← अध्यायः १५ गीताभाष्यतात्पर्यचन्द्रिका
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →

अथ षोडशोध्यायः।।16।।

तृतीयषट्कस्य त्र्तिकभेदादिप्रकारः प्रागेवास्माभिः प्रपञ्चितः। तत्र्त त्र्तिकभेदं प्रदश्र्य त्र्तिभिस्सङ्गततया षोडशमवतारयितुं तत्त्वत्र्तयविशोधनपरस्यार्थं क्रमादनुवदति अतीतेनाध्यायत्रयेणेति । गुणसङ्गतद्विपर्ययहेतुकत्व मिति पाठः। कप्रत्ययप्रयेगाभावेऽयत्र्त बहुव्रीहित्वमेवेति। इति गुह्रतमं शारुाामिति पूर्वाध्यायान्ते शारुाामुपक्षिप्तम्। अनधभारत शब्दाभ्यां च तदधिकारी सूचितः। स एव हि 'मा शुचस्संपदं दैवीमभिजातोऽसि पाण्डव'(5) इति वक्ष्यते। तत्र्तोक्तार्थव्यवसास्य शारुााधीनत्वात् पुरुषस्य शारुावश्यत्वं तावत् वक्तव्यम्। तञ्च "तस्माच्छारुां प्रमाणं ते कार्याकार्यव्यवस्थितौ।"ज्ञात्वा शारुााविधावोक्तं कर्म कर्तुमिहार्हसि"इत्यध्यान्ते वक्ष्यते। तदर्थमेव च पूर्वाध्यायान्तसूचिताधिकारिविशेषविवेचनाय अत्र्तादौ दैवासुरविभागोक्तिः। तदभिप्रायेण संगृहीतम्, "दैवासुरविभागोक्तिपूर्विका शारुावश्यता। तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते"(सं 10) इति। तदेतत् सर्वमभिप्रेत्याह अनन्तर मिति। उक्तस्य कृत्स्नसायार्थस्येति वक्ष्यमाणस्यानुष्ठानविवेकस्याप्युपलक्षणम्। उक्तैकदेशविशोधनरूपत्वाद्वा तदविवक्षा। संग्रह श्लोकोक्तानुष्ठानमपि कृत्स्नस्येति विशेषणेन अन्तर्भावितम्। हेयोपादेयस्वभावकथनस्य हानेपादानार्थतया फलितमाह शारुाावश्यतां वक्तु मिति। शारुावस्यत्वकथने देवासुरविभागगोक्तिः कुत्र्तोपकुरुते ; तत्र्ताह शारुावश्यतद्विपरीतयो रिति। भगवदाज्ञा हि शारुाम् तदनुवर्तिनो देवास्तेनानुगृह्रन्ते अतस्तथा वर्तितव्यम्। तदाज्ञातिक्रामिणोऽसुरास्तेन निगृह्रन्ते अतस्तथा न वर्तितव्यमिति भावः। नैसगिकविरोधद्योतनायात्र्त वक्ष्यमाणसर्गशब्दोपादानम्।

विभागोऽत्र गुणक्रियादभिर्वक्ष्यमाणैः । "यया स्वप्नं भयं शोकम्" इत्यादिभिस्तमश्शीलं हि भयम्:तत् सात्त्विकस्य दैवसर्गस्य न भवतीत्यभिप्रायेण भयनिरूपणार्थं तत्प्रतियोगित्वरूपं शिक्ष्यति इष्टानिष्टेति। वियोगसंयोग शब्दौ इष्टानिष्टाभ्यां यथाक्रममन्वेतव्यौ। इदं च स्वरूपकथनम्, नतप भयलक्षणानुप्रविष्टम्,

आगामिदुःखहेतुदर्शनजं दुःखमित्येव हि तत्। सत्त्वसंशुद्धिः सत्त्वाधिष्ठानमन्तः करणमिह सत्त्वम्, तस्य समीचीन(शुद्धिः) संशुद्धिः , सर्वदोषनिवृत्तिः। ततर् कन्दभूतरजस्तमोनिवृत्त्या कामरागासूयावञ्चनादिसर्वदोषनिवृत्तिमभिप्रेत्याह रजस्तमोभ्यामस्मपृष्टत्वमिति।ज्ञानयोग शब्दोऽत्र न कर्मयोगादीनां व्यवच्छेदार्थः, तेषामपि सात्त्विकोपादेयत्वात्।अतः कर्मज्ञानभक्तीनां साधारणं शास्त्रीयं शुद्धआत्मस्वरूपविवेचनमिह विवक्षइतमित्याह प्रकृतिवियुक्तेति। ज्ञानमेवात्रोपायत्वात् योगः। यद्वा शास्त्रजन्यज्ञाननिष्पाद्यं चिन्तनं ज्ञानयोगः। न्यायार्जिते त्यादिकं दानस्य शस्त्रीयाकारप्रदर्शनम्, अनेवंकरणस्य राजसतामसत्वेन वक्ष्यमाणत्वात्। एतच्च यथाविभवमनुसन्धेयम्। दमनं दमः, तच्चान्तःकरणकर्मकम् अमार्गान्निवर्तनं प्रकतरण(न्तरा)दिसिद्धमाह मनस इति। बाह्रेन्द्रियनियमनं हि शान्ति शब्देन वक्ष्यति। एतेन केषां चित् अनयोश्शब्दयोव्र्युत्क्रमेणार्थं (त्र्त?) व्याख्यानं निरस्तम्। 'यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्' (17) इत्यासुरयज्ञानां वक्ष्यमाणत्वादत्र्त मोक्षप्रकरणेऽभिमतं सात्विकं यज्ञोपादनमिति आदि शब्दः। अपकृषटदेवताविषयस्य अल्पफलकाम्यकर्मविधायकस्य च वेदभागस्य यावानर्थउदपान न्यायात् मुमुक्षुणाऽनभ्यसनीयत्वमाशङ्क्य तत्र्तापि त्र्तैवर्णिकवेदाभ्यासात् व्यावृति प्रकरणलब्धामाह सविभूतेरिति। "सर्वे वेदा यत्पदमामनन्ति"(क.2.1.5) "सर्वे वेदा यत्र्तैकं भवन्ति"(य.आ.11.1) इत्यादिक्रमेणानुसन्धाय पठतः उपनिषदभ्यासविधिप्रयुक्तस्य सर्वं प्रणवाष्टाक्षरषडक्षरद्विषट्कविषकनिष दुपनिषदभ्यासकल्पमित्यभिप्रायः। एतेन "अन्या वाचो विमुञ्चथ"(मु.2.2.5) इत्यादिकमप्यन्यपरं निवृत्तम्, "ओमित्येवात्मानंध्यायथ" इति ध्यानदशायां प्रणवस्यैवोपादेयत्वे तात्पर्याञ्च। यद्यपि स्वेनाधीयत इति स्वाध्यायः ---- स्वशाखा ; तथापि "न चैकं प्रति शिष्यते"इति न्यायात् सर्वशाखानुगतस्यार्थस्यनुसन्धेयत्वात्, जपविधेश्च सर्वत्र्ताविशेषात् वेदाभ्यासनिष्ठेति सामान्येनोक्तम्। शारुाीयो भोगसङ्कोचस्तप इति लक्षिते तद्विशेषान् उदाहरति कुच्छेति। "एकभुक्तेन नक्तेन तथैवायाचितेन च। उपवासेन दानेन न निर्दुशिको भवेत्"(अ.स्मृ. 1.1.24) इत्यादिविहितद्वादशीसामाराधनार्थैकादश्युपवासोऽत्र्त द्वादश्युपवास इत्युक्तः। यद्वा तिथिव्रतेषु तिथिद्वयव्रते च

द्वादश्युपवासो ऽप्यस्त्येव। आदिशब्देन करणत्र्तयनिप्पाद्यानां वक्ष्यमाणानां तपसां ग्रहणम्। राजसतामसग्राह्रफलर्थतपोव्यवच्छेदार्थमाह भगवत्प्रीणनकर्मग्यतापादनस्ये ति। तपसा शुद्वस्य ह्रर्चनादिष्वधिकारः।

अत्नान्येषामपि करणत्नयस्य स्वस्मिन् एकरूप्यात् तव्द्यावृत्त्यर्थमाह परेष्वि ति। कौटिल्यप्रसङ्गस्थले हि तन्निवृत्तिर्वक्तव्येत्यभिप्रायः। परपीडावर्जनमिति स्वपीडोपलक्षणम्। स्वपीडाऽपि मूर्खाणां परपीडाभिप्रायेति वा भावः। यथाद्दष्टार्थवचनेनैव सत्यवादी भवति; तथापि "सत्यं भूतहितं प्रोक्तम्"(व्या.स्मृ) इति नियमात् भूतहितो क्ति। परपीडाफलेति प्राग्वत् भाव्यम्। स्वभाव - अर्थ- शास्त्रप्राप्तानां निद्रा -अशन-महायज्ञ-दण्ड कुण्डिकादीनां त्यागायोगात् विशेषे नियच्छति आत्महितप्रत्यनीकेति। दम शब्देन मनोनियमनस्योक्तत्वात्, "शान्तो दान्तः"(वृ.6.4.22) इत्यादिष्विव शान्तिव रिह बाह्रेन्द्रियगते त्यभिप्रायेणाह इन्द्रियाणा मिति। अक्रोधाहिंसा दिष्विव प्रतियोगिलक्षणद्वारेण अपेशुनं लक्ष्यति परानर्थे ति। दये त्येतावता भूतविषयत्वे सिद्वेऽपि पुनरुपादानां बहुवचनं च शत्र्तुमित्र्तादिसर्वविषयाभि प्रायेण। यथोक्तं गैतमेन, "......दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायसो मङ्गलमकार्पण्यमस्पृहेति"(गै.ध.7.10) इति। अन्यत्र्त च, "सर्वभूतदया पुष्पम्"(पाहृपु. 73.57) इत्यादि। तदाह सर्वभूतेष्वि ति। "तापत्र्तयेणाभिहतं यदेतदखिलं जगत्। तदा शोच्येषु भूतेषु करुणां न (द्वेषं प्राज्ञः) करोति कः।। (वि.1.17.70) इति हि करुणाख्यतित्तपरिकर्म प्रह्रादः प्राह।" दुः खासहिष्णुत्वं -- तन्निराकरणेच्छेत्यर्थः। लुपिधातौ यङ्लुगन्ते क्किपि कृते लोलुबिति पकारान्तं पदम्; अचि कृते तु लोलुप इति ; तत् व्यञ्चयति अलोलुप्तवम् अलोलुपत्व मिति। 'लूञ् छेदने' इति धातौ लोलू इति यङ्लुगन्तम्। तत्र्त "त्वे च"(अष्टा. 3.3.64)इति च्छान्दसं ह्रस्वमभिप्रेत्याह अलोलुत्वमिति वा पाठ इति। अयोग्यस्यपृहारूपं लौल्यमिह निषिध्यत निषिध्यत इत्यभिप्रायेणाह विषयेष्विति। मुख्वयस्य मार्दस्यात्र्तानन्वयात् पूर्व (स्मितपूर्वक) भाषित्व -- मुखसौम्यत्वादिव्यङ्ग्यमौपचारिकं दर्शियितुमाह अकाठिन्य मिति। कठितं हि द्रव्यमन्येषामनुप्रवेशानर्हम् ; तद्वदिह स्तब्धप्रकृतिरिति तद्यतिरेकविवक्षया फलतो मार्दवं व्यनक्ति साधुजनेति। अवमतत्वादीनां योगोपकारकत्वात् तन्मूला व्रीडा सत्त्वनिष्ठानामयुक्ता ; अत उपयुक्तं ह्रीविशेषमाह अकार्यकरणे

व्रीडेति। प्रख्याताभिजनविद्यावृत्ता हि महान्तः परेष्वप्यकार्यकारिष्वपत्रपन्ते; स्वयं तु किमुतेति भावः। अलोलुपत्वाचापलत्वयोरपौनरुक्त्यायाह स्पृहणीयविषयसन्निधावि ति। एतेन क्रीडापरिहासमृगयाक्षादिष्वप्रसङ्गोऽपि दर्शितः। भूतेतरविषयस्तेजश्शब्दः पराभिभवनसामथ्र्ये अन्यानपेक्षतायां वा प्रयुज्यते। अतोऽत्र्ताभिभावकत्वाविनाभूतमनभिमनीयत्वं विवक्षितम्। तञ्च दुर्जनावकाशप्रदायिकार्पण्याभावद्वारेत्याभिप्रायेणाह दुर्जनैरिति। अक्रोधात् क्षमायाः विशेषं दर्शियति परनिमित्तपीडानुभवेऽपी ति। निरपराधेषु निर्विकारता ह्रौदासीन्यमात्र्तम् ; न तु क्षमा; पठ¬ते च निरपराधेष्वपि क्रोधः, "ब्रााहृणा गणिका वैद्याः सारमेयाश्च कुक्तुटाः। द्दष्टमात्र्तेण कुप्यन्ति न जाने तत्र्त कारणम्"इतीत्यभिप्रायः। परेषु तं प्रती ति। परेषां पीडानुभवं प्रतीत्यर्थः। भयचापलनिवृत्तेः पृथगुक्तत्वादुपस्थितायामपि महत्यामापदि शारुाीयानुष्ठानसंकल्पस्य अप्रच्युतावलम्बनमिह सात्त्विकी धृतिरित्यभिप्रायेणाह महत्या मिति। महत्यापदि संप्राप्ते स्मर्तव्यो भगवत् हरिः"(भा.स.90.42) इति सुकरमुख्यकर्तव्या परित्यागादितरदपि कर्तव्यं कृतमेव हि स्यादिति भावः। वक्ष्यति च सात्त्विकीं धृतिम्, धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकीं"(18.33) इति। योगेनाव्यभिचारिण्या मोक्षसाधनभूतभगवदुपास(दाराध)नाख्यप्रयोजनेन (नित्यानुगतया?) प्रयोजनान्तनिरपेक्षयेत्यर्थः। शरीरवाङ्यनांसि ह्रशुचिपुरुषस्पशर्शाशुचिद्रव्योपयोगादिभिरुपहतसत्त्वानि तेषु तेषु कर्मखयोग्यानि शारुौः शिष्यन्ते ; तदभावेऽत्र्त शौतमित्याह बाह्रेति। प्रत्यक्षसिद्धकरणपाटवादिरूपकृत्योग्यताव्यवच्छेदायाह शारुाीयेति । अहिंसाया उक्तत्वादद्रोहस्य ततो विशेषप्रदर्शिनायाह परेष्वनुपरोध इति। प्रबलेन हि दुर्बलाः स्ववशे स्थापिताः स्वाच्छन्द्यान्निवार्यन्ते, सोऽयमुपरोधः तदकरणमत्र्तानुपरोध इत्याह स्वच्छन्दे ति। स्वस्य तु योगोपकारी स्वच्छन्दवृत्तिनिरोधस्तप एव; अतः परेष्वि ति विशेषितम्। मानो गर्व इति पर्यायः स तु सामान्यत इह निषेद्धमिष्टः तथाऽपि वंशवीर्यश्रुताद्यनुगुणं मात्र्तया

भवन्नसौ सह्रेतापि ; अन्यथाभवन् असुराणां धर्मतया वक्ष्यमाणोऽत्र्त न प्रसङ्गमर्हतीत्याभिप्रायेण सोपसर्गमाननिषेध इत्याह अस्थाने गर्व इति। दैवीं संपद मित्युक्ते देवानां विभूतिः प्रतीयेत ; सा चात्र्त नान्वेति। अतोऽभिप्रेतमवतारयितुं व्युत्पतिं तावदाह देवसंबन्धिनी ति "सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ " (भा.मो.218 22) इति विभागात्, 'सत्त्वत् संजायते ज्ञानम्' (गी. 14.17) इति भगवदाज्ञानुवृत्तेः प्रीतिविषयत्वात्, परमपुरुषार्थहेतुत्वाञ्चेत्याह सा चे ति। उक्तं च, "महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्"(9.13) इति। अन्यत्र्त च, "विष्णुमक्तिपरो दैवः"(वि.ध. 109.74) इति। जातस्ये त्यकर्मकस्य जायतेः परत्यादिष्विवोपसर्गवशात्सकर्मकत्वात् कर्मणि द्वितीयान्वयमाह तामभिमुखीकृत्ये ति। "अभिरभागे"(अष्टा.9.23) इति कर्मप्रवचनीययोगाद्वा द्वितीया। अभिमुखीकृत्य अभिलक्ष्यः यथा दैवी

संपद्भवति, तथा कृत्वा जातस्येति यावत् ।ईदृशगुणयुक्तानामेवंविधायाः संपदोऽवश्यम्भावित्वमत्र अभिमुखीकरणं विवक्षितम्।तथा च स्मर्यते,"जायमानं हि पुरुषं यं पश्येन्मधुसूधनः।सात्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्चकः"(भा.349.73) इति। तदिदमाह तांनिर्वर्तयितुं जातस्ये ति।।2-3।।

दम्भो दर्पः इत्यादौ भवन्ती त्यनुषज्यते । धार्मिकत्वख्यापनायेति ।न तु भगवदाज्ञानुवृत्तिबुद्धयेत्यर्थः। कृत्याकृत्याविवेककर इति। शारुाातिलङ्धनहेतुरिति भावः। अतिमान शब्दोक्तगर्वापरपर्यात् तत्कारणस्य दर्पस्य विशेषमाह विषयानुभवनिमित्त इति। एतेनआचार्यभगवत्सन्दर्शनादिनिमित्तहर्षव्यवच्छेदः। अस्था इति पूर्वोक्तमत्र्त स्वविदायभिजानाननुगुण इत्यनेन विवृतम्। विद्याभिजन ग्रहणं वीयर्यादेरप्युपलक्षणम्। "वयस कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च। वेषवाग्वृतिसारूप्यमाचरन् विचरेदिह"(मनु 4.27) इत्थस्योल्लङ्घनमिहाभिप्रेतम्। बाह्रकुद्दष्टिपु च वाक्पारुष्यं दण्डारुष्यं च नातीव दोष इत्यभिप्रायेणाह साधूतामुद्वेगकरस्स्वभाव इति। अत एव साधुबहिष्कारात् शारुाबहिष्कारोऽपि स्यादेवेत्यर्थः। प्राप्तकालनिद्रादिरूपमनुपयुक्तवपिषयं चाज्ञानमासुराणामन्येषामपि तुल्यम् ; अदोषश्च। तव्द्यवच्छिनत्ति परावरेति। ईद्दशाज्ञानमूलमागमान्तरेषु परावरतत्त्वव्यत्ययकल्पनं वेदविरुद्धाचारपरिग्रहश्च। पूर्वोक्तकतिपयगुणव्यतिरेकप्रदर्शनमिहोपलक्षणार्थम्। चाकरेण वाऽनुक्तसमस्तसमुच्चयः

आसुरीं संपबदमभिव्यङ्क्तुमाह भगवदाज्ञातिवृत्तिशीला इति। यान् प्रति उच्यते च, "पश्यत्येनं जायमानं ब्राहृा रूपद्रोऽथवा पुनः। रजसा तमसा चैव (चास्य) मानसं समभिप्लुतम्"
(भा.मो.357.77) इति, 'विपरितस्तथासुरः' (वि.ध.109.74) इति च। प्रजापतिवाक्ये च देहात्माभिमानादिमूलत्रिवर्गनिष्ठामधिकृत्योच्यते, "असुराणां ह्रेषोपनिषत्" (छा.8.8.5) इति। अत्र संपच्छब्दो भगवदाज्ञातिलिङ्घनरुचीनामभिप्रायेण, उपालम्भाभिप्रायेण, संपद्यत इत्येतावन्मात्रविवक्षया वा नेतव्यः।।4।।

दैवासुरस्वभावयोः श्रद्धोद्वेगजननाय, "ऊध्वं गच्छन्ति सत्त्वस्थाः" (14.18) इत्यादिना उक्तमिह संक्षिप्य स्मार्यते दैवी संपदि त्यर्धेन। विमोक्षस्येष्टप्राप्तिपर्यन्ततां वक्तुमात्यन्तिकानिष्टनिवृत्तिरूपं शब्दस्य मुख्यार्थमाह बन्धान्मुक्तय इति। आत्मसाक्षात्कारोदिद्वारेति वा। निबन्धः नियतो बन्धः। तत्र अधोगच्छन्ती त्येतत् स्मारयति अधोगतीति।।4।।

अत्र मा शुचः इति वचनं न शारुाोपक्रमप्रकान्तोशोच्यशोकप्रतिषेधार्थम्, तस्य बहुधा परह्मतत्वात्। संपदं दैवी मभिजातोऽसीत्यनेन तत्परिहारसंभवाच्च। अतो निबन्धायासुरी मते त्युक्ते शारुाीयमर्यादानतिलङ्घिन्यपि स्वात्मनि, "स्थिरो निगूढाहङ्कारः" (दश.2.5) इति प्रकियया धीरोदात्तनायकगुणभूतस्य निगूढस्वाहङ्कारत्वस्य स्वात्मसाक्षिकत्वात् तावन्मात्रेणापि स्वस्मिन् आसुरत्वमतिशङ्कमानस्य श्रुतद्विविधसंपत्कस्य बीभत्सोः स्वप्रकृतित्वज्ञापनेन शोकमपनयतीत्याह एतच्छØत्वे ति। अत्राप्यस्थाने शोकं त्वमेवाहारयसीत्यभिप्रायेणाह शोकं मा कृथा इति। न हि देवप्रकृतीनां धर्मोत्तराणामासुराः पुत्राः संभवन्तीत्यभिप्रायेण पाण्डव शब्दसंबुद्धिरित्याह धर्मिकाग्रेसरस्ये ति।।5।।

स्वरूपादिभिः समेषु सर्वेष्वात्मसु दैवासुरविभागस्य किं निदानमिति शङ्कां सविशेषानुवादे परिहरन् अत्यन्तपरिहर्तव्यत्वज्ञापनाय प्रसक्तस्यासुरवृत्तान्तस्य विवक्षितमुपक्षिपति (विस्तरमुपलक्षयति) द्वो भूतसर्गा विति श्लोकेन। अस्मिन् लोके इति न लोकान्तरव्यवच्छेदार्थम्, सर्वत्र्त देवसुरविभागसिद्धेः। न च

निरर्थकाधिकरणमात्र्तनिर्देशो युक्तः। अतो लोकोपलम्भसिद्धाकारेण विहितनिषिद्धकरणसूचनमिह विवक्षितमित्याभिप्रायेणाह कर्मकाराणा मिति। कर्मलोकविवक्षया वा अस्मिन्निति विशेषणम्। "सर्गः स्वभावनिर्मेक्षनिश्चयाध्यायसृष्टिषु"इति बह्रर्थस्याभिप्रेप्तं वक्तुमिहार्थवशात् धातोः प्रयोज्यव्यापारपरत्वं तावदाह सर्ग उत्पत्तिरिति। उत्पत्तिस्वरूपे कथं दैवत्वासुरत्वविभङाग इति शङ्कायां लोकेऽस्मिन्नि त्यनेन दैवासुरविभागे सर्गशब्देन चाभिप्रेतं संकलथ्याह प्राचीनेति । दैवासुरसंपदर्थत्वादुत्रपत्तौ दैवासुरत्वोक्तिरित्यर्थः। सर्ग शब्दस्य स्वभावपरत्वं सृज्यमानपरत्वं चाप्रसिद्धत्वादनाद्दत्य प्रसिद्धसृष्टिपरत्वेन व्याख्यानम् (तम्)। दैवस्सर्गो विस्तरशः प्रोक्त इत्युक्ते देवानां सर्गादिकं वंशानुचरितकीर्तनवत् प्रतीयते ; न च तथा कृतम्। यद्यपि, "प्रजहाति याद कामान्"(2.55), 'दैवमेवापरे यज्ञम्' (गी.4.-35) "चतुर्विधा भजन्ते माम्"(7.13) इत्यादिभिज्र्ञानयोगकर्मयोगभकितियोगनिष्ठाः पुरुषा निर्दिष्टाः -- तथाऽपि तत्कर्तव्यप्रपञ्चन एव तत्र्तापि तात्पर्यम्। अतोऽत्र्त दैवसर्गस्य विस्तरेणोक्तिस्तत्कार्यद्वारेत्यभिप्रायेण यदाचारकरणार्थे त्यादिकमुक्तम्। 'अभयं सत्त्वसंशुद्धिः' इत्यादिकं प्राक् विस्तरेणोक्तस्य संग्रहणमित्यभिप्रायेण कर्मयोगादिग्रहणम्। आसुरं सर्ग मित्यत्र्तापि वक्ष्यमणानुसारादेवमेव विवक्षेत्याह असुराणा मिति। आसुरं सर्गं मे शृण्वित्युक्ते सर्गान्वयेन कर्तरिषष्ठीप्रतीतिः स्यात् ; ततोऽपि

शृण्वित्यस्यापेक्षितमाप्ततमतवसूचनमेवोचितमित्यभिप्रायेणाह मम सकाशादि ति। अविदितमुपादेयं यथा नोपादातुं शक्यत्, तथा हेयमप्यविदितं न हातुं शक्यम्; अतोऽत्र्त सावधानो भवेत्यभिप्रायेण शृण्वित्युक्तम्।।6।।

अत्र्त प्रवृत्तिनिवृत्ति शब्दौ न लौकिकविषयौ ; आसुराणामेव लौकिकेष्टानिष्टप्राप्तिपरिहारार्थमपथप्रवृत्ते स्स्त्पथनिवृत्तेश्च सिद्धत्वात्। न च विहितनिषिद्धमात्र्तविषयौ, रागप्राप्ताशारुाप्राप्तविषयौ वा, न शौचं नापि चाचारः इति पुनरुक्तिप्रसङ्गात्। अतोऽत्र्त मुमुक्ष्वपेक्षितप्रवर्तकविवर्तकनिवर्तकधर्मविवेका भावे तात्पर्यमित्याह अम्युदयसाधनमि त्यादिना। तावेतौ धर्मौ स्मर्येते, "प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रावीत्। निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रावीत्"(भा.मो.2119.2) इति। न विदुरित्यत्र्त 'न सत्यं तेषु वद्यते' इतिवदसद्भावमात्र्तं न विवक्षितम्, अपितु शतकृत्वः प्रतिपादितेऽपि तमः प्राचुर्यात् अपरिज्ञानमित्यभिप्रायेणाह न जानन्तीति।

कृत्ययोग्यतेति पागुक्तमत्र्त वैदिककर्मयोग्योत्वामि त्यनेन विवृतम्। बाह्रशौचमशुशीलनादिभिरवश्यकर्तव्याकरणाञ्च न वद्यते; आन्तरं त्वात्मगुणाभावत्। न शौचं नापि चाचारः इति क्रमात् कार्यकारणयोर्निषेध इत्यभिप्रायेणह तदिति। ननु संध्यावन्दनादेर्वर्णाश्रमधर्मस्य "प्राजापत्यं गृहस्थानाम्"(वि 1.6.37) इत्यदिभिः फलान्तरं श्रूयते ; तत् कथं तस्य शौचहेतुत्वोक्तिरित्याह यथोक्त मिमि। व्यतिरेकोक्त्या हेतुहेतुमद्भावेऽत्र्त द्दढीकृतः। इदं नित्यकर्मान्तरहानादावपि ग्राह्रम्। यथाज्ञान मित्यादि। विप्रलम्भरसिकत्वात् यथाज्ञानं भाषणबावः, हिंसास्वभावत्वात् हितरूपभाषणाभावः।।7।।

एवं न सत्यस्यभाषणमात्र्तम्, अपितु तद्विपरीतभाषणमस्तीत्यमनन्तरमुज्यत इत्याह किंचे ति। असत्यशब्दोषऽत्र्त न मिथ्यात्वपरः,तस्य लोकोपलब्धिस्ववचनविरोधादिभिरेव प्रतिक्षिप्तत्वेन आतिस्थूलत्वात्, परमार्थं स्थिरं चौश्चर्यमभिमत्य निरूढाभिनिवेशानामसुराणां प्रपञ्चमिथ्यात्वकूटयुक्तिमिः प्रतार्यत्वासंभवाञ्च। "यथा वयमनृतप्रायाः, तथा सर्वं जगदिति प्राहुः" इति व्याख्याऽपि मन्दा जगच्छब्दस्य चेतनमात्र्तविषयत्वाभावात्, निषेधानां चात्र्त पूर्वोक्ताकाख्यतिरेकपरत्वात्, अप्रतिष्ठमनीश्वरम् इतिवत् शारुासिद्धप्रतिषेधपरत्वात्, असुराणां च शारुाप्रद्वेषशीलत्त्। अतोऽत्र्त शारुा सिद्धस्य प्रतिषेधपरो।यं शब्दः। तञ्च सत्यं ब्राहृैवेति, "सत्यं ज्ञानमनन्तं ब्राहृ"(आ) इत्यादिषु प्रसिद्धम्। छान्दोग्ये च चेतनाचेतानियनतृत्वेन ब्राहृनाम्तयाऽसौ निरुक्तः, "तस्य ह वा एतस्य ब्राहृणोनाम सत्यमिति।तानि ह वा एतानि त्रीण्यक्षरानि सत्,ति,यमिति।तध्यत् सत् तदमृतम्।अहरहर्वा एवंवित् स्वर्गं लोकमेति"
(छा.8.3..4.5)इति।अतोत्र कपिलगुरुकुमारिलजिनसुगतचार्वाकादि मतानुवर्तिन इव अब्रााहृात्मकं जगदाहुरिति विवक्षामाह सत्यशब्देति ।

अप्रतिष्ट शब्देनापि सर्वलोकविरोधादिभिः प्रत्यक्षसिद्धप्रतिष्टानिषेधांसंभवात् शास्त्रेषु प्रतिष्ठात्वेन उपतिष्टसर्वप्रतिषेधविवक्षामाह तथेति ।तदेवोदाहरणविशेषेण विवृणोति ब्रााहृणाऽनन्तेनेति। एतेन प्रतिष्टाशब्दस्य

धर्माधर्ममात्रपरत्वेन व्याख्या निरस्ता। सर्वांल्लोकान् बिभर्तीति ।स्वरूपतःकार्यतस्चेति

भावः।आदिकूर्म-शेष-दिङ्नागप्रभृतिभिर्ही विधृतेति शास्त्रेणोक्ते हि हैतुकैरेवं जल्प्यते,"धर्ता धरित्र्या

यदि कष्चिदन्यरतस्य परस्ततोऽन्यः।एवं केचिदिच्छन्ति।गुरुत्वान्नित्यपतनं च जैनाः। अनीश्वर शब्दोऽप्यत्र न प्रतिमाराजादिलौकिककेश्वरप्रतिषेधार्थः,तैस्तत्प्रत्षेधाभावात् ।यथाऽनुवदन्ति,"लोकव्वहारसिद्ध इति चार्वाकाः "

(न्या.कु)इति । न च ब्राहृनिषेधमात्राथः. असत्यमि त्यादिना पुनरुक्तैः।अतोऽत्र व्युत्पत्यनुसारेणालौकिकनियन्तृनिषेधे तात्पर्यमित्याह सत्यसंकल्पेनेत्यादिना । अयस्कान्तादिवत् अचित्स्वभावात्, "जीवाजीवात्मकं सर्वं जगदेतन्निरीश्वरम्"इति जैनादिद्दष्ट¬ा धर्मादिमात्र्तवसाद्वा, "परमेश्वरसंज्ञोऽज्ञकिमन्यो मथ्यवस्थिते"(बि.1.17.23) इतिवत् आभिमानिकेश्वरशासनाद्वा, देशकालावच्छिन्नेश्वरसमुदायप्रवाहवशाद्वा जगत्प्रवृत्तिरिनपि परमेश्वरत्वेन कल्पयन्ति, ते आसुरा एवेति भावः। अन्येऽपि केचिदीश्वराः प्रवर्तका द्दश्यन्ते ; श्रूयन्ते च ; तत् कथं भगवतस्सर्वनियमनमित्यात्र्ताह अहं सर्वस्येति। अन्येषामपि नियन्तॄणां नियमनरूपप्रवृतिर्भगवदधीनैव। तथा च सूत्र्तितम्, "कर्ता शारुाार्थत्वात्"(ब्रा.2.3.33) इत्युपक्रम्य, "परात्तु तच्छुतेः"(40) इति। एवं त्रिभिः जगत उत्पत्तिस्थिति प्रवृत्तीनां परब्राह्राधीनत्वं नेच्छन्ती त्युक्तं भवति। तत्र्त जगदुत्पत्तेः प्रतिज्ञातं ब्राहृनैरपेक्ष्यमन्यतस्मिद्ध तयैवमुपपादयन्तीत्याह वदन्ति चैवमिति। अपरस्परेत्यादिकं न पूर्वेणैकवाक्यम्, किमन्य दित्यादेरनन्बयात्। क्लिष्टपनादनुपत्तेश्व। "एतदेबैषामासुरत्वे पर्याप्तम् ; किंमन्यदुच्यत"इति कल्पना अध्याहारादिग्रस्ता। वदन्ति चैव मिति तु नाध्याहारादिविवक्षयोक्तम्, एतां द्दष्टि मित्यनेनैव तत्सिद्धेः। अतः कामहेतुक मित्यस्यैवोपपादनाय अपरस्परसंभूत मित्याद्युक्तिरित्यभिप्रायेणाह योषिदिति। "क्रियासान्तत्येन हेतफलभावरहितम्"इति व्याख्यान्तरमतिमन्दम् ; प्रसिद्धतमार्थत्यागात्, कामहेतुक मित्यनन्वयाञ्चेत्याभिप्रायेणाह अनेवंभूतं

किमन्यदुपलम्यत इति। यद्यपि योषित्पुरुषसंसर्गमन्तरेणैव स्वेदजानां स्थावराणां चोत्पत्तिद्र्दश्यते तथाऽपीश्वरमात्र्तहेतुका देवादिसृष्टिर्नोपलभ्यते। द्दश्यमानं तु अयोनिजं योनिजवदेव दर्शनबलादङ्गीकुर्मः तत्र्ताप्यन्वयतिरेकावस्थिततत्तत्सामग्रीमात्रात् कार्यसिद्धिसंभवे किमीश्वरेण कत्र्र्ता कल्पितन, आगमिकतया स्वीकृतेन वेति भावः। अकिञ्चित्कामहेतुकम् इति परोक्तपाठान्तरस्य अप्रसिद्धत्वादिभिरनादरव्यक्त्यर्थं किमन्यदिति पाठस्य प्रतिनिषेधपरतां व्यनक्ति किंचिदपि नोपलभ्यत इति। अत इति।

अन्वयव्यतिरेकबलादित्यर्थः। कामहेतुक मिति द्दष्टाकारणोपलक्षणम्। कामप्रावण्यवशात् तदुक्तिः। यथा पाषण्डागमा अपि तत्तपुरुषप्रवर्तितान्तादयः एवं कल्पेकल्पे प्रवृतमीश्वरशिल्पिनो जगन्नगरवृतान्तं संभावितमपि तीव्रौषधकल्पशारुाप्रद्वेषादलपन्तीत्युक्तं भवति।।

एतां द्दष्टि मिति। विपरीतां द्दष्टिमित्यर्थः। अवष्टभ्ये त्याक्रमणादिप्रतीतिव्युदासायाह अवलम्ब्ये ति। नित्यास्यात्मनो विनाशाभावात् 'णश अदर्शने' इति धात्वर्थोऽत्र्त विवक्षित इत्याह अद्दष्टेति। स्वयंज्योतिषः प्रत्यगात्मस्वरूपस्य देहाध्यासाधिष्ठानाताय नित्यमुपलम्भात् देहातिरिक्तत्वेन विशोषितम्। नष्टात्मत्वहेतुरिहाल्पबुद्धित्वमुच्यत इति पुनरुक्तिपरिहाराभिप्रायेणाह धटादिवदिति। यद्वा पशुमृगादिवत् कर्मवशात् स्वारसिको विविक्तात्मानुपलम्भः। अल्पबुद्धयाः इति तु तत्परिहाराशक्तिरुच्यत इति भावः।एवं परावारात्मविषयविपरीतद्दष्टिरुक्ता अथ प्रभवन्तयुग्रमर्माणः इत्यादिना तत्फलमुच्यते। उग्रकर्माणः इत्यत्रोग्रव्रतादिप्रतीतिव्युदासायाह सर्वेषां हिंसका इति। अशुभाःस्वंसर्गिर्णापि दोषावहा इत्यर्थः। जगतःक्षयाय प्रभवन्तीति, "अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकाधुक्","परस्परं भावयन्तः श्रेयःपरमवाप्स्यथ"(3.10.11)इत्यादिप्रतिपादीतां भगवन्मूलां लोकभावनधर्ममर्यादामतिलङ्घयन्ति ; तदनुवर्तिनश्चान्येऽपि मन्दाः तदाचारोपदेशादिविरुाम्भादिक्रमेण सर्वस्य जगतरिुावर्गापवर्गरूपवृद्धिविरहिणः त्र्तिविधतापाभिहतिरूपाय क्षयाय भवन्तीत्यर्थः।।9।।

कामो हि जगद्धेतुरुक्तः अतः स एव हि तेषामाश्रयणीयोऽभिमतः तदाश्रयणेतिकर्तव्यतारूपास्तु दम्भमानादयोऽशुचिव्रतपर्यन्ता इत्युच्यते काम मिति श्लोकेन। दुष्प्रापविषयत्वं दुष्पूरत्वे हेतुः यद्वा विषयप्राप्तिर्हि कामस्य पूरणम् अतो दुष्प्रापविषयत्वमेव दुष्पूरत्वम्। आश्रित्य प्रयोजनतयाऽभिसंधायेत्यर्थः। तदभिप्रायेणाह तत्सिसाधयिषये ति। विपरीतप्रवृत्तिहेतुभूतं कृत्याकृत्याविवेकान्धत्वमिह मोह शब्देन विवक्षितमित्याह

आज्ञानादिति। असत् ग्रहणम् आर्जनं योषां तेऽत्र्त असद्ग्राहाः। धर्माभिसंधिमन्तो हि न्यायेनार्जयन्ति कामप्रवणास्तु चौर्यादिभिंस्तदुपकरणानीत्याह अन्यायगृहीतपरिग्र हानिति। परिग्रशब्दोऽत्र्त परिग्राह्रपरः। "ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान्"(92) इति त्वेतस्यैव विवरणम्। अत एव अशुभाभिनिवेशानिति व्याख्याऽप्यत्र्त मन्दा। गृहीत्वे ति तादात्विकविनियोगपरत्वात् आत्मीयत्वाभिमानपरत्वाद्वा पुनरुक्तिपरिहारः। पाषण्डागमाद्निर्दिष्टानि हि व्रतानि पुरुषस्य दर्शनस्पर्शनाद्ययोग्यताहेतुत्वात् स्वयमशुचीन्येवेत्यभिप्रायेणाह अशारुाविहितव्रतयुक्ता इति। धर्माभिसंधिरहितानामपि तामसानां विषहरणपाषाणस्फोट (ना)दित्यस्तम्भनप्रतिमाजल्पादिवञ्चनोपायैवर्वशीकृतानां वेदबाह्रेषु व्रतेषु मात्र्ताया संयोगो भवति। यद्वा शौर्याहंकारादिमूलः शारुाविरुद्धः सङ्कल्पोऽत्र्त व्रतशब्दाभिप्रेतः. शारुाीयेष्वपि व्रतेषु भगवत्समाराधनविवक्षामजानताम् अयथाशारुाकरणादशारुाविहितप्रयुक्तत्वम्। दम्भमानौ प्रागेव व्याख्यतौ। मदोऽत्र धनाभिजनविद्यादिमूलमयथायथचेष्टितारम्भकमौद्धत्यम्।।10।।

एवं प्रवर्तकानामुपर्युपरि मनोविकारादय उच्यन्ते चिन्तामपरिमेया मित्यादिभिः। अशक्यविषयवृथाप्रायासव्यञ्जनायाह अद्य श्वो वे ति। अपरिमनेया मिति असंख्येयविषयत्वेनानन्तशाखत्वं विवक्षितमित्याह अतपरिच्छेद्या मिति। प्रलयान्तामित्यत्र्त शरीरपातावधिकत्बोक्तिर्मन्दा। अनन्तकालसाध्यमल्पकालेन सिसाधयिषन्तीति तु व्यामोहातिशयख्यापनेन सप्रयोजनमिदम् प्रलयशब्दश्व प्रसिद्धतम विषय उचितः। चिन्तयितॄणां पुरुषाणामाप्रलयस्थायित्वाभावात् चिन्तायाः स्वरूपेण प्रलयान्तत्वं चायुक्तमित्यभिप्रायेणाह प्राकृतप्रलयावधिकालसाध्यविषयमा मिति। असंख्येयेषु चिन्ताविषयेष्वेकैकोऽपि दुस्साध इति भावः। प्रयोजनतायऽभिमतेषु कामोपभोग एव परमो येषां तेऽत्र्त कामोपभोगपरमाः तदाह कामापभोग एवेति। स्वर्गापवर्गप्रतिषेधार्थ एताव च्छब्द इत्याह इतोऽधिक इति। संजातनिश्चया इति अत्र निश्चितशब्दे 'भुक्ता ब्राहृणाः' इतिवत् कर्तरि क्त इति भावः।।

चिन्ता कर्तव्यविषया आशा तु फलविषया आशाविषयाणमसंख्यातत्वात् तदाशानामपि शतशास्वत्वेन तथात्वम्।

कामक्रोधपरायणाः इत्यत्र क्रोधस्य परमप्राप्यतया तदभिमानविषयत्वाभावात् कामक्रोधयो रैकाग्र्य्यामात्र्तं विवक्षिमित्याह कामकोधैकनिष्ठा इति। अयनशब्देऽत्र्त आश्रयपरः कामो हि वहन्यमानः

क्रोधात्मना परिणमतीति प्राक्प्रपञ्चितस्मारणे तात्पर्यात् न पुनरुक्तिः। कामभोगार्थ मिति। विवयानुभावर्यम्। परमनिश्श्रेयससाधनपूतपरमपुरुषसमाराधनार्थं यत्कर्तव्यं, हन्त तत् अनर्थावहातिक्षुद्रक्षणिकसुखाभासार्थमासीदिति भावः। अन्यायेनेति । न हि यज्ञादिवत् न्यायार्जितैः कामोपभोगो निष्पयम् तत्र्त ईहया निष्पादयन्तीति विवक्षित्वात् अर्थसञ्चयानिति द्वितीयान्वयः।।11।।

एवं "सहरुाभगसंदर्शनात्मश्च महानन्दलक्षणो मोक्षः"इत्यादिभिः कामोपभोगः परमपुरुषार्थ इति कृत्वा तदर्थमर्थपुरुषार्थस्वीकार इत्युक्तम् अथ तत्र्त प्रवृत्तस्य, व्यतिरेकसंज्ञासंस्थावस्थितयोगिवत् लब्धालब्धकृताकृतप्रत्यवेक्षणमुच्द्योतनाय इदमद्येत्यादिना। एतेन पूर्वेक्तचिन्ताविषयानन्त्यामप्युदाह्रतं भवति। वक्ष्यमाणधनव्यातिरिक्तविषयत्वद्योतनाय पुत्र्तक्षेत्रादिशब्दः। सात्त्विकानामीश्वराद्यधीनकृताकृतप्रत्येवेक्षणाव्यवच्छेदाय अहङ्कारगर्मतयाऽपि तथाविधानुसन्धानस्य भ्रान्तिरूपत्वं मयेत्यनेन सूच्यत इत्याह मत्सामथ्र्येनैवेति। एवकाराभिप्रेतं विवृणोति नाद्दष्टादिनेति। एवमेवोत्तमपुरुषाकृष्टाहंशब्दव्याख्यानपरूपे अहमेवेत्यादाप्यभिप्रायः। इदमस्तीदमपीति, चिन्तायां विषयभूयस्तत्वज्ञापनम्।।13।।

एवमिष्टिप्राप्तौ अभिप्राय उक्तः अथानिष्टनिवृत्तावुच्यते असौ मये ति। अत्र्त मयेत्यादेः शत्र्तुहननोयुक्तगुणवत्तसिमानगर्मतामाह बलवते ति। शूरः व्याघ्रादिवत् परबलं तृणीकृत्य निर्भयप्रवेशशीलः, "शूरं भीरुं कविं जडम्"(मा.मो.178.32) इति शूरस्य भीरुप्रतियोगिकत्वेन पाठात्। वीरोऽत्र्त पराक्रमे ग्लान्यादिविकाररहितः। प्रेक्षावदनन्तपुरुषप्रवृत्तिविषयाद्दष्टानादरेण स्वसामथ्र्यभात्र्तावलम्बने को हेतुरित्यात्र्ताह किम त्रेति। मन्दधीभिरिति।अयमभिप्रायः -- अर्थादिग्रहणलुब्धैः निगूढाभिप्रायैग्र्रेन्थैः प्रातारिता दानयज्ञादिषु प्रवृत्तास्सिद्धमप्यर्थं परित्यज्य कृपणा भवन्ति इति। दुर्बलै रिति। प्रबलो हि न प्रातारयितुं शक्यते, 'न भेदासाध्या

बलदर्पिता जनाः' (रा.सु.41.3) इति न्यायादिति भावः। परिकल्पितेनेति । नतु लोकायतशारुा विवक्षितप्रत्यक्षान्वयव्यतिरेकरूपप्रमाणसिद्धेनेत्यर्थः।।13।।

एवमिष्टिप्राप्त्यनिष्टपरिहारयोस्स्वसामथ्र्यमात्र्ताधीनत्वभ्रम उक्तः अतः अथ स्वसामथ्र्यादावपिभावोऽप्यत्र्त ईश्वरशब्देन विवक्षित इत्याह स्वाधीनोऽह मिति। स्वव्यतिरिक्तसमस्तनियन्तृत्वाभिमानोऽप्यत्र्ताभिप्रेत इत्याह अन्येषां चे ति। "तवांसकूटे भूमण्डल्म्, त्वं हि सर्वेषां नियन्ता"इत्युक्ते तथाविधत्वाभिधा (मा.?) नादेव हि तथाविधानां प्रीत्यादिसंभव इति भावः। पूर्वापरानुगुण्यात् भोगीति भोगसामथ्र्यपरम् ; तत्र्ताहं चेत् न(चेतन?) धर्मस्वभावादेवंभूत इत्यहंशब्दाभिप्रायमाह स्वत एवे ति। सिद्धः ज्ञानाद्यतिशयसंपन्न इत्यर्थः। सिद्धसमीहित इति वा। सुखीति। पुत्र्तजन्मादिसुखयोगीत्यर्थः। भोगीसुखि शब्दयो र्हेतुफलविवक्षया वा पौनरुक्त्यपरिहारः। एषामीश्वरत्वादीनामभिजनान्तानां भुक्तशिष्ट कर्ममूलत्वं प्रागेव श्रुतस्मृतिभिरूपपादितम्।।14।।

अस्मिल्लोके इति। लोकान्तरं तु नास्तीति हि तदभिप्रायः यद्वा अस्तिशब्दाभिप्रेतसार्वकालिकसमनिषेधविवक्षया अस्मिल्लोके इति निर्देशः। यावल्लोकमन्वेषणेऽपीति भावः। प्रकृतैरेवाकारैरे कैकशोऽपि सद्दशः प्रतिषिध्यत स्वसामथ्र्ये ति। मया सद्दशः क इत्येतावति वक्तव्ये, अव्यशब्दः अन्यत्वमेवासामथ्र्ये हेतुरिति द्योतनार्थः। यद्वा, मत्तोऽन मया सद्दशो नास्ति अहमेव मया सद्दश इति, "रामरावणयोरिव"(रा.यु.110.24) इतिवत् भाव्यम्। यक्ष्येदास्यमीत्येतत् सात्विकविडम्बनमात्र्तविश्रान्तेन दम्भेनैव। दम्भेनाविधिपूर्वक मिति ह्रनन्तरं विशेष्यते। मोदिष्य इति न स्वार्गादिविवक्षया ;अपितु यजमानत्वादिनिमित्तमहच्छब्दादिलाभेन। यक्ष्ये इत्यादिप्रतिपत्तावपि प्राकरणिकीमहङ्कारोपहतिं दर्शयति ईश्वरीनुग्रहनिरपेक्षेणे ति। इत्यज्ञानबिमोहिता इत्येव पर्याप्तम् ; मन्यन्त इति तु वैशद्यार्थमुक्तम्।।15।।

ईश्वरे न्यस्ताभरा हि प्रायशो निश्विताः, तद्यतिरेकमाह स्वेनैव सर्व मिति। इति कृत्वा - इति मत्वेत्यर्थः। चिन्तारूपवृत्तिक्तं मन एव चितम् ; त(त्र)त्प्रवृत्तिभेदादनेकत्वोक्तिः तत दर्शयति एवं कुर्या मित्यादिना।
विभ्रान्ताः विक्षिप्ता इत्यर्थः

। द्वा विभ्रान्ति विपरीतज्ञानम् मोह स्त्वज्ञानम्। अथवा "अन्यथा चिन्तितं कार्यं देवेन कृतमन्यथा"इति न्यायात् चिन्तानामेव भ्रान्तिपरूपत्वमाह एवंरूपेणे ति। "न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णावत्र्मेव

भूय एवाभिवर्धते" (मनु.2.94 ; वि.4.10.23) इत्ययमर्थ उपसर्गेण द्योत्यत इत्याह प्रकर्षेण सक्ता इति। "इदं कृतमिदं कार्यमिदमन्यत् कृताकृतम्। एवमीहासमायुक्तं कृतान्तः कुरुते वशे" (भा. मो 175.21) इत्यक्तमाह मध्ये मृता इति। असुचौ कामभोगे प्रसक्तानां तथाविधमेव फलमित्याभिप्रायेण नरकस्याशुचित्वविशेषणम्। पूयरुधिरवसादिमयत्वं चाशुचि त्वम्।।16।।

आत्मसंभाविताः इत्यत्र परसंभावनाप्रसङ्गरहिततया अब्भक्षः इतिवत् अवधारणगर्भतामाह आत्मनैव संभाविता इति। आत्मप्रशंसादिरूपदोषव्यक्त्यर्थमाह आत्मनैवात्मान मिति। परैस्संभाविता अपि हि सन्तो लज्जकते। स्तशब्धताहेतुः परिपूर्णमननयमाना इति। न किंचित्कुर्बाणा इति तु शब्दार्थः। किंचित् गुरुवन्दनादिकमपीत्यर्थः। धनादिद्दष्टसंपत्तिमदेन अद्दष्टवैकल्यतिरस्कार इति वक्तुं पारलौकिकाप्रवृत्तिहेतुं शङ्कते कथ मिति। 'विद्यामदो धनमदस्तृतीयोऽभिजनो मदः' (भा. 3.34.46) इति सन्नियोगशिष्टत्वात् धनस्यात्र्तोक्तेश्व तत्समभिव्याह्रतो मदहेतुर्मानो विद्याभिजननिबन्धन इत्याह विद्याभिजनाभिमानेन चे ति। नामसंबन्धिनो यज्ञा नामयज्ञाः संबन्धश्वात्र्त धर्मादिप्रयोजनाभिसन्धिव्युदासाया फलफलिभावेनेत्यभिप्रायेणाह नामप्रयोजनै रिति। कीत्र्यादिष्वपि नामशब्दप्रयोगात् तदभिसंधेश्व दम्भेने त्यादिना सिद्धेः संज्ञायां प्रसिद्धिप्रकर्षात् अपहासार्थत्वौचित्याञ्च यष्टोतिनाममात्रप्रयोजनैरि त्यक्तम्। अत एव 'यज्ञसमाख्यामात्र्तम् ;न तु वस्तुतोऽसौ यज्ञः' इति व्याख्याऽपि मन्दा प्रदर्शिता ? अविधिपूर्वकत्वोक्त्यैव तदर्थसिद्धेश्च। दम्भेन हेतुने त्यभिसंधिविशेषस्य हेतुत्वोक्तिः। यष्टत्वख्यापनाये ति तु विषयतः प्रयोजनतश्च तद्विवरणम्। विधिरत्र्त विधायकं वाक्यम्। तदुक्त प्राकरपरित्यगोऽत्र्तविधिपूर्वकत्वमित्याह अयथाचोदन मिति।।17।।

पुनरुक्त्यादिपरिहारायानन्तरश्लोकस्य सात्त्विकयजनेतिकर्तव्यतारूपगुणवैपरीत्यपरत्वमाह तेचेद्दग्भूता यजन्त इति। क्रमेण दाम्भिकयज्ञेतिकर्तव्यताक्रमं विवृणोति अनन्यापेक्ष इत्यादिभिः। भगवनेव सर्वं

कारयतीत्यस्य प्रतिक्षेपोऽहंकारः, यत्परिहाराय स्मर्यते, "यद्यहंकारमाश्रित्य यज्ञदानतपः क्रियाः। कुर्वंस्तत्फलमाप्नोति पुनरावर्तनं तु तत्।।"(भा. मो.210. 73) इति। बलवत्त्वमात्रस्यादोषत्वेऽपि भगवतो बलेने त्यस्य विपरीतं स्वबलपर्याप्त्यनुसंधानम्। तदुभयमूलो दर्पः सर्वावज्ञानहेतुः पूज्यपूजाप्रतिस्फर्धीं भगवत्प्रसाददेवेष्टप्राप्त्यनिष्टपरिहारावित्यस्य विपरीतौ कामक्रोधाविति। संश्रिताः सम्यगाश्रिताः, निरपेक्षहेतुत्वेनाभिमन्यमाना इत्यर्थः। अत्र्त परदेहेष्वि ति यज्ञानुकूलप्रतिकूलॠÏत्वक्तस्करादिविवक्षया। सप्तम्या स्थितिस्सिद्धा। सा च प्रवर्तनाद्यर्थमिति श्रुत्यादिभिः प्राक्प्रपञ्चितम् ; तत्प्रतिपत्तिविरुद्धं स्मारयति सर्वस्य कारयितार मिति। हितप्रर्तनमेवासूयाहेतुरिति भावः। पुरुषोत्तम मिति। यद्वैलक्षण्यविज्ञानमात्र्तात् कृतकृत्यो भवतीत्युक्तम्, स हि महोपकारी द्वेषासूयास्पदमेषामिति भावः। सर्वप्रवर्तनादिगुण कथनं गुणेषु दोषाविष्करणरूपारूपासूयालक्षणव्यकत्यर्थम्। पुरुषोत्तमप्रकरणे हि स्मृत्यादिप्रवर्तनाय, "सर्वस्य चाहं ह्रदि सन्निविष्टः"(गी.14.15) इत्युक्तम् तदेवात्र्त मामात्मपरदेहेष्वित्यनेन स्मार्यत इति च भावः। ' प्रद्विषन्तोऽम्यसूयकाः ' इत्यनयोः प्रातिलोम्येन हेतुकार्यतयाऽन्वयक्रमं यजन्तइत्यनुकर्षणेन वाक्यसमाÏप्त चाह कुयुक्तिभि रिति। ईश्वरपरतन्त्र्तत्वे कथं कर्मवश्यता फलानां कर्ममूलत्वे च किमीश्वरेणेत्यादयः कुयुक्तयः। अनसूयालक्षणव्याजेनासूयामपि बृहस्पतिरलक्षयत् - न गुणान् गुणिनो हन्ति स्तौति मन्दगुणानपि। नान्यदोषेषु रमते साऽनसूया प्रकीर्तिता।। (अ.स्मृ.1.34) इति। असहिष्णुत्वरूपेण लक्षणेन द्वेषं विवृणोति मामसहमाना इति। असहमानत्वं च तदाज्ञातिलङ्घनपर्यन्तमनुसंधेयम्। एतञ्च स्वसंश्यानामप्यशुचिनरकपतने निदानम् यथोच्यते, "मज्जन्ति पितरस्तस्य नरके शाश्वतीस्समाः। द्विष्यात् यो विबुधश्रेष्ठं देवं नारायणं हरिम्" (भा. मो.356.6) इति। एवं "ये द्विषन्ति महात्मानं न स्मसन्ति च केशवम् (जनार्दनम्)। न तेषां पुण्यतीर्थेषु गतिः संसर्गिणामपि।।"(भा.शां.मो.336.36) इत्यादि चात्र्तानुसंधेयम्। नामयज्ञैरित्यस्योपलक्षणतामाह यागादिकं सर्व मिति।।28।।

एवंविधप्रद्वेषादिपूर्वकयागादेरपि यथोचितप्रतिकूलफलप्रदोऽहमेवेत्युच्यते तानहमित्यादिश्लोकद्वयेन। वैषम्यनैर्धृण्यपरिहारार्थः तानि त्यनुवाद इत्यभिप्रायेणाह य एवं मां द्विषन्ती ति। अत्र्त चतुर्भिर्विशेषणैः 'न मां दुष्कृतिनः (7.15) इत्यादिनोक्ताश्चतुर्विधा दुष्कृतिन एव विवक्षिता इति तद्याख्यानमिदम्। तथा हि

नराधमशब्दस्तावत् स एव। 'आसुरं भावमाश्रिताः' इत्येतत्तु द्विषन्त इत्येतत्समानार्थतया प्रागेव व्याख्यातम्। एवं क्तूराशुमशब्दावपि यथायोगं मूढादिशब्दसमानार्थौनेतव्यौ इति। अत्र्तात्यन्ताविभागेन योजनं चासुरराश्यैक्यात्। जन्मादिचक्रपरिवृत्तिष्वविच्छिन्नतयैकाकारेण सरणात् संसारः संतानः। संसरति पुरुषोऽस्मिन्निति अधिकरणार्थधञन्तोऽत्र्त

संसारशब्दः। तह्बहुत्वोक्तिश्चक्रपरिवृत्त्यानन्त्यादित्याह जन्मजरे त्यादिना। संसार शब्दस्य सदसज्जन्मासाधारणत्वाद्विशेष्यत इत्याह तत्रापी ति। "एतद्धि दुर्लभतरं जन्म जदीद्दशम्"(6.42) इद्याद्युक्तसात्विकजन्मविशेषव्यवच्छेदाय तामसत्वम् आसुरीष्वेवेत्युच्यत इत्याह मदानुकूलप्रत्यनीके ष्विति। ईद्दशं प्रतिकूलजन्म देवादिचतुर्विधयोनिष्वपि द्रष्टव्यम् इति। "एष एवासाधु कर्म कारयति तं यमधो निनीषति
"(कौषी. 3.9) इत्यादिश्रुत्यनुसारेण क्षिपामीत्युक्तस्य द्वारमाह तत्तदिति। पापप्रवृति हेतुभूतक्ररबुद्धयादिप्रादनमपि प्राचीप्रद्वेषादिफलभूतत्वात् नेश्वरस्य वैषम्नैर्धृण्यापादकम्।।19।।

उत्तरोत्तरमपकर्षपरम्परोच्यते आसुरीमिति श्लोकेन। मूढ शब्दतः फलितमाह मद्विपरीतज्ञाना इति। यद्वा विपरीतज्ञानमेवात्र्त मोहः, स च वाक्यार्थनुगुण्यात् स्वविषयो विशेषितः। सत्त्वोत्तराणामपि परब्राहृप्राप्तेरनेकज्मसंसिद्धिसाध्यतया तामसेषु तत्प्रसङ्गप्रतिषेधयोरनौचित्यात् प्राप्तेः प्रथमपर्वभूतशारुाजन्यज्ञानप्राप्तिरिहाशारुावश्येष्वासुरेषु प्रतिक्षिप्यते। तत्र शारुाजन्यज्ञानत्वव्यक्तयर्थमाह अस्ति भगवा निति। अधमत्वस्योत्तमावधिसापेक्षत्वादवधिसमपर्णसमर्थतया सन्निहितः ततश्श ब्दो न हेतुपर उचित इत्यभिप्रायेणाह ततः ततो जन्मन इति।।20।।

अवश्यपरिहरणीयं संक्षिप्योच्यत इत्यभिप्रायेणानन्तरग्रन्थं संगमयति अस्ये ति। यथावस्थितस्यात्मनोऽप्राप्तिरेव ह्रात्मानः स चासुरस्वभाव एवेत्यभिप्रायेणाह आसुरस्वभावस्यात्मनाशस्ये ति। मूलच्छेदात् सर्वोऽप्यासुरस्वभावस्छिन्न एवेत्यभिप्रायेणाह मूलहेतु मिति। आसुरस्वभावरूपस्य नरकस्ये ति।

एतस्मादधिकं किमन्यन्नरकमिति भावः। आसुरस्वभावपरिहारार्थं हि तन्मूलोऽयमुपदेश इति वा, तमोद्वारैरि त्यनन्तरैकाथ्र्यं वा विवक्षितम्। आत्मनो नाशनव मिति। "असन्नेव स भवति" (आ) इत्यादिक्रमेणेति भावः। प्रवेशहेतुर्हि द्वारम्; तेनापि प्राप्तिमात्रहेतुत्वमिह विवक्षितमित्यभिप्रायेणोपचारावलम्बनक्रममाह मार्गो हेतुरित्यर्थं इति। द्वारं नाशनम् । प्रवेशन्नेव नश्यतीति भावः। त्याज्यस्य दोषोक्तिस्त्यागविध्युपकारिकेत्यभिप्रायेणाह तस्मा दिति। रौरवादिर्नरकः पापक्षयहेतुः आसुस्वभावस्त्वसौ पापार्जनहेतुत्वादतिधोर इत्यभिप्रायेणाह दूरतः परित्यजे दिति।।21।।

त्याज्यस्य दोषोक्त्या त्योगो विहितः, त्यागस्यैवेदानीं फलप्रवाह उच्यते एतै रिति श्लोकेन। मद्विपरीतज्ञानहेतुभि रिति तमः फलोक्तिः, तम शब्दो वाऽत्र्त तत्पर्यन्तलक्षकः, तमोद्वारैर्विमुक्तत्वात् तमसाऽपि विमुच्यते; श्रेयश्चरणं च तत्त्वज्ञानपूर्वकमित्यभिप्रायेणाह लब्धमद्विषयज्ञान इति। श्रेय आचरती त्यनेन प्रागुक्तभगवत्प्रद्वेषादिनिवृत्तिर्विवक्षिता। श्रेयः प्रशस्तम् तञ्च संग्रहाम् भगवदामनुकूलयम् तदनुप्रवेशात् सर्वस्य शारुाीयस्येत्यभिप्रायेणाह मदानुकूल्य इति। ततः श्रेयश्चरणादेव हेतोरित्यर्थः। मामप्राप्यैवेत्यादिपरामर्शादिह परगतिशब्दनिर्दिष्टः प्राप्यपर्यवसानभूमिः परमपुरुष इत्याह मामेव परां गति मिति।।

आसुरस्वभावेषु मूलतया प्रधानभूतास्त्रय उक्ताः; तेभ्योऽ प्रधानतमः परिहार्थो हेतुरनन्तरमुच्यत इत्याह शारुाानादर इति। सर्वावस्थसमस्तपुरुषहितानुशासमानात् शारुाशब्दो वेदेष्वेव प्रथमं प्राप्तः, तदनुबन्धादनन्येष्वित्यभिप्रायेणाह शारुां वेदा इति। विधायकवाक्यस्य शारुाप्रतिपक्षभूतः कामकारोऽत्र न शारुाशब्देनोपात्तत्वात् तद्यापारोऽत्र्त विधिशब्दविवक्षित इत्याह विधिरनुशासन मिति। फलितमाह वेदाख्यं मदनुशासन मिति। शारुामेव विधिरिति सामानाधिकरण्यं वा विवक्षितम्। मदनुशासन मित्यनेन 'श्रुतिः -स्मृतिर्ममैवाज्ञा' (वि.ध.73.32) इत्यादिस्मारणम्। एतेनान्यथा लिङाद्यर्थं वर्णयन्तोऽपि प्रत्युक्तः। लिङादयो हि प्रशासितुरभिप्रायमाक्षेपादभिधानतो वा व्यञ्चयन्ति। शारुाप्रतिपक्षभूतः कामकारोऽत्र न शारुाीयवैकल्पिकादिविषय इत्यभिप्रायेणाह स्वच्छन्दानुगुणमार्गेणेति। "अथ केन प्रयुक्तोऽयं "(3.36) "काम एषः क्रोध एषः "(3.37) इत्याद्युक्तदाकामप्रयुक्ते (क्त इ?)त्युक्तं भवति। "या वेदबाह्राः"स्मृतयो याश्च काश्च कुद्दष्टयः। सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः।।" (मनु.21.95) इत्याद्यनुसन्धानेनाह न कामप्यामुष्मिकीं

सिद्धि मिति। आमुष्मिकसुखहेतुभूतामुपायसिद्धिमित्यर्थः। न सुखं - न खर्गादिसुखमित्यर्थः। यद्वा आमुष्मिकीं सिद्धिमिति स्वर्गादिफलविषयम्; सुस्व मिति त्वैहिकपरम्। अत एव हि किञ्चिच्छब्दः। इहापि हि सुखं शारुाीयानुष्ठानजनितपरम पुरुषानुग्रहादेव। अत एव हुच्यते "अनाराधितगेविन्दा ये नरा दुःस्वभागीनः"(वि.ध.19.13) इति। कैमुत्यप्रदर्शनायात्र्तान्यसुखसमभिव्याहार इत्याह कुतः परां गति मिति।।23।।

अध्यायोक्तं सर्वमेतदर्थमित्याभिप्रायेणानुशिष्यते तस्माचछारुा मिति। अत्र्त कार्याकार्य शब्दयोरुत्पाद्यानुत्यसयासङ्गमभिप्रेत्याह उपादेयानुपादेयव्यवस्थाया मिति। अनुष्ठानविर्ययसस्य तत्त्वातत्त्वयोः

प्रदर्शनार्थावित्यभिप्रायेणोपादेयादिसाधारणशब्दः। उपादनमत्र्त यथाशारुां मनसास्वीकरणम्। शास्रुामेवेत्ययुक्तम्, "श्रुतिः स्मृतिस्सदाचारः"(याज्ञ.1.1.7) इत्यादिविरोधादित्यत्र्ताह धर्मशारुोति । आदिशब्देनाच्छेदाय ज्ञात्वेत्यादिकमुच्यत इत्याह यदेवेति। सर्वाणि हि शारुााणि साक्षाद्वा परम्परवा वा परमपुरुषसमाराधनतयैव सर्वणि कर्माणि विदधिति ; तत्र्त तत्त्वहितयोः, "वेदैश्च सर्वैरहमेव वेद्यः"(25.250 इत्युक्तं परतत्त्वं प्रागुक्तसमाख्यया स्मारयति पुरुषोत्तमाख्यमिति। तत्प्राप्त्युपायभूतं चे ति। सर्वेषां हि फलसङ्गादित्यगेनानुष्ठितानां परब्राहृप्रप्त्युपायत्वमेव स्वभाव इति भावः। अत्र्त अवबोधयन्ती त्यनेनाज्ञापनरूपवनिधानशब्दार्थे विवृतः। अयथाशारुां कर्मणां करणं च न कर्तव्यमित्यभिप्रायेण कर्तुमर्हसीत्युक्तम्। तस्मादप्यनुष्ठानतत्त्वध्यवासायसाधारण्यमाह
उपादातु मिति। अर्हसीत्येतदनुसारी मध्ये त्वमिति निर्देशः तस्य दैवीं संपदमभिजातस्य योग्यत्वाति -शयद्योतनाय। एतदुक्तं भवति सत्त्वोत्तरेण भवता कुहकतपुरुषकौशलतिशयपरिग्रहितमोहनशारुााभास प्रक्रियानुधावनेन नित्यभगवदानज्ञारूपवेदाख्यशारुसारभूताम् यथाधिकारं कर्मयोगभिक्तियोगरूपभगवदनन्यभजनपरमधर्मात् न प्रच्युतेन भविव्यम् ; अपितु स एव नित्यमुपादेयः इति। इहेति निर्देशः कर्माधिकारभूमिप्रदर्शनार्थः ; कर्मवश्यास्थत्वज्ञापको वा।।24।।

इति श्रीमद्गीताभाष्य टीकायां तात्पर्यचन्द्रिकायां षोडशोऽध्यायः।।16।।