुदायाभि

प्रायमिति प्रदर्शनायोक्तम् 1.आदित्यगण इति । मरुतो वाक्यः एकोनपञ्चाशत् दितिपुत्राः, येषां सप्तकाः सप्त गणा भवन्ति । शशिनोऽपि यदि नक्षत्रत्वं स्यात्, तदा हि तस्मात् वर्गात् तस्य निर्धारण

मित्यभिप्रायेणाह नेयमिति । कस्तह्र्रत्रार्थ इत्यत्राह नक्षत्राणां 2. पतिरिति । "प्रधान्यतः ' इति ह्रुपक्रा

न्तमिति भावः । ननु पूर्वापरेषु सर्वेषु निर्धारणार्थेषु मध्ये कस्यचित् संबन्धमात्रपरत्वमयुक्तम् ; नक्षत्रशब्

देन निशि प्रकाशमात्रं 3. छत्रिन्यायाद्ग्राह्रम् ; "सुकृतां वा एतानि ज्योतींषि यन्नक्षत्राणि ' (यजु.5.4.1.3) इति श्रुतेः । चन्द्रमण्डलस्यापि वा स्वर्गिणां भोगस्थानत्वान्नक्षत्रत्वम्, "यो वा इह यजते

अमुं स लोकं न क्षते । तन्नक्षत्राणां नक्षत्रत्वम् । देवगृहा वै नक्षत्राणि ट (अष्ट.1.5.2.10) इति--तत्राह

भूतानामस्मि चेतनेतिवदिति । मुख्ये संभवति लक्षणा न न्याय्या । न चात्र सर्वत्र निर्धारणार्थता ;

"भूतानामस्मि चेतना ' (22),"सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ' (32), "वादः प्रवदतामहम् '(33), "अहमैवाक्षयः कालः ' (33), "उद्भवश्च भविष्यताम् ' (34), "द्यूतं छलयतामस्मि तेजस्तेतस्वि

नामहम् । जयोऽस्मि व्यवसायोऽस्मि' (36) इत्यादिषु निर्धारणाभावात् । अतोऽत्र चन्द्रस्य नक्षत्रजतीय

त्वाभावात् षष्ठयभिहितस्य संबन्धसामान्यस्य प्रमाणसिद्धविशेषे पर्यवसानमिति भावः ।।

10.22-22

गीतिर्हि सामशब्दार्थः; तस्य वेदेषु निर्धारणं कथमिति शङ्काव्युदासाय सामवेदोऽस्मीति निर्देश

इति प्रदर्शयति ऋगयजुरिति । सामवेदस्योत्कर्षो गीतप्रधानत्वसहरुाशाखत्वादिभिः ; अन्येषां तु

तदभावात् तावन्मात्रेणापकर्षः ; न तु प्रामाण्यतारतम्यात् । ""ऋक् वा इदमग्रे साम चास्ताम् ।

सैव

नाम ऋगासीत् अमो नाम साम । सा वा ऋक्सामोपावदन्मिथुनं संभवाव प्रजात्या इति । नेत्यब्रावीत्

साम ज्यायान्वा अतो मम महिमा (ऐ-ब्राा) इति गीतिरूपस्य साम्नः प्राधान्यात् गीत्यात्मकस्य सामवेद

स्य प्राधान्यम् ; ""ऋग्भ्यो जातं वैश्यं वर्णमाहुः यजुर्वेदं क्षत्रियस्याऽऽहुर्योनिम् । सामवेदो ब्रााहृणानां

प्रसूतिः (काठ.3.9.59) इति च । देवा इति स्वर्गवासिनो विवक्षिताः ; ब्राहृादिसंग्रहायोगात् । वासव

शब्दस्येन्द्रशब्देन व्याख्यानमतिशयद्योतनार्थम् ; ""इदि परमैश्वर्ये इति । ""इन्द्रियेभ्यः परा ह्रर्था

अर्थेभ्यश्च परं मनः (क.3.10), ""एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च (मु.2.1.3) इत्यादिषु

मनस इन्द्रियेभ्यः पृथगभिधानात् कथम् "इन्द्रियाणां मनश्चास्मि' इति निर्धारणमित्यत्राह एकादशानामिन्द्रियाणां यदुत्कृष्टं मनइन्द्रियमिति । अयमभिप्रायः--""इन्द्रियाणि दशैकं च (गी.13.5), "एकादशं मनश्चात्र (वि.1.2.47) इत्यादिषु मनसोऽपीन्द्रियत्वेन व्यपदेशात् क्वात्कः

पृथग्व्यपदेशो गोबलीवर्दनयादिति निर्धारणोपपत्तिरिति । न हि भूतेषु चेतनासंज्ञकं किञ्चिद्भूतमस्तीत्य

भिप्रायेणाह इयमपीति । षष्ठीति शेषः । "तेजस्तेजस्विनाम्...सत्त्वं सत्त्ववताम् ' (36) इत्यादिवत्

विशिष्टे सारभूतविशेषणांशो विवक्षित इत्यभिप्रायेण चेतनावतामित्युक्तम् । ननु भूतानां षष्ठत्वेन चेतनासंज्ञं किमप्यन्यत्रोच्यते ; यथा "महाभूतानि खं वायुरग्निरापस्तथा मही । षष्ठस्तु चेतनाधातुरात्मा

सप्तम उच्यते। अष्टमं चु मनो ज्ञेयम् ' (मो ध. 337-46) इति ; तथा "षष्ठस्तु चेतनाधातुर्मन इत्युपदिश्यते ' (भा.आ.214.19) इति च । 1.अत्र च मनसोऽधिष्ठानतया चेतनायास्तदपृथग्वचनमित्य

विरोधः । अतो "भूतामामस्मि चेतना ' इति निर्धारणोर्थत्वं युज्यत इति ।। मैवम् । न हि

भूतषष्ठनिर्देशमात्रान्महाभूतत्वम् ; अन्यथाऽपि संख्यानिवेशसंभवात् । अत्र च सप्तमतया अष्टमतया च

निर्दिष्टयोर्महाभूतत्वानभ्युपगमात्, चेतनाशब्दस्य च अप्रसिद्धार्थत्वात् प्रसिद्धार्थस्वीकारस्योचितत्वात् ।

अत संबन्धमात्रविवक्षयैव अत्र षष्ठी युक्तेति ।।

10.23-23

रुद्राणामिति रुद्रष्वेकस्य शङ्करसंज्ञयवोत्कर्षद्योतना । यक्षरासजात्योरविदूर 2. विप्रकर्षात्

यक्षरक्षसामित्युक्तम् ; न तु वित्तेशस्य राक्षसत्वगन्धः । यद्वा "नक्षत्राणामह शशी ' इतिवत् जातिद्वयपतित्वमात्रमिह विवक्षितम् । वित्तेशसंज्ञया च धनदस्यासाधारणैश्वर्योत्कर्षद्योतनम् । ""स्थावराणां हिमालयः इति पर्वतमात्राणां परस्ताद्वक्ष्यमाणत्वात् मेरुश्शिखरिणामित्यत्र शिखरशब्देन

पर्वतविशेषो विवक्षितः ; शक्तश्चायं शब्दो विशेषं दर्शयितुमित्यभिप्रायेणोक्तं शिखरशोभिनां पर्वतानामिति

। प्रशंसापरः प्रत्यय इति भावः । प्रशस्तरत्नकाञ्चनादिमयशिखरविशेषयोगान्मेरोरतिशयः ।।

10.24-24

बृहस्पतिसंज्ञया बृहतां पतिरित्यतिशयसिद्धिः ; गिरां पतिह्र्रसौ । सेनानीशब्देनात्र कर्मवश्यसेनापतिसंग्रहः । स्कन्दस्य देवसेनानीत्वलक्षणोऽतिशयः । सरश्शब्देन प्रवाहव्यतिरिक्स्थास्नु

सलिलाशयमात्रस्य विवक्षितत्वात् सागरसंग्रहः ; रुाोतसां पृथग्वक्ष्यमाणत्वात् ।।

10.25-25

देवर्षीणां (23), मुनीनाम् (37) इत्यादेर्वक्ष्यमाणत्वात् अत्र महच्छब्देन विशेषणाच्च महर्षीणामिति

ऋषिगणविशेषो विवक्षित इत्यभिप्रायेण मरीच्यादीनामित्युक्तम् । गिरामिति न शब्दमात्रं विवक्षितम् ;

समुद्रघोषादिषु तत्प्रयोगाभावात् । अत एव नाक्षरमात्रम्, "अक्षराणामकारोऽस्मि ' इति पृथग्वक्ष्यमाणत्वा

च्च । तत एव एकमक्षरमित्यप्यकारव्यतिरिक्तविषयम् । "ओमित्येकाक्षरं ब्राहृ ' (गी.8.13) इत्यादिषु

प्रणवेऽप्येकाशब्दविशेषितोऽक्षरशब्दः प्रयुक्तः- इत्यभिप्रायेणाह अर्थाभिधायिन इति । अर्थाभिधायिषु प्रणवस्योत्कर्षः सर्वोत्कृष्टार्थाभिधायित्वादिना । शङकुना पर्णानामिव सर्वासां वाचां प्रणवेन संतृण्णत्व

श्रुतेश्च । यज्ञेषु जपयज्ञस्य प्राशस्त्यमन्यत्र सिद्धम् "विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ' (मनु 2.85) इति । किंच ""कुर्यात् घृतपशुं संख्येझ्र्सङ्गेट (?)कुर्यात्पिष्टपशुं तथा । न त्वेव तु वृथा हन्तुं

पशुमिच्छेत् कथंचन ।। (मनु.5.37) इति, ""पशुयज्ञैः कथं हिंरुौः मादृशो यष्टुमर्हति (भा.मो.175.34), ""हिंसात्मकैस्तु किं तस्य यज्ञैः कार्यं महात्मनः । प्रस्वापे च प्रबोधे च पूजितो येन

केशवः 2. ।। इत्यादिवचनबलादहिंसात्मकयज्ञानर्हाणां हिंसात्मकयज्ञानुज्ञानम् । तत्रापि विधितः प्रवृ

त्तेः अपकारानभिसनधानात् उपकारश्रुतेर्देवताप्रीणिनत्वाच्च न प्रत्यवायः । फलार्थिनां तु

तत्फलमल्पस्थि

रम्, दुःखमिश्रं च । अहिंसात्मकास्तु यज्ञाः विशिष्टाधिकारिसापेक्षा भगवतोऽतिप्रीणनत्वादपवर्गप्रत्यास

न्नाः । अत एव ह्रुपरिचरादयः पिष्टपशुभिरिष्टवन्तः । एवमितरेषु यज्ञेषु हिंसादिप्रसङ्गोऽधिकारिविशेष

  1. ादिना विषयव्यवस्थापनमित्यादिर्महान् क्लेशः ; जपयज्ञे तु तत्प्रसङ्गाभावात् अव्यापेक्षेपेणार्थप्रतीत्या


सबीजयोगद्वारा सहसा समाधौ निवेशनाच्च यज्ञान्तरेभ्यो जपयज्ञः प्रसस्ततमः सर्वाश्रमसाधारण्यात्,

""जप्येनापि तु संसिध्येत् ब्रााहृणो नात्र संशयः । कुर्यादन्यत्र वा कुर्यान्मैत्रो ब्रााहृण उच्यते (मनु.2.17) इति । विधुरादेरपि सिद्धिहेतुत्वाच्च । पर्वतविशेषाणां पूर्वमुक्तत्वात् वृक्षाणां वक्ष्यमाणत्वाच्च

तदुभयव्यवच्छेदार्थम्, हिमवतश्शैलराजत्वप्रसिद्धयनुरोधार्थं चोक्तं पर्वतमात्राणामिति ।।

10.26-26

ननु सर्ववृक्षाणामित्येतदनुपपन्नम्, पारिजाताद्यपेक्षया अश्वत्थस्य निकृष्टत्वादित्यत्रोक्तं पूज्य

इति ।

पारिजातादीनामप्यश्वत्थवत् पूज्यत्वं नास्तीति भावः 1. । देवा मन्त्रदर्शिनो देवर्षयः, देवर्षिषु नारदस्य

बहुप्रकारोऽतिशयो बहुषु प्रदेशेषु महाभारत एव प्रपञ्चितः । चित्ररथः गन्धर्वराजः । सिद्धानामित्यादि

। पूर्वसंचितसुकृतविशेषवशात् जन्मप्रभृतिसिद्धाणिमाद्यैश्वर्याः सिद्धाः । "आदिविद्वान् सिद्ध ' इति कपिलं (श्वे.5.2) इति च श्रुतिः । ""ददृशुः कपिलं तत्र वासुदेवं सनातनम् (रा.बा.40.24) इति

चाहुः । अयमपि परशुरामादिवत् ।।

10.27-27

अमृतोद्भवमिति जन्मतः प्रकर्षसूचनम् । अमृतमत्र जलम्, मथ्य

मानावस्था सुधैव वा । गजेन्द्रशब्देन दिग्गजा विवक्षिता । तेषु प्रधानतया दिक्पालेश्वरस्य शचीपतेरौपवाह्रः ऐरावतः । अमृतोद्भवत्वं च काकाक्षिन्यायादैरावतेऽप्यन्वेतव्यम् । रथन्तरसामोद्भवत्

वं वा द्रष्टव्यम् । नराधिप शब्देनैव निर्वाहकत्वलक्षणोऽतिशय सिद्धः ।

10.28-28

आयुधानामित्यर्वाचीनायुधपरम्।

सुदर्शनाद्यपेक्षया दधीचेरस्थिसंभवस्य वज्रस्यापि निकृष्टत्वात् । धेनूनां दोग्ध्रीणाम् । दिव्या सुरभिरिति

। यौगिकः कामधुक्शब्दोऽत्र व्यक्तिविशेषनिष्ठ इति भावः । प्रजनशब्देन जननहेतुत्वं कन्दर्पस्यासाधार

णोऽतिशय उक्तः । स मदायत्त इत्यर्थः । अप्रजार्थकन्दर्पव्यवच्छेदार्थो वा प्रजनशब्दः ।

10.29-29

पर्यायोस्सर्प

नाग शब्दयोः कथं पृथग्व्यपदेश इत्यत्राह सर्पा एकशिरसः नागा बहुशिरस इति । यादश्शब्देन वरुण

स्यापि संग्रहार्थमाह यादांसि जलवासिन इति । यद्वा जलजन्तुमात्रं विवक्षितम् ; तेषां पतित्वेन संबन्धो

वरुणस्य तत्साजात्याभावाद्ग्राह्रः । अर्थमा पितृराजः । संयमतां 2.संयच्छतामित्यर्थः ; तदाह दण्डय

तामिति ।।

10.30-30

उपमानमशेषाणां साधूनां यःसदाऽभवत् (वि.1.15.156) इत्यादिना प्रह्लादोत्कर्षः । "अहमेवाक्षयः कालः ' (33) इति नित्यस्य कालतत्त्वस्य परस्ताद्वक्ष्यमाणत्वात्, यमस्य च पूर्वमुक्तत्वात्

तद्व्यतिरिक्तः पुरुषविशेष इह कालशब्देन विवक्षितः ; अचेतनस्य च कालस्य गणयितृत्वं न युज्यते;

कलयतामित्यस्य विज्ञातृमात्रपरत्वे तेषु कालस्य निर्धारणमयुक्तम् ; अतस्तदुचितमर्थविशेषं दर्शयति

अनर्थेति । न हि मरणातिरिक्तोऽनर्थ इति भावः । मृगेन्द्रशब्देनैव सिंहस्यातिशयस्सिद्धः । पक्षिषु वैनते

यस्य वेगातिशयात् वेदमयत्वादिना चोत्कर्षः ।।

10.31-31

पवतामित्यनेन पवनासाधारणक्रिया विवक्षिता चेत्, निर्धारणं नोपपद्येतेति तदुपपत्तये गमनस्वभावानामित्युक्तम् । अजरुागमनशीलानामित्यर्थः । पवनप्रेरिता एव हि तारकादयोऽप्यजरुां परि

भ्रमन्ति । सोमपवनादिष्ववात्र (?) 3. शोधनान्वयिगमनमिहाविवक्षितम् । रामश्शस्त्रभृतामहमिति1.पर

शुरामस्यापि जेता रावणहन्ता रामो विवक्षित इति तदुचितम् अमोघशस्त्रत्वलक्षणमतिशयमाह

शस्त्रभृत्त्व

मत्र विभूतिरिति । पूर्वोत्तरेष्विव राम एव विभूतिः किं न स्यादित्यत्राह अर्थान्तराभावादिति । अचिद्वि

शेषस्य चेतनान्तरस्य वा शस्त्रभृच्छब्द (भृद्रामशब्द?) वाच्यस्यात्रासंभवादित्यर्थः । अर्थान्तराणां मध्ये

स्वासाधारणधर्मविशेषनिर्देशे रीतिभङ्गः स्यादित्यत्राह आदित्यादयश्चेति । शस्त्रभृत्त्वस्यान्येषां च

भगवन्तं धर्मिणं प्रति धर्मत्वमविशिष्टमित्येकैव रीतिः; निर्धारणानिर्धारणभेदवत् मुखभेदमात्रं न दोष इति

भावः । तत्र "आदित्यशब्देन ' ज्योतिषां रविरंशुमान् (21) इत्युक्तो रविर्विवक्षितः । "आदित्यानामहं

विष्णुः इत्युक्तस्त्वादित्यो रामतुल्यः । मकरो मत्स्यराजः । रुाोतस्तु जाह्नव्याः विष्णुपदोद्भवत्वसर्वज्ञ

शिरोधृतत्वत्रैलोक्यप्रवृत्तवादिभिरतिशयः ।।

10.32-32

सर्गशब्देन सृष्टिमात्रविवक्षायाम् आदिरन्तश्चेत्यादिनाऽन्वयायोगात् कर्मार्थोऽत्र सर्गशब्द इत्याह

सृज्यन्त इति सर्गा इति । आदिमध्यान्तशब्दानामत्रावयवविशेषाद्यर्थता न युक्ता, अनतिशयितार्थत्वात् । नापि कालविशेषार्थता, कालस्य वक्ष्यमाणत्वेनात्र पृथग्व्यपदेशप्रयोजनाभावात् । न चोत्पत्त्यादिक्रिया

मात्रार्थता, "उद्भवश्च भविष्यताम् ' (35) इति वक्ष्यमाणेन पौनरुक्त्यप्रसङ्गात् । न चेश्वरस्यैव कारणत्वादिकमिहोच्यते, "अहमादिश्च मध्यं च ' (20) इत्युक्रमेण कृतकरत्वात् । न चेदं सामान्यतस्त

न्निगमनम्, उपर्युपरि वचनात् । । तस्मात् लोकसिद्धोत्पत्त्यादिहेतुपरत्वमेवोचितं लक्षणया । तत्राप्युपादानकारणस्य "बीजं मां सर्वभूतानाम् ' (7-10) इत्युक्तत्वाच्च निमित्तकारणमात्रमिह विवक्षितम्

। सर्गाणामित्यविशेषवचनेन सर्वदेशकालवर्तिसृज्यप्रतियोगिकसर्वनिमित्तकारणवर्गस्य स्वाधीनत्वभिप्रेतम्। तदेदखिलभिसंहितं सर्वदेत्यादिवाक्यत्रयेण । अध्यात्मविद्या जीवपरमात्मयाथात्म्य

विद्या । सा विषयतः फलतश्च विद्यान्तरेभ्य उत्कृष्टा । प्रवदतामिति नान्योन्यविवादमात्रं विवक्षितम् ;

तत्र वादाख्यविशेषस्यास्मरणात् । अध्यात्मविद्या विद्यानामिति विद्या प्रसङ्गात् तदर्थकथाविषयत्वोपपत्तेः । न च "सत्त्वं सत्त्ववताम ' इतिवत् वादाख्यकथाविशेषवत्त्मभिप्रेतम् ; अन्या

पेक्षयाऽतिशयसूचनसंभवे तत्परित्यागायोगात् । अतः प्रवदतामिति कथात्रयसाधारणरूपमिह

विवक्षितम्;

तदाह जल्पवितण्डादि कुर्वतामिति । तत्वनिर्णयाय प्रवृत्त इत्यनेन स्वल्पफलविजिगीषुकथातोऽतिशयि

तापवर्गपर्यवसिफलत्वेन वादयोत्कर्षप्रदर्शनम् ।।

10.33-33

बद्दूवृचोपनिषदि (एतरे.2.3.4) श्रूयते, अ इति ब्राहृेति । तथा "अकारो वै सर्वा वाक्; सैषा स्पर्शो

ष्मभिव्र्यज्यमाना बह्वी नानारूपा भवति ' इति श्रुत्यैव प्रपञ्चितं प्रकृतित्वमाह सर्ववर्णानां प्रकृतिरिति ।

निर्धारणौयिकबहुत्वसिद्धयर्थे प्रत्ययार्थं दर्शयति सामासिकस्समाससमूह इति । "1. पूर्वोत्तरान्यपदार्थ

प्रधानेभ्योऽव्ययीभावतत्पुरुषबहुव्रीहिभ्यो द्वन्द्वस्योत्कर्षमाह स ह्रुभयेति । आक्षयशब्देन "कला मुहूर्ताः

काष्ठाश्च ' (ना), "कलामुहूर्तादिमयश्च कालः ' (वि.4.1.84) इति श्रुतिस्मृत्यादिसिद्धबहुविधविकाररुप

लोकक्षयहेतुभूतानन्तावच्छेदे सत्यपि स्वरूपतोऽननाद्यन्तत्वं विवक्षितमित्यभिप्रायेणाह कलेति । अनादिर्

भगवान् कोलो नान्तोऽस्य द्विज विद्यते ' (वि.1.2.26), "कालोऽस्मि लोकक्षयकृत् प्रवृत्तोनान्तो न चादि

र्न मेऽस्ति मध्यम् '...इत्यादिभिरिदं कालाधिष्ठातृत्वं व्यक्तम् । धातृशब्दरूढ¬ा विश्वतोमुखत्वविशेषणेन

च हिरण्यगर्भ एवात्रोच्यत इत्यभिप्रायेणाह सर्वस्येति । धातृशब्देनैवाण्डान्तवर्तिसमस्तविधातृत्वलक्षण

उत्कर्षः सिद्ध इति प्रदर्शनाय सर्वस्य सष्टेत्युक्तम् । एतेन कर्मफलविवातृत्वेन व्याख्यान्तरं निरस्तम् ।

विश्वतः इति दिक्चतुष्टयमात्रमिह विवक्षितमिति ज्ञापनायोक्तं चतुर्मुख इति । वेदचतुष्टयप्रवर्तनादिकं

चानेन सूचितम् ।।

10.34-34

कर्माणुरूपदण्ड--कालावच्छेदाधिकृतयोर्यमकालाख्यपुरुषयोरुक्तत्वात् यमादेशकारिप्राणाधिकृतपुरुष

विशेष इह मृत्युस्सर्वहरः इत्युच्यत इति ज्ञापनाय सर्वप्राणहर इत्युक्तम् । प्रलये सर्वसंहर्तेश्वर इह मृत्युरिति कैश्चिदुक्तं मन्दम्, "भूतानामन्त एव च ' इत्युक्तत्वात् । उद्भवसहपाठादत्र मृत्युशब्दो मरण

पर इति केचित् । उद्भवशब्दः स्वरसत उत्पत्तिक्रियापरः ; उद्भवस्थानादिकं चात्र पृथगेव निर्दिष्ट

मिति क्रियापरत्वमेवोचितमित्यभिप्रायेण उद्भवाख्यं कर्मेत्युक्तम् । कीत्र्यादयो नेह गुणविशेषा विवक्षिताः

तेषां पुरुषेष्वपि च उद्भूतत्वेन नीरीणामिति विशेषझ्र्णटयोगात् । न च नारी शब्दोऽत्र रुत्रीलिङ्ग


पदार्थमात्रपरः, मुख्यबाधाभावात् । अतो नारीविशेषनिर्धारणमेव क्रियते । तत्र च श्रिय एव इत्यभिप्रायेण श्रीरहं कीर्तिश्चाहमित्युक्तम् । एताश्च भगवदसाधारणशक्तयः । अन्यत्र तु तत्तदभिमान

विशेषात् तत्तच्छब्दः ।।

10.35-35

सामसु बृहत्साम्न उत्कृष्टत्वं श्रुत्यैव सिद्धम्, "बृहच्च वा इदमग्रे रथन्तरं च आस्तां वाक्च वै तन्मनश्चास्तां वाग्वै रथन्तरं मनो बृहत् । तद्बृहत्पूर्वं ससृजानं रथन्तरमत्यमन्यत तद्रथन्तरं गर्भमधत्त'

(ऐ.ब्राा.4.19.6) इति । गायत्र्याश्छन्दसां मातृत्वेनोत्कर्षः श्रुतिषु छन्दोविचित्यां च प्रपञ्चितः । यथा

बहुवृचोपनिषद्, ""अग्रं वै छन्दसां गायत्री इति । मासेषु मार्गशीर्षस्यातिशयः वर्षगर्भाधानकालत्वात्

मासाधिदेवेषु केशवादिषु प्रथमस्य केशवस्य मासत्वात् व्रत (ऋतु)वर्गारम्भकालत्वाच्च । कुसुमाकर

शब्देनैव वसन्तस्य प्रत्यक्षसिद्धः सर्वप्राणिसुखहेतुरतिशयो द्योतितः । ""वसन्ते वंसन्ते ज्योतिषा यजेत

(आ.श्रौ.), "वसन्ते दीक्षयेत् विप्रं ग्रीष्मे राजन्यमेव च (...) इत्यादिभिश्च ।।

10.36-36

छलयतामित्यत्र "तत् करोति' (अष्टा.वा.3.1.25) इति णिजित्यभिप्रायेण छलं कुर्वतामित्युक्तम् ।

अक्षसंचारादिमात्रेण जयपराजयारोपादिह च्छलत्वाचोयुक्तिरित्यभिप्रायेण अक्षादिलक्षणमित्युक्तम् । "तेज

स्तेजस्विनाम्' इत्यादिवत् "दीव्यतां द्यूतमहम् ' इत्यनभिधानात् छलयतामिति छलकरणमात्रवचनाच्च

छलस्थानान्तरेभ्यः क्रयविक्रयऋणदायमसंवित्संगरादिभ्यो द्यूतस्यातिशयितत्वं विवक्षितमित्यभिप्रायेण

छलास्पदेष्वित्युक्तम् । वञ्चनास्पदेष्वित्यर्थः । अक्षादि इत्यादिशब्देन सजीवनिर्जीवसमस्तद्यूतवर्गसंग्रहः

। यद्वा निर्जीवमात्रग्रहणाय अक्षादिलक्षणमित्युक्तम् । तस्य चातिशयितत्वमनायासेन धर्माविरोधेन,

अभ्युपगमादेव समस्तधनहरणादेशशक्यत्वात् । तेजस्विसत्त्ववच्छब्दयोः

पूर्वोत्तरयोस्तेजस्सत्त्वाभ्यामवरुद्धत्वात् तत्र जयव्यवसायझ्र्शब्दटयोरन्वयानौचित्यात् तदुचितौ जेतृव्यवसायिशब्दौ पूर्वापरच्छाययाऽर्थाक्षिप्तावित्यभिप्रायेण जेतॄणां व्यवसायिनामिति चोक्तम् । "द्रव्यासु

व्यवसायेषु सत्त्वस्यात्र भेद उक्तः ।।

10.37-37

वृष्णीनां वासुदेवोऽस्मीत्यत्रापि रामवत् साक्षात्स्वावतारत्वादाह वसुदेवसूनुत्वमत्र विभूतिरिति ।

अर्थान्तराभावदेवेत्येवकारेण रामप्रसङ्गे हेतोः प्रागेवोक्तत्वं सूचितम् । ननु वसुदेवसूनुत्वमिति केयं

विभूतिः । न हि सूनुत्वमात्रेणातिशयः, अतिप्रसङ्गात् । न च वसुदेवाख्यपितृविशेषुसूनुत्वेन; तस्याप्यने

कसाधारणत्वेन निर्धारणायोगात् । न च वासुदेवशब्दप्रसिद्धिमात्रेण, तावन्मात्रस्य अतिशयं प्रत्येप्रयोजक

त्वात् ; न चेह वसुदेवसूनुत्वमुपदेश्यम्, अर्जुनस्य संप्रतिपन्नत्वादेव । अतस्साक्षादवतारत्वं नोचितम् ।

अत एव वृष्णीनामहमस्मीति नोक्तमिति ।। अत्रोच्यते । वसुदेवशब्दोऽत्र लक्षणया वसुदेवगृहे चतुर्भुजतयाऽवतारप्रभृति

अतिमानुषगुणविग्रहपराक्रमादिरूप मागोपालं प्रसिद्धमतिशयं लक्षयति ।

तच्च चार्जुनं प्रत्यभिधानं दृष्टान्तार्थम् । सर्वनाम्नः अस्मच्छब्दादपि साक्षान्नाम्नोऽस्त्यन्तासन्नत्वादिभिरति

शयोऽत्र विवक्षितः ।। धर्मे युधिष्ठिरस्य सर्वातिशायित्वात्, बले च भीमसेनस्य, आभिरूप्यादिषु च

माद्रीसुतयोः (?) 2. अर्जुन इति शङ्काव्युदासः । न ह्रत्र पारोक्ष्यप्रसङ्गः, अपरोक्षयस्यैव सर्वस्यात्र

सर्वदर्शिना वचनादिति । ऋषित्वं ह्रुदृष्टविशेषादतीन्द्रियार्थदर्शितम् ; तच्च प्रायशः प्रागेवोक्तम् । अतो

मुनीनामित्यनेन तदतिरिक्तः झ्र्अर्थः ?ट निर्वचनबलात् "एतमेव विदित्वा मुनिर्भवति ' (बृय6.4.22) इति श्रुत्यनुसाराच्च विवक्षित इत्यभिप्रायेणाह मुनयो मननेनात्मयाथात्म्यदर्शिन इति। तथाविधश्च

भगवतो व्यासस्यातिशयः तद्वाक्यैरेव सिद्धः, "अ.लोड¬ सर्वशारुााणि विचार्य च पुनः पुनः । इदमेकं

सुन्निष्पन्नं ध्येयो नारायणस्सदा ।। (गा.पू.222.1; भा.अनु.106) इत्यादिभिः ; ""तपोविशिष्टादपि

वै वसिष्ठान्मुनीसत्तमात् । मन्ये श्रेष्ठतमं त्वाऽद्य रहस्यज्ञानवेदनात् ।। (भा.आ.1.96) इति च



अयमपि कश्चित् विभवावतारो गण्यते, ""वेदविद्भगवान् कल्की पातालशयनः प्रभुः

(अहि.5,56)

इति । कवीनामिति न निबन्धृत्वं विवक्षितम् ; तथा सति वाल्मीकिप्रभृतेस्सर्वातिशायित्वात् । अतः

क्रान्तदर्शी कविरिति विवक्षित इत्यभिप्रायेणाह कवयो विपश्चित इति । उशनसो विपश्चित्सु वैलक्षण्यं

नीतिनिपुणत्वादिभिः । प्रसिद्धं ह्रेतत्, ""न कश्चिन्नोपनयते 3. पुमान् अन्यत्र भार्गावात् । शेषसंप्रति

पत्तिस्तु बुद्धिमत्स्वतिष्ठते ।। (भा.आ.) इत्यादिषु ।।

10.38-38

नियमातिक्रमण इति दण्डयोग्यत्वकथनम् ; अदण्डस्यादिशयेन नरकहेतुत्वात् । नीतिरस्मि नीति

मतामिति वक्तव्यम, जिगीषतामित्यनेन तु कीदृशोऽन्यव इत्यत्राह विजगीषूणां जयोपायभूता नीतरिति । बुद्धिव्यपारविशेषो विवक्षितः । लोकविदितस्य वाङ्नियमनरूपस्य मौनस्य 4. गुह्रत्वाभावान्न निर्धारण

मुचितम्; मौनशब्दस्यात्मविद्यादिविषयत्वे तु प्रसिद्धित्यागः स्यात् ; न च गुह्रधर्मत्वं मौनस्य, येन "सत्त्

वं सत्त्ववताम् ' इतिवत् स्यादित्यत्राह गुह्रानां संबन्धिषु गोपनेषु मौनमस्मीति । गुह्रानां गोपनीयत्वं

मौनस्य चाषट्कर्णमन्त्रणादपि गोपनोपायत्वं संप्रतिपन्नम् । ततश्चात्र संबन्धमात्रे षष्ठी गोप्यगोपकभाव

रूपविशेषे विश्रान्ता । "भूतानामस्मि चेतना ' इति (22) चैतन्यमात्रस्य पूर्वमुक्तत्वात्, अत्र ज्ञानं

ज्ञानवतामिति पुरुषार्थौपयिकातिशयतज्ञानविशेषोऽभिमतः, ""तत् ज्ञानम्, अज्ञानमतोऽन्यदुक्तम्

(वि.6.5.87).इतिवत् ।।

10.39-39

सर्वभूतानां बीजमिति न प्रधानमात्रमुच्यते ; तस्य साक्षात्सर्वभूतबीजत्वाभावात् । नापि व्रीह्रादिलक्षणं

बीजम्; तस्य सर्वभूतशब्दसंगृहीतेषु जङ्मेष्वनन्वयात् । ततश्चाविशेषेण तत्तत्कार्यावस्थद्रव्यापेक्षया तत्त्कारणावस्थोपादानद्रव्यमात्रमिह विवक्षितमित्यभिप्रायेणाह सर्वावस्थेति । एतेन प्राकृतनैमित्तिकसृष्ट

यादेः "अहमादिश्च ' (20) इत्यादिनोक्तत्वात् इह नित्यसृष्टिहेतुभूततत्तद्रव्यशरीरकत्वेन तद्धेतुत्वमपि

प्रदर्शितम् । यच्चापीत्यनेनाभिप्रेतमाह प्रतीयमानमप्रतीयमानं चेति । अप्रतीयमानम् ।

अनुमानादिवेद्य

मित्यर्थः । न तदस्तीत्यादौ 2.स्वव्यतिरेकोक्तिफलितमन्वयविशेषं दर्शयति सर्वमिति ।

उपक्रमोपसंहार

योरविनाभावकथनस्य भगवदभिप्रेतं प्रयोजनमाह अनेनेति । क्वचित्क्वचिद् द्रव्यव्यतिरिक्तैस्सामानाधिकरण्यमपि तदाश्रयद्रव्यस्य भगवच्छरीरत्वादिति प्रागेव (7.8) प्रपञ्चितमस्माभिः ।।

10.40-40

निश्शेषवचनाशक्यतां प्रागुक्तामेव स्मारयति नान्तोऽस्तीति । दिव्यशब्देन देशविशेषवर्तित्वादिविव

क्षायां पूर्वमनियतदेशवर्तिनाम् अदिव्यानां प्रपञ्चनं विरुध्येतेत्यत उक्तं कल्याणीनामिति । "विभूतीरात्मन

श्शुभाः ' (19) इति ह्रुपक्रान्तम् । 2. उद्देशतः एकादेशतः ; प्रयोजकाकारैः विभूत्युद्धारेणेत्यर्थः । तद

भिप्रायेण कैश्चिदुपाधिभिस्संक्षेपत इति ।।

10.41-41

प्राधान्यतः (19) इत्युपक्रम्य प्रपञ्चितमर्थमनुक्तानामवश्यवक्तव्यप्रधानविभूतीनां संग्राहभिप्रायेणोपसंह

रति यद्यदिति श्लोकेन । विभूतिशब्दस्य प्राकरणिकमर्थमनुसंन्धायोक्तम् ईशितव्यसंपन्नमिति । सत्त्व

शब्दोऽत्र जन्तुपरः । वीप्साभिप्रायव्यञ्जनाय जातशब्दः । विभूतिमच्छ्रीमच्छब्दयोः पौनुरुक्त्यं परिहरति

कान्तिमदिति । नियन्तव्यविशेषविवक्षया वा गोबलीवर्दन्यायात् पुनरुक्तिपरिहार इत्यभिप्रायेणाह धनधान्यसमृद्धं वेति । उर्जितमित्युत्कृष्टत्वादिसामान्यविवक्षयामितरपाठवैयथ्र्यात् विशिष्टमर्थमाह

कल्याणेति । ऊर्जाशब्दो ह्रदीनत्वेन सन्नाहशीलत्वपरः । विभूतिमदित्यादि बलादिमतां प्रदर्शनम् । मम तेजोंशसंभवमित्युक्ते विग्रहगततेजोद्रव्यैकदेशोपादानत्वं प्रतीयेतेति तन्निरासाय प्रकृतौपयिकं तेजश्

शब्दार्थमाह तेजः पराभिभवनसामथ्र्यमिति । कोऽयमत्राभिभवो नाम ? तत्र च कथमंशसद्भावः इत्यत्राह ममेति । अचिन्त्यश्क्तेरित्यनेन चिन्तायोग्यांशनिष्कर्षाय ममेत्यस्याभिप्रायो विवृतः । तेन सर्वा

गोचरत्वाभङ्गुरत्वाघटितघटनत्वादिसिद्धिः । यथा शैलान्दोळनदोहलिनश्चण्डमारूतस्य विवृतः । तृण

प्रेणादिकं वेगलेशमात्रभवम्, तद्वदिहेति भावः । तेजसोंऽशः संभवो यस्य, तत् तेजोंशसंभवात् ।

10.42-42

एवं "प्राधान्यतः' (इत्युपक्रान्तमुपसंह्मतम् ;अथ संरक्षेपेण प्रधानाप्रधानसमस्तविभूति संग्रहमाह अथ

वेति श्लोकेन । उच्यमानेनेति । एतच्छब्द उक्त्यवसानराहित्यपर इति भावः । विभूतिपर्यवसानाज्ञान

रूपं प्रयोजनं न सिध्येदित्यभिप्रायेणाह किं प्रयोजनमिति । इदमित्यनेन तत्ततप्रमाणप्रतिपन्नवैचित्र्यं सूचितमित्यभिप्रायेण चिददिदात्मकमित्युक्तम् । कार्येत्यादना कृत्स्नशब्दाभिप्रेतविवरणम् । स्थूलं सूक्ष्मं

चेति कार्यकारणावस्थयोर्यथाक्रममन्वयः । स्वरूपेत्यादिना विष्टमभनप्रयोजनकथनम्। अनित्येषु स्वरूप

सद्भावः उत्पत्तिः ; नित्येषु त्वसद्व्यतिरेकः । नित्यानां स्वरूपमपि हि भगवतो नित्येच्छासिद्धम् । इदं

च प्रागेव प्रपञ्चितम् । अत्र स्वरूपैकदेशावतारादिरूपांशव्युदासाय, नियमनप्रकरणबलाच्च मम महिम्न

इत्युक्तम् । अत्र महिशब्देन प्रकृतं नियमनसामथ्र्यमेव विवक्षितम् । एत एव तेजोंशसंभवमित्यनेनैकाथ्र्यम् । एकशब्दोऽत्रादिक्षुद्रत्वपर इत्यभिप्रायेणोक्तम् अयुतायुतांशेनेति । स्तम्भनमत्र स्वैरान्निवारणम् ; स्ववशीकरणरूपमधिष्ठानं वा । एकांशेनेत्यत्र स्वोक्तमर्थं संवादयति यथो

क्तमिति । विश्वशक्तिः विश्वमेव शक्तिः तत्त्कार्योपयुक्तविशेषणभूतं विश्वमित्यर्थः । तेजोंशसंभवमित्यनन्

तरमभिधानात् एकांशेनेत्यस्याप्यंशशब्दस्य तद्विशयत्वमेव न्याय्यमिति भावः ।।

।। इति...भगवद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायां दशमोऽध्यायः ।।